________________ सम्मत्त 466 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त तथाहि-योगशास्त्रवृत्ती"अनाद्यनन्तसंसारा-ऽऽवर्तवर्तिषु देहिषु। ज्ञानदृष्ट्यावृत्तिवेद-नीयान्तरायकर्मणाम् / / 1 / / सागरोपमकोटीना, कोट्यस्त्रिंशत्परा स्थितिः। विशतिगोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः / / 2 / / ततो गिरिसरिदूत्राव-घोलनान्यीयतः स्वयम्। एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः / / 3 / / शेषाब्धिकोटिकोट्यन्तः,स्थितौ सकलजन्मिनः। यथाप्रवृत्तिकरणा-द्ग्रन्थिदेश समियूति / / 4 / / रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिराच्यते। दुरुच्छेदो दृढतरः, काष्ठादेरिव सर्वदा / / 5 / / गुन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः। उत्कृष्टबन्ध्योग्याः स्यु-श्वतुर्गतिजुषोऽपि च॥६।। युग्ममतेषां मध्ये नु ये भव्याः, भाविभद्राः शरीरिणः / आविष्कृतः परं वीर्य-मपूर्यकरणे कृते / / 7 / / अतिक्रामन्ति सहसा, तं ग्रन्थिं दुरतिक्रमम्। अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः / / 8 / / अथानिवृनिकरणा-दन्तरकरणे कृते। मिथ्यात्वं विरलं कुर्य-वेदनीयं यदग्रतः / / 6 / / आन्तर्मुहूर्तिकं सम्य-ग्दर्शनं प्राप्नुवन्ति यत्। निसर्गहतुकमिदं, सम्यगश्रद्धानमुच्यते॥१०॥ गुरूपदेशमालप्य, सर्वेषामपि देहिनाम्। यत्तु सम्यक्त्वश्रद्धानं, तत्स्यादधिगमं परम्॥११॥ यमप्रशमजीवातु-बीज ज्ञानचरित्रयोः / हेतुस्तपः श्रुतादीनां, सद्दर्शनमुदीरितम्।।१२।। श्लाघ्यं हि चरणज्ञान--विमुक्तमपि दर्शनम्। न पुननिचारित्रे, मिथ्यात्वविषदूषिते॥१३॥ ज्ञानचारित्रहीनोऽपि, श्रूयते श्रेणिकः किल। सम्यग्दर्शनमहात्म्या-तीर्थकृत्त्वं प्रपत्स्यते॥१४॥ इति अत्राह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गादधिगमाद्वा तज्जायत इति?, अत्रोच्यते-स एव क्षयापशमादिनिसर्गाधिगमजन्मेति न दोषः / उक्तं च-“ऊसर-देशं दडि लयं च विज्झाइवणदवो पप्प / इय मिच्छस्साणुदए, उवसमसम्म लहइ जीवो ||1|| जीवादीणमधिगमो, मिच्छत्तस्स उखआवसमभावे। अधिगमसम्म जीवा,पावइ विसुद्धपरिणामो" / / 2 / / इति / कृतं प्रसङ्गेनेति / ध०२ अधि०। पं० सं०। आ० म०। (31) सप्तमनरकपृथिव्यां सम्यक्त्विनो गमनागमने निषिद्धेआगमणं पि निसिद्ध, चरिमा उ एइ जं तिरिक्खेसु / सुरनारगा य सम्म-विट्ठी जं यन्ति मणुएसु // 431|| चरमायाः-सप्तमपृथिव्या न केवलं गमनमपित्वागमनमपि गृहीतसम्यक्त्वस्यागमे निषिद्धम्, यतस्तस्या उद्धृत्य सर्वोऽप्येत्यागच्छति तिर्यक्ष्वेव न मनुष्येषु "सत्तममहिनेरइया तेऊवाऊ अणंतख्वट्टा / न य पावे माणुस्सं" इति वचनादिति सुरनारकाश्च सम्यक्त्वसहिता यस्मान्मनुष्येष्वेवायान्ति अतः सामर्थ्यात्तिर्यग्गतिगामिनः सप्तमपृथ्वीनारकामिथ्यात्वसहिता एवागच्छन्तीति गाथार्थः / विशे०। ध०। (32) सम्यक्त्वादिश्रावकधर्म वक्ष्य इत्युक्तं, तत्र-- सम्यक्त्वं तावत् स्वरूपतः फलतश्च निरूपयन्नाहतत्तत्थसद्दाहणं,सम्मत्तमसग्गहोण एयम्मि। मिच्छत्तखओवसमा, सुस्सस्साई उहोंति दढं / / 3 / / व्याख्या- तत्त्वार्थानां सर्वविदुपदिष्टतया परमार्थिकाना जीवादिपदार्थानां श्रद्धानमेतदेवमेवेतिप्रत्ययः। तत्त्वेन वा भावतोऽर्थानां श्रद्धानं तत्त्वार्थश्रद्धानम्। तत्किमित्याह-सम्यगितिप्रशंसाओं निपातः, समञ्चतीति वा सम्यक, तद्भावः सम्यक्त्वमित्यस्य स्वरूपमभिहितम् / अथास्यैव दोषविशेषनिवृत्तिरूपे फलमाह-अथवा तत्त्वार्थश्रद्धानं निह्नवानामप्यस्तीति तेषामपि सम्यक्त्वं स्यादित्याशक्याह-असद्ग्रहोऽशोभनाभिनिवेश आप्तवचनबाधितार्थपक्षपात इत्यर्थः / 'न' नैव, यथोक्तश्रद्धानविरुद्धत्वात् असद्ग्रहस्य भवतीति गम्यते / एतस्मिन्ननन्तराभिहितलक्षण सम्यक्त्वे सति। ततो निहवानां कथं तदिति / अथ कस्मादयमिह सति न भवतीत्याह--मिथ्यात्वस्य मिथ्यात्वमोहनीयकर्मदलिकस्य क्षयेणोदीर्णस्य विनाशेन सहोपशमो विपाकोदयापेक्षया विष्कम्भितोदयत्वं मिथ्यात्वक्षयोपशमस्तस्माद्धेतोः। उपलक्षणत्यादस्य क्षयादुपशमाच्चेत्यपि द्रष्टव्यम् / मिथ्यात्वोदयो ह्यसद्ग्रहहेतुः / मिथ्यात्वाकर्मोदयश्च सम्यक्त्वे सतिनास्तीत्यसद्ग्रहाभावोऽत्रेति भावः / के पुनरिह सति गुणा भवन्तीत्याह--शुश्रूषादयो धर्मशास्त्रश्रवणेच्छाप्रभृतयो वक्ष्यमाणाः। तुशब्दः पुनःशब्दार्थः / भवन्ति जायन्ते। मिथ्यात्वक्षयोपशमादेरवानेनापि सम्यक्त्वस्य फलमभिहितम्। ननु मिथ्यात्वोदयेऽपि ते केचन संभवन्तीत्याह-दृढमतिशयेन यादृशैस्तैः सम्यक्त्वमभिव्यज्यत इति भावः / अतिशायितां च तेषां दर्शयिष्यामः / ननुतत्वार्थश्रद्धानं सम्यक्त्वमित्युक्तम् / श्रद्धानं च तथेति प्रत्ययः / स च मानसोऽभिलाषः / न चायमपर्याप्तकाद्यवस्थायामिष्यते / सम्यक्त्वं तु तस्यामभीष्ट, षट्षष्टिसागरोपमरूपायाः साद्यपर्यवसितकालरूपायाश्च तस्योत्कृष्टस्थितेः प्रतिपादनादिति कथं नागमविरोधः? इत्यत्रोच्यतेतत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्य, सम्यक्त्वं कार्य, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यो रुचिरूप आत्मपरिणामविशेषः। आह च"से य सम्मते पसत्थसम्मत्त-मोहणीयकम्माणुयेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते" / अत एवामनस्काना सिद्धादीनां तदिष्यते। इह च सम्यक्त्वे सत्येव यथोक्त्वं श्रद्धानं भवति, यथोक्तश्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवतां सम्यक्त्वस्यावश्यंभावित्वोपदर्शनाय कार्ये कारणोपचारं कृत्वा तत्त्वार्थश्रद्धानं सम्यक्त्वमिति / ननु मिथ्यात्वोदयजन्यत्वेनासद्ग्रहस्य सम्यक्त्ये सति तत्क्षयोपशमाद्युक्तोऽसद्ग्रहाभावः, शुश्रूषादिगुणानां तु ज्ञानचारित्रांशरूपत्वेन ज्ञानावरणीयचारित्रमोहनीयवीर्यान्तरायकर्मक्षयोपश्पामालभ्यत्वान्न युक्तः सम्यक्त्वसद्भावमात्रे तद्भाव इति। अत्रोच्यते-सम्यक्त्वहे तोमिथ्यात्वक्षयोपशमस्याक्सरे ज्ञानावरणानन्तानुबन्धिकषायलक्षणचारित्रमोहनीयादिकर्मणामपि क्षयोपशमोऽवश्यमेव भवतीति कृत्वा सम्यक्त्वे सति ते भवन्तीत्यभिधीयते यथा केवलज्ञानावरण