________________ सम्मत्त 460 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त तानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषुत्थितेष्वेव धीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययणानुपस्थितास्तेष्विति / निमित्तसप्तमी चेयम्यथा 'चर्मणि द्वीपिन हन्ती' ति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्पाणि?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतेः क्षयोपशमापादनाद गुणवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः,स च मनोवाका यलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डः, तेषूभयरूपेष्वपि। तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना,इतरेषु तूपरतदण्डत्वार्थमिति / उपधीयते-संगृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः, भावतो माया। सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकारतेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगर-तास्तद्विपर्ययेणेकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपष्वेपि यद्भगवता यदिशनाऽकारि तत तथ्य-सत्यमे-तदिति, चशब्दो नियमार्थः, मध्यमेवैलदगवद्वचनम् / यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति-तथा चैतद्वस्तु यथा भगवान् जगाद। यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिस्यात्सर्वभूतानी' त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पानरबाधेति। (14) तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेय तदर्शयितुमाह-- तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिटेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे। (सू०१२७) तत-तत्त्वार्थ श्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'न निह ति-न गोपयेत् तथाविधसंसर्गादिनिमितोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीना गृहीत्वा व्रतानि पुनरपिव्रतेश्वरयागादिविधिना गुरु-समीपे निक्षिप्योत्प्रव्रजनम, एवं गुर्वादः सकाशादवाप्प सम्यग्दर्शन न निक्षिपेतन त्यजेत, किं कृत्या? - यथा तथाऽवस्थित धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा,धर्म- रवभावमबुध्येति। तदवगमे तु किं चापर कुर्यादित्याह- 'दिवहिं' इत्यादि दृष्टरिष्टानिष्टरूपैर्निर्वेदं गच्छेद-विराग कुर्यादित्यर्थः, तथाहि--शब्दः श्रुतैः रसैरास्वदितैर्गन्धैराघ्रातैः स्पर्शः स्पृष्टः सद्धिरेवं भावयेत -यथा शुभेतरतापरिणाभवशाद्भवतीत्यतः कस्तेषु रागो द्वषो वति / किं च-'नो लायस्स' इत्यादि, लोकस्य-प्राणिगणस्यैषणाअन्वेषणा इष्टषु-शब्दादिपु प्रतिरनिएषु तु हेयबुद्धिस्तां न चरत-न विदयात। (15) यस्य चैषा लोकेषणा नास्ति तस्यान्याप्यप्रशस्ता मतिनास्तीति दर्शयतिजस्स नत्थि इमा जाई अण्णा तस्स कओ सिया ? दिटुं सुयं मयं विण्णायं जं एवं परिकहिजइ,समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति। (सू० 128) यस्य मुमुक्षोरेषा ज्ञातिः-लोकैषणाबुद्धिः नास्ति-न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात्?, इदमुक्तं भवति-भोगच्छारूपां लोकैषणा परिजिहीर्षा व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवाइमा-अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो नहन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावधानुष्ठानपरिहारद्वारेण कुतः स्यात्? शिष्यमतिस्थैर्यार्थमाह-'दिट्ठ' मित्यादि, यदेतन्मया परिकथ्यते तत्सर्वज्ञेः केवलज्ञानावलोकेन दृष्ट, ततः शुश्रूषुभिः श्रुतं, लघुकर्मणा भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्यादिके मत्कथिते यत्नवता भवितव्यमिति / ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह- 'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनिशाम्यन्तोगायेनात्यर्थमासेवां कुर्वन्तः, तथा प्रलीयमानाः-मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिका जाति प्रकल्पयन्ति-संसाराविच्छित्तिं विदधतीत्यर्थः। यद्येवमविदितवेद्याः साम्प्रतक्षिणो यथा जन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्त्तव्यमित्याह अहो अ राओ य जयमाणे धीरे सया आयथपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिक्कमिजासि त्ति बेमि। (सू०१२६) अहश्व रात्रि च सतमान एव यत्नवानेव मोक्षाध्वनि धीर:-परीषहोपरार्गाक्षोभ्यः सदा--सर्वकालम् आगतं-स्वीकृतं प्रज्ञानं -सदसद्विवको यस्य स तथा,प्रमत्तान्-असंयतान् परतीर्थिकान्वा धर्माद्वहिर्व्यवस्थितान् पश्य, ताश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह- 'अप्पमन' इत्यादि, अप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा / इतिरधिकारसमाप्तौ, ब्रवीमीतिपूर्ववत् / इति सम्यक्त्वाध्ययने प्रथमोद्देशकटीका परिसमाता। उक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशके सम्यग्वादः प्रतिपादितः, स च प्रत्यनीकमिथ्याधादव्युदासेनात्मलाभ लभते, व्युदासश्वन परिक्षानमन्तरेण, परिज्ञानं च न विचारमृतं, अतो मिथ्यावादभूततीर्थिकमतविचा-रणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमा-दिसूत्रम्-'जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृतं, तच्च सप्तपदार्थश्रद्धानात्मकम्, तत्र मुमुक्षुणाऽवगतशखपरिज्ञाजीवा-जीवपदार्थेन संसारमोक्षकारण निर्णतव्ये, तत्र संसारकारणमारस्रवस्तद् ग्रहणाच बन्धग्रहणं, मोक्षकारणं तु निर्जरा तद्ग्रहणाच्च संवरस्तत्कार्यभूतश्व मोक्षः सूचितो भव