SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ सम्मत्त 453 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त तो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति। तत्र यद्देशकालसंहननानुरूप यथाशक्ति यथावत्संयमानुष्ठानरूप मौनम्-अविकलं मुनिवृत्त तन्नैश्वयिकं सम्यक्तवं, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्ग गम्यः शुभात्मपरिणामः, किंतु-सम्यक्त्वहेतुरपि। अर्हच्छासनप्रीत्यादिः कारण कार्योपचारात्सम्यक्त्वं तदपि हि पारंपर्येण शुद्धचेतसामपवर्गप्रापिहेतुर्भवतीति उक्तं च- "ज मोक्षं तं सम्म, तम्मिह होइ मोणं तु। निच्छयओ इयरस तु, सम्म सम्मत्तहेऊवि॥१॥" व्यवहारनयमतमपि च प्रमाणं तद्वलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात, तदुक्तम्- 'जइ जिणमयं पवज्जह, ता मा ववहारनिच्छयं मुयह / ववहारनयोच्छेए, तित्थुच्छे ओ हु ओवस्स' // 1 // इति तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिक पागलिक सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयोपशमाजात केवलजीवपरिणामरूपं क्षायिकमौपशमिक चा-पादलिक, नैसर्गिकाधिगमिके पुनरग्रे वक्ष्येते, तथा त्रिविध कारकादि कारकरोचकदीपकभेदतः 'उवसमभेएहि व' त्ति-वाशब्दः त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः बहुवचनं च गुणार्थ, ततरित्रविधं चतुर्विधं दशविधं सम्यक्त्वमुपशमादभेदैर्भवतीति इदमुक्त भवति–औपशमिकक्षायिकक्षायोपशमिक भेदात् त्रिविधम, आपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाचतुर्विधम्, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पक्षविधम, एतदेव प्रत्येक निसर्गाधिगमभेदादृशविधभिति। कथं पुनर्द्विविधादिभेद सम्यक्त्वमित्याहसम्यग-अवैपरीत्येन आगमोक्तप्रकारेण न तु स्वमतिपरिकल्पितभेदैरिति भावः / अथैनामेव गाथां स्फुटतरं व्याख्यानयन्नाहएगविहं सम्मरुई, निसग्गभिगमेहिं तं भवे दुविहं / तिविहं तं खइयाई, अहवा विहु कारगाई य !!657 / / एकविधम्- एकप्रकारमुपाधिभेटाविवक्षया निर्भेदमित्यर्थः, सम्यग्रुचिः / सम्यगज्ञानराशयविपर्यासनिरासेन इदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः जिनोक्तानुसारितया तत्वार्थश्रद्धानरूपमेकविध सम्यक्त्वमिति भावः / तथा निसर्गाधिगमाभ्यां तत्सम्यक्त्वं भवेद् द्विविधं, तत्र निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षस्तस्मात्सम्यक्त्वं भवति, यथा नारकादीनामधिगमो गुरूपदेशादिस्तरमात्सम्यक्त्वं भवतीति प्रतीतमेव / अयमभिप्रायः-तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तार्यत्कर्मोपशमादिभ्याजायते तन्निसर्गसम्यवस्वम्। यत्पुनस्तीर्थकराद्युपदेशजिनप्रतिमादर्शनादिबायनिभित्तोपष्टम्भवतः कर्मोपशमादिना प्रादुर्भवति तदधिगमसम्यक्त्वमिति, तथा त्रिविध तत्सम्यक्त्व क्षायिकादि, अथवा विविध कारकादि। तत्र क्षायिक-क्षायोपशमिके व्याख्यातुमाहसम्मत्तमीसमिच्छ-त्तकम्मखयओ भणंति तं खइयं / मिच्छत्तखओवसमा, खाओवसमं ववइसंति।।५८|| सम्यक्त्वभिश्रमिथ्यान्वकर्मक्षयागणन्ति तीर्थकरगणधराः / क्षायिक सम्यक्त्वं त्रिवेिधस्यापि, दर्शनमोहनीयस्य क्षयेणनिर्मलाच्छेदेन निवृत्त / क्षायिकम, अयमर्थः अनन्तानुबन्धिकषायचतुष्टयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षण त्रिविधे दर्शन-मोहनीयकर्मणि सर्वथा क्षीण क्षायिकं सम्यक्त्व भवतीति, तथा मिथ्यात्वमोहनीयकमेण उदीर्णस्य क्षयादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कभितोदयस्वरूपाच क्षायोपशमिकसम्यवत्वं व्यपदिशन्ति-कथयन्ति। इदमुका भवति-यदुदीर्णमुदयमागतं मिथ्यात्वंतद्विपाकोदयेन वेदितत्वातक्षीणं-- निर्जीर्ण, यच्च शेषसत्तायामनुदयागतं वर्तते तदुपशान्तम् / उपशान्त नाम -विष्कम्भितोदयमपनीतमिथ्यास्वभावं च। मिथ्यात्वमिश्रपुजावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जमाश्रित्य पुनरपनीतमिथ्यात्वस्वभावमित्यर्थः। तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण, अनुदीर्णस्य चोपशमेन निवृत्तत्वात् त्रुटितरस शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षायोपशमिक सम्यक्त्वमुच्यते / शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टय॑थावस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्यावारका न भवन्ति अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यन्ते इति। प्रव०१४६ द्वार। श्रा०॥ (2) अथ तत्सम्यग्दर्शन कतिविधमत आहउवसामग सासायण, खओवसमियं च वेदगं खइयं / सम्मत्तं पंचविहं, जह लब्मइ तं तहा वोच्छं ||4|| सम्यक्त्वं पञ्चविधम, तद्यथा-औपशमिक सासादनं क्षायोपशमिवं वेदक क्षायिकं च / एतत्पञ्चप्रकारमपि यथा लभाते तथा वक्ष्यामि। उ०१ प्रक०। (3) संप्रति पञ्चविध सम्यक्त्वमाहवेययसम्मत्तं पुण, एयं चिय पंचहा विणिद्दिढं। सम्मत्तचरिमपोग्गल-वेयणकाले तयं होई॥९६२।। एतदेव-पूर्वोक्तं चतुर्विध सम्यक्त्वं वेदकसंयुक्तं पुनः पञ्चधापञ्चविष्य विनिर्दिष्ट-विशेषतः कथितं वीतरागैः। तच्च चेदकसम्यक्त्वं सम्यक्त्वपुञ्जस्य बहुतरक्षपितस्य चरमपुदगलानां वेद-कालेग्राससमये भवति / वेदयति-अनुभवति सम्यक्त्यपुदगलानीति वेदकोऽनुभविता तदनान्तर्भतत्वात्सम्यक्त्वमपि वेदकम्, यथा आदियत इत्याहारकं तथा वेद्यत इति वेदकम् / इदमत्र तात्पर्य क्षधक श्रेणिं प्रतिपत्रस्यानन्तानुबन्धिकपायच-तुष्टयमपि क्षपयित्वा मिथ्यात्वमिश्रपुजेषु सर्वथा क्षपितेषु सम्यक्त्वपुञ्जमप्युदीयोंदीर्यानुभवेन निर्जरयतो निष्ठितोदीरणीयस्य चरमगासेऽवतिष्ठमानेऽद्यापि सम्यक्त्यपुजपुदगलाना कियतामपि वेद्यमानत्वाद्वेदक सम्राकन्तमुपजायत इति / अत्राह-नन्वेवं सति क्षायोपशमिकेन सहारय को विशेषः? सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समान.. त्यात,सत्य, किंत्वतदशेपोदितपुगलानुभूतिमत्प्रोक्तम्, इतरे तु उदितानुदितपुद्गलस्यैतन्मात्रः प्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवंद, चरमग्रासशेषाणां पुदगलानां क्षयाच्चरमग्रासवर्तिनां तु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति। अथ दशविधं सम्यक्त्वमाह.. एयं चिय पंचविह, निस्सग्गाभिगमभेयओ दसहा। अहवा निस्सग्गरुई, इचाइ जमागमे भणिअं॥६६३||
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy