________________ समोसरण 467 - अभिधानराजेन्द्रः - भाग 7 समोसरण (18) समवसरणे भगवत्युत्थिते द्वितीयस्यां पौरुष्यामाद्यगण-धरोऽन्यो वा गणधरो धर्ममाचष्टे स्यान्मतिः किं कारणं द्वितीयस्यामपि पौरुष्यां तीर्थकर एव धर्म न कथयतीति? शङ्का तत्समाधाननिरूपणम् / (16) समवसरणकल्पः / (20) समवसरणरचनानिदर्शनम्। (21) समवसरणस्तवनिदर्शनम्। (22) समवसरणे रचनाभूमिप्रमाणम्। (23) प्रकीर्णकवार्ताः। (१)नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम ___ तनिक्षेपार्थ नियुक्तिकृदाहसमवसरणे वि छकं,सचित्ताचित्तमीसग दव्वे / खेत्तम्मि जम्मि खेत्ते, काले जं जम्मि कालम्मि // 116|| 'समवसरण' मित्यादि, समवसरणमिति सृगतावित्यतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपम्, सम्यगेकीभावेनावसरणमेकत्र गमनं-मेलापकः समवसरणं तस्मिन्नपि न केवलं समाधी षडविधी नामादिको निक्षेपस्तत्रापि नामस्थापने क्षुण्णे द्रव्यविषय पुनः समवसरण नो आगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात् त्रिविधम्। सचित्तमपि द्विपदचतुष्पदाऽपदभेदाद् त्रिविधमेव,तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृजन्मनिष्क्रमणप्रदेशादी मेलापकः, चतुष्पदाना गवादीनां निपानप्रदेशादी, अपदानां तु वृक्षादीनां स्वतो नास्ति समवसरणं विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु द्वयणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति क्षेत्रसमवसरण तु परमार्थ तो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायरा वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते / एवं कालसमवसरणमपि द्रष्टव्यमिति।। __ इदानीं भावसमवसरणमधिकृत्याह-- भावसमोसरणं पुण,णायव्वं छव्विहम्मि भावम्मि। अहवा किरियअकिरिया,अन्नाणी चेव वेणइया / / 117 / / 'भावसमवसरण' मित्यादि, भावानामौदयिकादीनां समवसरणम -- एकत्र मेलापको भावसमवसरणम्। तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्दाकपायाश्चतुर्विधा एवं लिई त्रिविधं, मिथ्यात्वाज्ञानाऽसंयतत्वाऽसिद्धत्वनि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षविधा भवन्ति, औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात् / क्षायोपशगिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्धा, अज्ञानम्-मत्यज्ञानश्रुताज्ञानविभङ्ग भेदात विविधः, दर्शनचक्षुर चक्षुरवधिदर्शनभेदात् त्रिविधमेव, लब्धिनिलाभ-भोगापभोगवीर्यभदात्पञ्चधा,सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति / क्षाधिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पा सम्यक्त्वं चारित्रं चेति। जीवत्वभव्यत्वाभत्वादिभेदात्पारिणाभिकरित्रविधः सान्निपातिकस्तु द्वित्रिचतुःपञ्चकसंयोगर्भवति, तत्र | द्विकसंयोगः सिद्धरय क्षायिकपारिणामिकभावद्वय सदावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टि सम्यगदृष्ट्यविरतानामादयिकक्षायोपशमिकपारिणागिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेलिनोऽप्यादयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोलोऽपि क्षायिक-सम्यगदृष्टीनामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावात्तथौपशमिकसम्यगदृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिक भावसद्भावचेति, पशकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्या समस्तोपशान्तचारित्रमोहाना भावपञ्चकसड़ावाद्विज्ञेय इति / तदेव भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्सम्भविनः सान्निपातिकभेदाः षड़ भवन्ति, अत एव त्रिकसंयागचतुष्कसंयोगगतिभेदात्पञ्चदशधाप्रदेशान्तरेऽभिहिता इति, तदेव षड्विधे भावे भावसमवसरणं भावमीलनमभिहितम्। अथवा-अन्यथा भावसमवसरण नियुक्तिकृदेव दर्शयति, क्रिया जीवादिपदार्थोऽस्तीत्यादिका वदितु शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो क्षाननिववादिनस्तथा वनयिका विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः,एषा चतुर्णामपि सप्रभेदानामापेक्ष कृत्वा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, एतच स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथ यिष्यति। साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वन्नाहअस्थि त्ति किरियवादी, वयंतिणस्थि अकिरियवादीय। अण्णाणी अण्णाणं,विणइत्ता वेणइयवादी॥११॥ 'अत्यित्ती' त्यादि, जीवादिपदार्थसद्भावोऽस्त्यवेत्येवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनस्ते चैवं वादि-- त्वान्मिथ्यादृष्टयः, तथाहि-यदि जीवोऽस्त्येवेत्येवमभ्युपगम्यते ततः सावधारणत्वान न कथचिन्नास्तीत्यतः स्वरूपसत्तावत्पररूमपापत्तिरपि स्यात, एवं च नानेकं जगत् स्यान्न चैतद दृष्टमिष्ट वा। तथा नारस्येव जीवादिकः पदार्थ इत्येवं वादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनामिथ्यादृष्टय एव,तथा ह्येकान्तेन जीवास्तित्वप्रतिषेधे कतुरभावान्नास्तीत्येतस्यापि प्रतिषेधरयाभावः, तदभावाच स्वास्तित्वमनिधारितमिति तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः,ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति एतेऽपि मिथ्यादृष्ट्य एव, तथा 'ह्यज्ञानमेव श्रेय' इत्येत-दपि न ज्ञानमृते भणितु पार्यते, तदभिधानाच्चावश्यं ज्ञानमभ्यु-- पगत तैरिति / तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमः भिलपन्तो मिथ्यादृष्यो यतो न ज्ञानक्रियाभ्यामन्तरण मोक्षावाप्तिरिति एपा व कियावाधादीनां स्वरूप तन्निराकरण चाऽऽचारटीकाया विरार प्रतिपादितनिति नेह प्रतन्यते। साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाहअसियसयं किरियाणं, अकिरियाणं च होइ चुलसीति। अन्नाणी सत्तट्ठी, वेणइयाणं च वत्तीसा / / 116 / / 'अरिये' त्यादि, क्रियावादिनामशीत्यधिक शतं भवति, तचानया प्रकि यया, तद्यथा- जीवादयो नव पदार्था: प--