SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ समुग्धाय 451 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय स्स ण' मित्यादि एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्धाता अतीता अनन्ताः, नैरयिकत्वस्यानन्तशः प्राप्तत्वात, पुरस्कृताः कस्यचित्सन्ति कस्यचिन्न सन्ति, तत्र योऽसुरकुमारभवादुवृत्तो न नरक याता नापि सकृद् गतोऽपि लोभसमुद्घातं गन्ता तस्य न सन्ति, यस्तु यास्यति तस्य जघन्यत एको हो त्रयो वा उत्कर्षतः संख्येया असंख्यया अनन्ताः / तत्र सकृन्नरकगामिनः एकादयो नैरयिकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्यासम्भवात् / उक्तं च मूलटीकायाम्- "नेरइयाणं लोभसमुग्घया थोवा चेव भवन्ति, तेसिमिट्ठदव्वसंजोगाभावाओ एगादिसंभव" इति। संख्येयान्वारान् नरकंगन्तुः संख्येयाः, असंख्येयान् वारान् असंख्येयाः,अनन्तान् वारान् अनन्ताः / असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न रान्ति, तत्र योऽसुरकुमारभवे पर्यन्तवर्ती न च लोभसमुद्घातं याता नापि तत उदृत्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्यन सन्ति, यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया असंख्येया अनन्ताः। तत्र एकादयः क्षीणायुः -शेषाणां तद्भवभाजा भूयस्तथैवानुत्पद्यमानानामवगन्तव्याः, संख्येयादया नैरयिकस्येव भावनीयाः / असुरकुमारस्य नागकुमारत्वेऽतीताः प्राग्वत्। पुरस्कृताः कस्यापि सन्ति कस्यापिन सन्ति, तत्र योऽसुरकुमारभवादुदवृत्तो न नागकुमारभवं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति यस्यापि सन्ति तस्यापि स्यात् संख्येयाः, स्यादसंख्येयाः, स्यादनन्ता। तत्र सकृन्नागकुमारभवं प्राप्तुकामस्य संख्येयाः, जघन्य - स्थितावपि संख्येयानां लोभसमुद्घाताना भावात्, असंख्येयान् वारान् प्राप्तुकामस्य असंख्येया, अनन्तान् वारान् अनन्ताः / एवं यावत् स्तनितकुमारत्वे पृथिवीकायिकत्वे यावद्वैमानिकत्वे यथा नैरयिकस्य भणितं तथैव भणितव्यम् / एव-मसुरकुरस्येव नागकुमादेरपि तावद्वक्तव्य यावत्रतनितकुमारस्या वैमानिकत्वे-वैमानिकत्वविषयं सूत्रम्, तचैवम्'एगमेगस्सणं भंते ! थणियकुमारस्स वेमाणियत्ते केवइया लोभसमुग्धाया अतीता? इत्यादि, एवं एगमेगस्स णं भंते ! पुढविकाइयस्स नेर-इयत्ते इत्याद्यपि रसूत्रं पूर्वोक्तभावनानुसारेण स्वयं भावनीयम, तदेव नैरयिकादेरेकत्वविषयाः क्रोधादिसमुद्घाताः प्रत्येकं चतुर्विशत्या चतुर्विश, तिदण्डकसर्विचिन्तिताः / / सम्प्रति तानेव नैरयिकादिबहुल्वविषयान् चिचिन्तयिषुरिदमाह- 'नरइयाणं भंते!' इत्यादि, नैरयिकाणा भदन्त ! नैरयिकत्वे कियन्तः क्रोधसमुद्घाता अतीताः ? भगवानाह-गौतम ! अनन्ताः, अनन्तशो नेरयिकत्वस्य सर्वजीवैः प्राप्तत्वात, कियन्तः पुरस्कृताः ? गौतम ! अनन्ताः, प्रश्नसमयभाविनां मध्ये बहूनामनन्तशो नैरयिकत्वं प्राप्तुकामत्वात्, 'एव' मित्यादि, एवंनैरयिकगतेनाभिलापप्रकारेण चतुर्विशत्या चतुर्विशतिदण्डकसूत्रै निरन्तरं तावद्वक्तव्यं यावद्वमानिकस्यवैमानिकत्वे-वैमानिकविषयं सूत्रम्, तचैवम्-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया कोहस-मुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा! अणता भावना प्राग्वद। यथा च क्रोधसमुद्धाताः सर्वेषु जीवेषु स्वस्थाने परस्थाने चातीताः पुरस्कृताश्वानन्तत्वेनाभि-हिताः तथा मानादिरामुद्धाला अपि वान्याः, तथा चाह-एव' मित्यादि, एवं -क्रोधसमुद्घातगतेन प्रकारेण चत्वारोऽपि रामदघाताः सर्वत्रापि स्वस्थानपरस्थानेषु वाच्याः, यावल्लोभसमुद्-धातो वैमानिकत्वविषय उक्तो भवति। स चैवम्- 'वेमाणियाण भंते ! वेमाणियत्ते केवइया लोभसमुग्धाया अतीता? गोयमा ! अणंता,केवइया पुरेक्खडा? गोयमा ! अणता' सुगमम / तदेवं नैरयिकादिबहुत्वविषया अपि क्रोधादिरामुददाताः प्रत्येक चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रश्चिन्तिताः। (10) सम्प्रति क्रोधादिसमुद्धातैः शेषसमुद्धातैश्च समवहतानाम-- समवहतानां च परस्परमल्पबहुत्वमभिधित्सुः प्रथमतः सामान्यतो जीवविषय तावदाह-- एतेसिं णं भंते ! जीवाणं कोहसमुग्घाएणं माणसमुग्घाएणं माया-समुग्घारणं लोभसमुग्धारण यसमोहयाणं अकसायसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा जीवा अकसायसमुग्घाएणं समोहयाणं माणसमुग्घाएणं समोहया अणंता०, कोहसमुग्घाएणं समोहया विसेसाहिया मायासमुग्धाएणं समोहया विसेसाहिया लोभसमुग्घाएणं समोहया विसेसाहिया असमोहया संखेज्जगुणा / एतेसि णं भंते ! नेरइयाणं कोहसमुग्घाएणं माणसमुग्घाएणं मायासमुग्घाएणं लोभसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा नेरइया लोभसमुग्धाएणं समोहया, मायासमुग्घाएणं समोहया संखेज्जगुणा वा, माणसमुग्घाएणं समोहया संखेज्जगुणा, कोहसमुग्घाएणं संखेजगुणा, असमोहया संखेजगुणा / असुरकुमाराणं पुच्छा, गोयमा ! सव्वत्थोवा असुरकुमारा णं, कोहसमुग्घायाएणं समोहया माणसमुग्घाएणं समोहणया संखेज्जगुणा, मायासमुग्घाएणं समोहया संखेज्जगुणा। लोभसमुग्घाएणं समोहया संखेजगुणा असमोहया संखेजगुणा, एवं सव्यदेवा० जाव वेमाणिया। पुढविकाइयाणं पुच्छा, गोयमा ! सव्वत्थोवा पुढविकाइया माणसमुग्घाएणं समोहया, कोहसमुग्धाएणं समोहया,विसेसाहिया मायासमुग्घाएणं समोहया विसेसाहिया लोभसमुग्घाएण य समोहणया विसेसाहिया असमोहणया संखेजा, एवं० जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, णवरं माणसमुग्घाएणं समोहणया असंखेजा। (सू० 340)
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy