SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सद्द 362 - अभिधानराजेन्द्रः - भाग 7 सद्द बहिराध्यवसायस्तदभिप्रायेण वाच्यवाचकभावः शब्दार्थयोरित्य (न्या) पोहः शब्दभूमिरिष्टः / परमार्थतस्तु शब्दलिङ्गाभ्यां बहिरर्थसंस्पर्शव्यतीतःप्रत्ययः केवलं क्रियत इति तत्संस्पर्श (M) भावेऽपि च पारम्पर्येण वस्तुप्रतिबन्धादविसंवादः / तथाहिपदार्थरयास्तित्वात् प्राप्तिः न दर्शनात,के शोन्दुकादेर्दर्शनेऽपि प्राप्त्यभावात् / अथ प्रतिभासमन्तरेण कथं प्रवृत्तिः? ननु प्रतिभासेऽपि कथं प्रवृत्तिः? तस्मिन्नप्यनर्थित्वे तदभावात् अर्थित्वे च सति दर्शनविरहेऽपि भ्रान्तेः सद्भावात् प्रतिबन्धाभा--वात्तु तत्र विसंवादः / यदा तु विकल्पानां स्वरूपनिष्ठत्वान्नान्यत्र प्रतिबन्धसिद्धिस्तदा स्वसंवेदनमात्रं परमार्थ (सत) त्वम्, तथापि कथं समयपरमाऽर्थविस्तरः। सम्म०१ काण्ड। (अधिकं 'सामण्णविसेस' शब्दे वक्ष्यते।) स्वार्थेनावगतसम्बन्धः शब्दः स्वार्थ प्रतिपादयति। सम्म०१काण्ड। (शब्दस्य पौगलिकत्वम् आगम' शब्दे द्वितीयभागे 71 पृष्ठ गतम्।) शब्दस्य बहिरर्थं प्रति प्रामाण्यम्एतेन यत्कैश्चित् शब्दस्य बहिरर्थ प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यम्,तथाहि-ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया ध्याप्तम्, ततो यद्विषयवन्न भवति न तत्प्रमाणं, यथा--गमनेन्दी... वरज्ञानं, न भवति च विषयवत् शब्दं ज्ञानमिति, न वायमसिद्धो हेतुः, यतोद्विविधो विषयः-प्रत्यक्षः,परोक्षश्च / तत्र न प्रत्यक्षःशाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेन स्फुटाभनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेकः सतस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारः संभवदशामश्नुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायि स्फुट प्रतिभासं ज्ञानं प्रत्यक्षम्, प्रत्यक्षज्ञेयत्वात् तन्न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो यः शब्दाप्रमाणस्यापि विषयो भवेत् / नापि परोक्षः, तस्यापि हि निश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपतिः, यथा धूमदर्शनात् वह्नः, अन्यथाऽतिप्रसङ्गात् / न च शब्द-- स्यार्थे न सह निश्चितान्वयव्यतिरेकता प्रतिबन्धाऽभावात् / तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बाह्यार्थी रूपं शब्दानां नापि शब्दो रूपमर्थानाम्, तथाप्रतीतेरभावात्, तत्कथमेषां तादात्म्यम्? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववत्, अपि च-यदि तादात्म्यमेषां भवे-ततोऽनलाचलक्षुरिकादिशब्दोचारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत / न चैवमस्ति, तन्न तादात्म्यं नापितदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसत्तेः। तथाहि-वस्तुनः किं शब्दस्योत्पत्तिः उत शब्दावस्तुनः? तत्र वस्तुनः शब्दोत्पत्तावकृतसंकेतस्याऽपि पुंसः प्रथमपनसदर्शन तच्छब्दोच्चारणप्रसङ्गः, शब्दाद्वस्तूत्पत्तौ विश्वस्यादरिद्रताप्रस-क्तिः, तत एव कटककुण्डलाद्युत्पत्तेः, तदेवं प्रतिबन्धाभावान्न शब्दस्यार्थेन सह नान्तरीयकतानिश्चयः, तदभावाच्च न शब्दानिश्वितस्यार्थस्य प्रतिपत्तिः,अपितु-अनिव-र्तितशङ्कतया अस्ति न येति विकल्पितस्य, न च विकल्पितमुभयरूपं वस्त्वस्ति, यत्प्राप्यं सद्विषयः स्यात्, प्रवर्त्तमानस्य तु पुरु-षस्य तस्य तस्यार्थस्य पृथिव्यामनज्जनादवश्यमन्यत् ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते,यतः किंचिदवाप्यते इति शाब्दज्ञानस्य विषयवत्त्वाभावः, तदसद्, विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विषयत्वाभ्युपगमात् / यत्पुनरुक्तं न शब्दस्यार्थेन सहनिश्चिता-न्वयव्यतिरेकता, प्रतिबन्धाभावादिति तदसमीचीनमः वाच्यवा-चकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकता निश्चयात, शब्दो हि बाह्यवस्तुवाचकस्वभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दाद निश्चितस्यैवार्थस्य प्रतिपत्तिर्न विकल्पितरूपस्य निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञानमिति। स्यादेतत-यदि कास्तवसम्बन्धपरिकरितमूर्तयः शब्दास्तर्हि समाश्रयतु निरर्थकतामिदानीं संकेतः, स खलु सम्बन्धो यतोऽर्थ प्रतीति स चेद्वास्तवो निरर्थकः संकेतः, तत एवार्थप्रतीतिसिद्धेः, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकम, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीति निबन्धनम्,किंतु-स्वात्मज्ञानसहकारी,यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानसहकारिकृतसाहायकस्ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात्, न खलु धूमादिकमपि लिङ्ग वस्तुवृत्त्या वयादिप्रतिबद्धमपि सत्तामात्रेण वक़्यादेर्गमकमुपजायते, यदुक्तमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्धः, स्वस्व ज्ञानमपेक्षते / तेनासौ विद्यमानोऽपि, नागृहीतः प्रकाशकम् / / 1 / / सम्बन्धस्य चव परिज्ञानं तदावरण कर्मक्षयक्षयोपशमाभ्याम्, तौ च संकेततपश्चरणभावनाद्यनेकसाधनसाध्यौ; ततः तपश्वरणभा-वनासंकेतादिभ्यः समुत्पन्नतदावर कर्मक्षयक्षयोपशमानां श-ब्दादर्शाच केवलादप्यवैपरीत्येन वाच्यवाचकभावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि-सर्वे एव सर्ववेदिनः समेरुजम्बूद्वीपादीनानगृहीतसंकेता अपि तत्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथाप्ररूपणात्, कल्पान्तरवर्तिभि-रन्यैरवं प्ररूपिता, इति तैरपि तथा प्ररूपिता इति चेत्, ननु तेषामपि कल्पान्तरवर्त्तिनां तथा प्ररूपणे को हेतुरिति वाच्यम् ? तदन्यैरेवं प्ररूपणादिचेत्, अत्रापि स एव प्रसङ्ग H / समाधिरपि स एवेति चेत्, ननुतर्हि सिद्धः सुमेर्वाद्यर्थानांतदभिधायकानांच वास्तवः सम्बन्धः सर्वकल्पवर्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्वादिशब्दवाच्यतया प्ररूपणात्, अनादित्वात्संसारस्य, कदाचित् कैश्विदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्न, अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेन्न, अत्र प्रमाणोपपत्तेः, तथाहि-शाक्यमुनिना संप्रति सुमेर्वा -दिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः,सच सुमेर्वादौ सुमेर्वादि-शब्दप्रयोगः संकेतद्वारेणाप्येतत् स्वभावतायां तयोर्नोपपद्यते, तत्स्वभावताभ्युपगमेच सिद्धनः समीहितम, अनादावपिकालेतयोस्तत्स्वभावत्वात्, तत्समानपरिणामस्य प्रवाहतो नित्यत्वात्, तत्र सम्बन्धाभ्युपगमात्, इत्थ चैतदङ्गीकर्त्तव्यम्, अन्यथा अनादित्वात्संसारस्य कदाचिदन्यतोऽपिधूमादेर्भावा, भविष्यतीत्येवंव्यभिचारशङ्काधूमधूमध्वजादिषुप्र
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy