SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सद्द 351 - अभिधानराजेन्द्रः - भाग 7 सह क्तमेव / नन्वेट पर्यायाऽपर्यायव्यवस्था शब्दाना कथंयुक्ता? उक्तं च-- "रूपाभावेऽपि चैकत्वं, कल्पनानिमित्तं यथा। विभेदोऽपि तथैवेति, कुतः पर्यायता ततः" ?|| (तत्त्वसं० का०१०३२) "भावतस्तु न पर्याया, न पर्यायाश्च वाचकाः। न ह्येक वाच्यमेतेषामनेक चेति वर्णितम्" / / (तत्त्वसं० का० 1033) इति। यदि परमार्थतो भिन्नमभिन्नं वा किञ्चिद्वाच्यं वस्तुशब्दानां स्यात् तदा पर्याया पर्यायता भवेत् यावता- 'स्वलक्षणं जातिस्तद्योगो जालिमांस्तथा' इत्यादिना वर्णितम्- यथैषां न किञ्चिद्वाच्यमस्तीति। पर्यायादिव्यदस्था तु अन्तरेणापि सामान्यम् सामान्यादिशब्दत्वस्य व्यवस्थापनात् / तस्य चेदं निबन्धनं यद् बहूनामेकार्थक्रियाकारित्वम्-- प्रकृत्या केचिदभावा बहवोऽप्येकार्थक्रियाकारिणो भवन्ति तेषामेकार्थक्रियासामर्थ्य- प्रतिपादपनाय व्यवहर्तृभिधिवार्थमकरूपाध्यारोपेणैकाश्रुति-निवेश्यले, यथा-बहुषु रूपादिषु मधूदकाद्याहरणलक्षणेकार्थक्रियासमर्थेषु 'घटः' इत्येका श्रुतिर्निवेश्यते / कथ पुनरे केनानुगामिना विना बहुष्वेका श्रुतिर्नियोक्तुं शक्या? इति न वक्तव्यम्, इच्छामात्रप्रतिबद्धत्वात् शब्दानामर्थप्रतिनियमस्या तथाहिचक्षुरूपाऽऽलोकमनस्कारेषु रूपविज्ञानैकफलेषु यदि कश्चिद् विनाप्येकेनानुगामिना सामान्येनेच्छावशादेकां श्रुतिं निवेशयेत् तत् किं तस्य कश्चित् प्रतिरोद्धा भवेत्? न हि तेषु लोचनादिष्वेक चक्षुर्विज्ञानजनकत्वं सामान्यमरितयतः सामान्यसमवायविशेषा अपि भवद्भिः चक्षुर्मानजनका अभ्युपगम्यन्ते, न च तेषु सामान्यसमवायोऽस्ति निःसामान्यत्वात् सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात्। न च घटादिकार्यस्योदकाहरणादेस्तज्ज्ञानस्य च स्वलक्षणरूपत्वेन भिन्नत्वात् कथमेककार्यकारित्वम्? इति वक्तव्यम्, यतो यद्यपि स्वलक्षणभेदात् तत्कार्य भिद्यते तथापि ज्ञानाख्यं तावत् कार्यमेकार्थाध्यवसायिपरामर्शप्रत्ययहेतुत्वादेकम्, तज्ज्ञानहेतुत्वाचार्था घटादयोऽभेदिन इत्युच्यन्ते। न च योऽसौ परामर्शप्रत्ययस्तस्यापि स्वलक्षणरूपतया भिद्यमानत्वादेकत्वासिद्धेरपरापरैकाकारपरामर्शप्रत्ययकार्यानुसरणतोऽनवस्थाप्रसङ्ग तो ने (नै) ककार्यतया क्वचिदेकश्रुतिनिवेशो बहुषु सिद्धिमुपगच्छतीति वाच्यम्; यतो न परामर्शप्रत्ययस्यैककार्यकारितयकत्वमुच्यते, किं तहिं ? एकाध्यवसायितया। स्वयमेव परामर्शप्रत्ययानामेकत्वसिद्धेन नवस्थाद्वारेणैकश्रुतिनिवेशाभावः, अत एकाकारपरामर्शह तुत्वाद ज्ञानाख्यं कार्यमेकम्, तद्धेतुत्वाद् घटादय एकत्वव्यपदेशभाजः। तेन विनापि वस्तुभूत सामान्य सामान्यवचना घटादयः सिद्धिमासदयन्ति / तथा-कश्चिदेकोऽपि प्रकृत्यैव सागर यन्तरान्तः पातवशादनेकार्थक्रियाकारी भवति व्यतिरेकेणापि वस्तुभूतसामान्यधर्मभेदम, तत्राऽतत्कार्यपदार्थभदभूयस्त्वात् अनेक श्रुतिसमावेशः अनेकधर्मसमारोपात, यथा-स्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद् रूपं सप्रतिघम्-सह निदर्शनेन चक्षुर्मानजनकत्वेन वर्तत इति-सनिदर्शन च तदेवोच्यते, यथा वा शब्द एकोऽपि प्रयत्नानन्तर-ज्ञानज्ञानफलतया 'प्रयत्नानन्तरः' इत्युच्यते, श्रोत्रज्ञानफलत्वाच्च श्रावणः-श्रुतिः श्रवण श्रोतृ (त्र) ज्ञानम् तत्प्रतिभासतया तत्र भवः श्रावणः, यद्वा श्रवणेन गृह्यत | इति श्रावणः-एवमतत्कार्यभदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यमानाऽविरुद्धा / अतत्कारणभेदेनापि क्वचित् तन्निवेशः, यथा भ्रामरं मधु क्षुद्रादिकृतमधुनो व्यावृत्त्या / तथा तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छया अन्तरेणापि सामान्यं श्रुतेर्भेदेन निवेशन सम्भवति-- "अश्रावणं यथा रूपं, विद्युद्वाऽयत्नजा यथा" | (तत्त्वसं० का० 1042) "इत्यादिना प्रभेदेन, विभिन्नार्थनिबन्धनाः। व्यावृत्तयः प्रकल्प्यन्ते, तन्निष्टाः (ष्ठाः) श्रुतयस्तथा" || (तत्त्वसं० का०१०४३) "यथासङ्केतमेवातोऽ-सङ्कीर्णाभिधायिनः। शब्दा विवेकतो वृत्ताः, पर्याया न भवन्ति न (नः)" / / (तत्त्वसं० का० 1044) श्रोत्रज्ञानफलशब्दव्यवच्छेदेन 'अश्रावणं रूपम्' इत्युच्यते, प्रयनकारणघटादिपदार्थव्यवच्छेदेन 'विद्युदप्रत्नजा' इत्यभिधीयते। अन्तरेणापि सामान्यादिक वस्तुभूतम् व्यावृत्तिकृतमेव शब्दानां भेदेन निवेशनं सिद्धम, पर्यायत्वप्रसङ्गाभावश्च विभिन्नार्थनिबन्धनव्यावृत्तिनिष्ट (8) त्वे श्रुतीना सिद्धः / स्यादेतत् मा भूत् पर्यायत्वमेषाम् अर्थभेदस्य कल्पितत्वात; सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्यविशेषाभ्यां कथमेषाम्? उच्यते"बह्वल्पविषयत्वेन, तत्सङ्केतानुसारतः। सामान्य-भेदवाच्यत्व-मप्येषां न विरुध्यते" / / (तत्त्वसं० का० 1045) वृक्षशब्दो हि सर्वेष्वेव धव-खदिर-पलाशादिष्ववृक्षव्यवच्छेदमात्रानुस्यूतं प्रतिबिम्बकं जनयति; तेनास्य बहुविषयत्वात् सामान्य वाच्यमुच्यते, धवादिशब्दस्य तु खदिरादिव्यावृत्तकतिपयपादपाध्यवसायिविकल्पोत्पादकत्वाद् विशेषो वाच्य उच्यते / यदुक्तम्'अपोह्यभेदेन' इत्यादि, तत्र"ताश्च व्यावृत्तयोऽर्थाना, कल्पनाशिल्पिनिर्मिताः। नापोह्याधारभेदेन, भिद्यन्ते परमार्थतः" / / “तासां हि बाह्यरूपत्वं, कल्पित न तु वास्तवम्। भेदोभेदौ च तत्त्वेन, वस्तुन्येव व्यवस्थितौ" || "स्वबीजानेकविश्लिष्ट वस्तुसङ्केतशक्तितः। विकल्पास्तु विभिद्यन्ते, तद्रूपाध्यवसायिनः" / / "नैकात्मतां प्रपद्यन्ते, न भिद्यन्ते च खण्डशः। स्वलक्षणात्मका अर्था, विकल्पः प्लवते त्वसौ" / / (तत्त्वसं०का०१०४६-१०४७-१०४८-१०४६) अस्य सर्वस्याप्ययमभिप्रायः-यदि हि पारमार्थिकोऽपोह्यभेदेनाधारभेदेन वाऽपोहस्य भेदोऽभीष्टः स्यात्तदैतद्दूषणं स्यात्यावता कल्पनया सजातीयविजातीयपदार्थभेदैरिव व्यावृत्तयो भिन्नाः कल्प्यन्ते न परमार्थतः ततः ताश्च कल्पनावशादव्यतिरिक्ता इव वस्तुनो भासन्तेन परमार्थतः / परमार्थतस्तु विकल्पा एव भिद्यन्ते अनादिविकल्पवासनाऽन्य
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy