________________ संकम 6 - अभिधानराजेन्द्रः - भाग 7 संकम साम्प्रतं पतद्ग्रहाणां साधनादिप्ररूपणामाहमिच्छत्तजढाय परि-ग्गहम्मि सव्वधुवबंधपगईओ। नेया चउव्विगप्पा, साई अधुवा य सेसाओ॥७॥ 'मिच्छत्त' त्ति मिथ्यात्वजढ़ाः-मिथ्यात्वरहिताः सर्व अपि धुवबन्धिन्यःप्रकृतयः-पक्ष ज्ञानावरणीयानि, नवदर्शनावरणीयानि, षोडश कषायाः, भयं, जुगुप्सा, तैजससप्तक, वर्णादिविंशतिः, अगुरूलघु उपघातं, निर्माणम्, अन्तरायपञ्चकं चेति / एताः संक्रममधिकृत्य चतुर्विकल्पः साधनादिधुवरूपचतुर्भेदा ज्ञेयाः / तथाहि-एतासा सप्तषष्टिसंख्यानां ध्रुवसबन्धिनीवामात्मीयात्मीयबन्धव्यवच्छेदसमये पतद्ग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरदलिक तासु संक्रामतीत्यर्थः / पुनः स्वस्वबन्धहेतुसम्पर्कतो बन्धारम्भे सतिपतद्ग्रहत्वं भवति ततः सादिः, तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, धुवाध्रुवे अभव्यभव्यापेक्षया / 'साई' इत्यादि शेषास्त्वधुवबन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव (तासां) साद्यधुवपतद्ग्रहता भावनीया। मिथ्यात्वस्य पुनर्बुवबन्धित्वेऽपि यस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्यते स एव ते तत्र संक्रमयति, नान्य इति तस्य साद्यध्रुवपतद्ग्रहता द्रष्टव्या। तदेवमेकैकप्रकृतीना संक्रमस्य पतद्ग्रहत्वस्य च सा द्यनादिप्ररूपणा कृता / सम्प्रति प्रकृतिस्थानेषु ता चिकीर्षुरतिदेशमाहपगईठाणे वि तहा, पडिग्गहो संकमो य बोधव्यो। पढमंतिमपगईणं, पंचसु पंचण्ह दो वि भवे ||8|| 'पगईठाणे' त्ति यथकैकस्याः प्रकृतेः पतद्ग्रहत्वं संक्रमश्व साधादिरूप उक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः / द्विवादीनां च प्रकृतीनां समुदायः प्रकृतिस्थानम् / तत्र प्रथमतो ज्ञानावरणीयस्य तत्समानवक्तव्यत्वादन्तरायस्य च संक्रमपतद्ग्रहत्वात् स्थानप्रतिपादनार्थमाह- 'पढमतिमे' - त्यादिप्रथमप्रकृतेर्ज्ञानावरणीयस्य अन्तिमप्रकृतेरन्तरायस्य सम्बन्धिनीनां प्रत्येकं पञ्चानामपि प्रकृतीनां पञ्चस्वपि प्रकृतिषु द्वावपि संक्रमपतद्ग्रहभावौ भवतः। एतदुक्तं भवति-ज्ञानावरणीयान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं संक्रमे पतद्ग्रहभावे च भवतीति। तौ चेमौ संक्रमपतद्ग्रहभावौ साद्यादिरूपतया चतुष्प्रकारी। तथाहि- उपशान्तमोहगुणस्थानके तयोरभावात्, ततःप्रतिपाते च पुनः सम्भवात् सादी, तत्स्थानमप्राप्तस्य पुनरनादी, धुवाध्रुवता चाभव्यभव्यापेक्षया भावनीया। सम्प्रति दर्शनावरणीयस्य संक्रमपतद्ग्रहत्वस्थान प्रतिपादनार्थमाहनवगच्छक्कचउक्के, नवगं छक्कं च चउसु बिइयम्मि। अन्नयरस्सिं (स्से) अन्नय-रा वि य वेयणीयगोएसु / / 6 / / 'नवग त्ति' द्वितीये दर्शनावरणीये नवकषट्कचतुष्केषु नवक संक्रामति, षट्क च चतसृषु प्रकृतिषु। तेनेह द्वे संक्रमस्थाने। तद्यथा-नवकं, षट्क च। त्रीणि पतद्गृहस्था नानि, तद्यथा-नवकं, षट्क चतुष्कं च / तत्र नवकरूपे पतगृहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति। अयं च नवकरूपः पतद्ग्रहः साद्यादिरूपतया चतुष्प्रकारः / तद्यथा-सादिरनादिधुंवोऽधुवश्च / तथाहिसम्यग्मिथ्यादृष्ट्यादिगुणस्थानेषु न भवति, ततः प्रतिपाते च-भवति, ततोऽसी सादिः / षट्स्स्थानकमप्राप्तस्य पुनरनादिः धुवाध्रुवाऽभव्यभव्यापे क्षया। तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्यापूर्वकरणस्यासंख्येयतम भाग यावन्नवविधदर्शनावरणीयसत्कर्माणः षड्डिधदर्शनावरणीयबन्धकाः षट्के नवकं संक्रमयन्ति / अयं तु षट्करूपः पतद्ग्रहः साद्यधुवः कादावित्कत्वात् / तथा-अपूर्वकरणस्य संख्येयतमे भागे निद्राप्रचलयोर्वन्धव्यवच्छेदे तत ऊर्ध्व सूक्ष्मसम्परायगुणस्थानकचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति। अयमपि च चतुष्करूपः पतद्ग्रहः साद्यधुवः, कदाचिद्भावात् / नवकरूपः संक्रमश्चतुष्प्रकारः तद्यथा-सादिरनादिधुवोऽधुवश्च। तथाहि-सूक्ष्मसम्परायात्परतः उपशान्तमोहे न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः / तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवावभव्यभव्यापेक्षया। क्षपकश्रेण्यां पुनरनिवृत्तिकरणाद्धायाः। संख्येयतमे भागेऽवशिष्ट सति स्त्यानद्धित्रिकक्षयात् परतः सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत्षड्विधदर्शनावरणीयसत्कर्माणश्चक्षुरादिदर्शनावरणीयचतुष्टयं बध्नन्तसतस्मिन् दर्शनावरणचतुष्के षट्क संक्रमयन्ति / इमावपि संक्रमपतद्ग्रहौ, साद्यधुवौ, कादाचित्कत्वात्। अतः परं तु न संक्रमो नापि पतद्ग्रहत्वमिति। संप्रति वेदनीयगोत्रयोः संक्रमपतद्ग्रहत्वस्थानप्रतिपादनार्थमाह'अन्नरसे' त्यादि। वेदनीय गोत्रे चान्यतरस्यां प्रकृतौ बध्यमानायामन्यतराऽबध्यमाना प्रकृतिः संक्रामति / तेन या यत्र संक्रामति सा तस्याः पतद्ग्रहः / इतरा च संक्रमस्थानम् / तत्र सातबन्धकानां मिथ्यादृष्टिप्रभृतीनां सूक्ष्मसम्परायपर्यन्तानां सातासातसत्कर्मणां सातवेदनीयं पतद्ग्रहः असातं संक्रमस्थानम् / असातबन्धकानां पुनिर्मिथ्यादृष्टिप्रभृतीना प्रमत्तसंयतपर्यन्तानां सातासातसत्कर्मणाम् असातवेदनीयं पतदग्रहः, सातवेदनीयं तु संक्रमस्थानम् इमौ च सातासातरूपी संक्रमपतद्ग्रहौ साद्यधुवौ भूयो भूयः परावृत्त्य (त्ति) भावात् / तथा मिथ्यादृप्रिभृतीनां सूक्ष्मसम्परायपर्यन्तानामुचैर्गात्रबन्धकानामुच्चनीचैर्गोत्र। बन्ध। सत्कर्मणामुच्चेगोत्रं पतद्ग्रहः, नीचैर्गोत्रं तु संक्रमस्थानम्। नीचैर्गोत्रबन्धकानां तु मिथ्यादृष्टिसासादनानामुच्चनीचैर्गोत्रसत्कर्मणा नीचैर्गोत्रं पतद्ग्रहः, उच्चैर्गोत्रं तु संक्रम्यमाणम्। (मस्थान) इमावप्युचैर्गोत्रनीचैर्गोत्ररूपौ संक्रमपतद्ग्रही प्रागिव साद्यधुवौ भावनीयौ। सम्प्रति मोहनीयस्य संक्रमपतद्ग्रहत्वस्थानप्रतिपादनावसरस्तत्र प्रथमतः संक्रमासंक्रमस्थाननिर्देशं चिकीर्षुराहअट्ठचउरहियवीसं, सत्तरसं सोलसं च पन्नरसं। वज्जियसंकमठाणा-इँ हाँति तेवीसई मोहे / / 10 / /