________________ सणेह 300 - अभिधानराजेन्द्रः - भाग 7 सण्णा सणेह पुं० (स्नेह) "स्नेहाग्न्योर्वा" ||8/2 / 102 / / अनेनात्र संयुक्तादन्तव्यञ्जनात्पूर्वस्याकारादेशः / सणेहो / नेहो / प्रीती, प्रा० 2 पाद। सण्ढ पुं० सं(ष)ण्ढ "वर्गेऽन्त्यो वा" ||8/1 / 30 / / अनेनात्रानुस्वारस्य वैकल्पिको वर्गान्त्यादेशः। संढो। सण्ढो / नपुंसके, प्रा०१ पाद। सण्ण त्रि० (संज्ञ) सम्यग जानाति पश्यतीति संज्ञः / ज्ञानदर्शन युक्ते,आचा०१ श्रु०५ अ०६उ०। *सन्न त्रि० अवसन्ने, माने,“सन्नो इह काममुच्छिया, मोह जंति असंवुडा नरा।" सूत्र० 1 श्रु०२ अ० 1 उ०। सण्णक्खर न० (संज्ञाक्षर) संज्ञायतेऽनयेति संज्ञानाम तन्निबन्धनं तत्कारणमक्षरं संज्ञाक्षरम् / अक्षरश्रुतभेदे, बृ० 130 1 प्रक० ।(एतच 'अक्खर' शब्दे प्रथमभागे 140 पृष्ठे उपपादितम्) सण्णकुंभ पुं० (स्वर्णकुम्भ) वासुपूज्यशिष्ये रोहिणीतपउपदेष्टरि, ती० 34 कल्प। सण्णजंघ पुं० (स्वर्णजंघ) ऋषभदेवजीवस्य वज्रजन स्य पितरि, आ० क०१ अ०। सण्णद्ध त्रि० (सन्नद्ध) कृतसन्नाहे, ज्ञा० 1 श्रु० 2 अ०। विपा०। औ०। "सण्णबद्धवम्मियकवया" सन्नद्धबद्धवमितकवचाः / कवचंतनुत्राणं वर्मलोहमयकुतूलिकादिरूप सजातमस्मिन्नितिवम्मितम्। सन्नद्ध-शरीरं आरोपणात् बंद्धंगाढतरबन्धनेन बन्धनात् वम्मितं कवचं यैस्ते सन्नद्धबद्धवम्मितकवचाः। जी०३ प्रति०२ उ०। भ०। सण्णप्प त्रि० (संज्ञाप्य) प्रज्ञापनीये, नं० / स्था०। आचा०। सण्णय पुं० (सन्नय) समीचीननये, प्रति०। सण्णयपास त्रि० (सन्नतपार्श्व) सम्यगधोऽधः क्रमेण नतो पावों येषा ते सन्नतपााः / अधोऽधः क्रमावनतपार्वेषु, जी० 3 प्रति०४ अधि० / जं० सण्णवणा स्त्री० (संज्ञापना) संबोधनायाम, ज्ञा० 1 श्रु०१ अ०। सण्णा स्त्री० (सज्ञा) संज्ञानं संज्ञा “उपसर्गादातः" / 5 / 3 / 110 / / इत्यम् प्रत्ययः / ततः “म्नज्ञोर्णः" / / 8 / 2 / 42 / / इति ज्ञस्य णः / प्रा० व्यञ्जनावग्रहोत्तरकालभवे मतिविशेषे, आहारभयाद्युपाधिकायामचेतनायाम्, अभिधाने स्था० / एगा सण्णा। (सू०३) स्था०१ ठा०। संज्ञान संज्ञा। अभोगे, संज्ञायतेऽनयेति वा संज्ञा। भ०७ श० 8 उ०। आ० म० / घटशब्दादिलक्षणे अभिधाने, विशे० / आ० म० / नं० / आरख्यायाम्, अनु० / उत्तरकालपरि लोचनायाम, सूत्र०२ श्रु० 4 अ० / ऊहापोहविमर्षे, सूत्र०२ श्रु०७ उ० / प्रत्यक्षवर्तमानार्थग्राहिण्या चेतनायाम, दश० 4 अ०। संज्ञानं संज्ञा / पदार्थपरिच्छित्ती. 'पत्तेयं सण्णा' प्रत्येक सज्ञा। मन्दमन्दतस्पटुपटुतरभेदात्। प्रत्येकमेवोपजायते। सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितत्वात् / सूत्र०१ श्रु०७ उ० / ज्ञाने, सूत्र० 2 श्रु०१ अ०1 अन्तःकरणवृत्तौ, सूत्र० 1 श्रु०५ अ०१ उ०। प्रतिनियतशब्दाभिधेयत्वे, सम्म०१ काण्ड / दश०। / भूतभवद्भाविभावस्वभावपालोचने, कर्म० 4 कर्म०। पं० सं०। नं०। संज्ञा स्मृतिरवबोध इत्यनान्तरम् / आचा० 1 श्रु०१ अ०१ उ०। सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसिंणो सण्णा भवइ। (सू०१) "सुत्तं अट्ठहि य गुणेहिं उववेयं / / 1 / / " इत्यादि, तच्चेदं सूत्रम्-- 'सुयं मे आउस ! तेणं भगवया एवमक्खायं -इहमेगेसि णो सण्णा भवति' अरस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति। एक तिङन्त शेषाणि सुवन्तानि, गतः सपदच्छेदः सूत्रानुगमः / साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जम्बूनाम्न इदभाचष्टे, यथा-श्रुतम्- आकर्णितमवगतमवधारितमिति यावद, अनेन स्वमनीषिकाव्युदासो मयेति साक्षान्न पुनः पारम्पर्येण आयुष्मन्निति जात्यादिगुणसम्भवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेश-प्रदायको यथा स्यात् / इहाचारस्य व्यचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितम्, तेनेनि तीर्थकरमाह। यदि वा- आमृशता भगवत्पादारविन्दम् अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतचार्थद्वयम् 'आमुसंतेण आवसंतेणे' त्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति / भगवतेति भगः-ऐश्वर्यादिषडात्मकः सोऽस्यास्तीति भगवान् तेन, एवमिति वक्ष्यमाणविधिना, आरख्यातमित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह- 'इहे' ति-क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आरण्यातमिति सम्बन्धः / यदिवा-'इहे' ति-संसारे एकेषां ज्ञानावरणीयावृत्तानां प्राणिनां नो संज्ञा भवति, संज्ञाने संज्ञा स्मृतिरवबोध इत्यनर्थान्तरम्, सा नो जायत इत्यर्थः। उक्तः पदार्थः / पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम्। इदानी चालनाननु चाकारादिकप्रतिषेधकलघुशब्दसम्भवे सति किमर्थं नोशब्देन प्रतिषेध इति? अत्र प्रत्यवस्था, सत्यमेवम्, किन्तु-प्रेक्षापूर्वकारितया नोशब्दोपादानम्, सा चेयम्अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनाया दश संज्ञाः सर्वप्राणिनामभिहितास्तासा सर्वासा प्रतिषेधः प्राप्नोतीति कृत्वा। ताश्चेमाः"कइणभंते ! सण्णाओ पण्णत्ताओ? गोयमा ! दस सण्णाओ पण्णत्ताओ, तं जहा-आहारसण्णा भयसण्णा मेहुण-सण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण" त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची, देशनिषेधवाची च / तथा हि-नो घट इल्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानम् / स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति / तथा चोक्तम्-'प्रतिषेधयति समस्त, प्रसक्तमर्थ च जगति नोशब्दः। स पुनस्तदवयवो वा, तस्मादर्थान्तरं वा स्याद् / / 1 / / ' इति, एवमिहापि न सर्वसंज्ञानिष्धः, अपि