________________ सज्ज 278 - अभिधानराजेन्द्रः - भाग 7 सज्जण यस्मात्तस्मात् षड्ज इति स्मृतः" ||1 / / अनु० / ('सर' शब्दे सर्वा वक्तव्यतां वक्ष्यामि।) सज्जइपुं०(सद्यपि) सत्साधौ, षो०१२ विव०। सज्जण पुं० (सज्जन) "अन्त्यव्यञ्जनस्य" ||81 / 11 / / इति जकारस्य लुक / सज्जनः / सज्जणो / प्रा० / विशिष्टलोके, प्रश्न०३ आश्र० द्वार / नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बिचेद्भवेत्। नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः॥१॥ स्याद्रली बलमिह प्रदर्शयेत्, सज्जनेषु यदि सत्सुदुर्जनः। किं बलं नु तमसोऽपि वर्ण्यते, यद्भवेदसति भानुमालिनि।।२।। दुर्जनस्य रसना सनातनी, संगतिं न परुषस्य मुञ्चति। सज्जनस्य तु सुधातिशायिनः, कोमलस्य वचनस्य केवलम्॥३|| या द्विजिहृदलनाद्यनादरा द्याऽऽत्भनीह पुरुषोत्तमस्थितिः। याऽप्यनन्तगतिरेतयेष्यते, सज्जनस्य गरुडानुकारिता // 4 // सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः। चक्रवाकदृगहर्पतेर्तुतौ, घूकदृक् तमसि सङ्गमङ्गति॥५|| दुर्जनरिह सतामुपक्रिया, तद्वचो विजयकीर्तिसंभवात्। व्यातनोति जिततापविप्लवां, वहिरेव हि सुवर्णशुद्धताम्॥६॥ या कलङ्किवसनेन सक्षया, __ या कदापि न भुजङ्गसङ्गता। गोत्रभित्सदसि या नसासतां, वाचि काचिदतिरिच्यते सुधा॥७॥ दुर्जनोद्यमतपर्तुपूर्तिजा, तापतः श्रुतलता क्षयं व्रजेत्। नो भवेद्यदिगुणाम्बुवर्षिणी, तत्र सज्जनकृपातपात्ययः॥८|| तन्यते सुकविकीर्तिवारिधी, दुर्जनेन बडवानलव्यथा। सज्जननेन तु शशाङ्ककौमुदी, सारङ्गवदहो महोत्सवः / / 6 / / यद्यनुग्रहपरं सतां मनो, दुर्जनात् किमपि नो भयं तदा। सिंह एव तरसा वशीकृते, किं भयं भुवि शृगालबालकात्।।१०।। खेदमेव तनुते जडात्मनां, सज्जनस्य तु मुदं कवेः कृतिः। स्मेरता कुवलयेऽब्जपीडन, चन्द्रभासि भवतीति हि स्थितिः // 11 // नत्यजन्ति कवयः श्रुतश्रम, संमुदैव खलषीडनादपि। स्वोचिताचरणबद्धवृत्तयः, साधवः शमदमक्रियामिव / / 12|| नव्यतन्त्ररचनं सतां रते स्त्यज्यते न खलखेदतो बुधैः। नैव भारभयतो विमुच्यते, शीतरक्षणपटीयसी पटी।।१३।। आगमे सतिनवः श्रमोमदा न स्थितेरिति खलेन दूष्यते। नौरिवेह जलधौ प्रवेशकृत, सोऽयमित्यथ सतां सदुत्तरम्॥१४॥ पूर्वपूर्वतनसूरिहीलना, नो तथापि निहतेतिदुर्जनः। तातवागनुविधायिबालव नेयमित्यथ सतांसुभाषितम्॥१५|| किं तथापि पलिमन्थमन्थरै स्त्र साध्यमिति दुर्शनोदिते। स्वान्ययोरुपकृतिर्नवा मति श्चेति सज्जननयोक्तिरर्गला / / 16 / / सप्रसङ्गमिदमाद्यविंशिको पक्रमे मतिमतोपपादितम् / चारुतां व्रजति सज्जनस्थिति क्षितासु नियतं खलोक्तिषु // 17 // न्यायतन्त्रशतपत्रभानवे, लोकलोचनसुधाञ्जनत्विषे / पापशैलसतकोटिमूर्तये, सज्जनाय सततं नमो नमः / / 18 / / भूषिते बहुगुणे तपागणे, श्रीयुतैर्विजयदेवसूरिभिः।