SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ संवच्छर 230 - अभिधानराजेन्द्रः - भाग 7 संवच्छर मे कविशत्युत्तर शतं चतुर्विंशत्युत्तरशतभागानाम्, एतावदभिवर्द्धितमासपरिमाणम्, तथा चोक्तम्"आइचो खलु मासो, तीसं अद्धं च सावगो तीसं। चंदो एगुणतीस, बिसट्टिभागा य बत्तीसं / / 1 / / नक्खत्तो खलु मासो, सत्तावीस भवे अहोरत्ता / अंसा य एकवीसा, सत्तट्टिकरण छेएण।।२।। अभिवडिओ य मासो, एक्कत्तीसं भवे अहोरत्ता। भागसयमेगवीस, चउवीससरण छेएणं / / 3 / / " सम्प्रतिएतैरेव पञ्चभिः संवत्सरैः प्रागुक्तस्वरूप युगंपञ्च संवत्सरात्मक मासानधिकृत्य प्रमीयते। तत्र युगंप्रागुदितस्वरूपं यदि सूर्यमासैर्विभज्यते ततः षष्टिः सूर्यमासा युगं भवति, तथाहि-सूर्यमासे सार्द्धास्त्रिंशदहोरात्रा युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि भवन्ति / कथमेतदवसीयते इति चेत, उच्यते-इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ, एकै कस्मिश्च चन्द्रसंवत्सरेऽहोरात्राणा त्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति, द्वादश च द्वाषष्टिभागा अहोरात्रस्य 354 12 तत एतत् त्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वाषष्ट्यधिकानि 1062 षट् त्रिंशच्च द्वाषष्टि भागा अहोरात्रस्य ३०६,अभिवर्द्धित-संवत्सरे च एकैकस्मिन अहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, (तत एतद् द्वाभ्यां गुण्यते जातानि सप्तषष्ट्यधिकानि सप्तशतान्यहोरात्राणां षद्धिशतिश्च द्विषष्टिभागा अहोरात्रस्य तदेव चन्द्रसंवत्सरत्रयाभिवर्द्धितसंवत्सरद्वयाहोरात्रमीलने त्रिंशदधिकान्यहोरात्राणामष्टादश शतानि, सूर्यमासस्य च पूर्वोक्तरीत्या सार्द्धत्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव षष्टलाभः / तथाहि-अष्टादशशत्यास्त्रिंशदधिकाया अर्धीकरणाय द्वाभ्यां गुणने षष्ट्यधिका षट्त्रिंशच्छती त्रिंशतश्चा/करणाय द्वाभ्यां गुणने षष्टिः, एक प्रक्षेपे एकषष्टिस्तेन पूर्वोक्तराशेः भागे कृते लभ्यते षष्टिः, तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थितम् / सावनस्य तु मासा एकषष्टिः, त्रिंशदिनमानत्वाद् तस्य त्रिंशदधिकाया अष्टादशशत्यास्त्रिंशता भागे एकषष्टे लाभात् / चन्द्रमासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकै मसिः, युगदिनानां तैर्भाग च द्वाषष्टलाभात्, कथम्? त्रिंशदधिकाया अष्टादशशत्या द्विषष्टिभागकरणार्थ गुणकारे एक लक्षं त्रयोदश सहस्राणि षष्ट्यधिकमेक शतम् 113166, चन्द्रमासस्यापि भागकरणाय द्विषष्ट्या एकोनत्रिंशति गुणिते प्रक्षिप्ते च द्वात्रिंशति त्रिंशदधिकाया अष्टादशशत्या भावः, तया भक्ते पूर्वोक्तराशौ द्वाषष्टेर्भावात् चन्दमासा द्वाषष्टिरिति। नक्षत्रमासाः सप्तषष्टिः, कथमिति चेत्, नक्षत्रमासस्तावत् सप्तविंशत्या आहोरात्रैरेकविंशत्या च सप्तषष्टिभागः,) तत्र सप्तविंशतिरहोरात्राः समषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जातान्यष्टादश शतानि नवोत्तराणि 1806, तत उपरितना एकविंशतिः सप्तषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि 1830, युगस्यापि सम्बन्धिनस्त्रिंशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जात एको लक्षः द्वाविंशतिः सहस्राणि षट् शतानि दशोत्तराणि 122610, एतेषामष्टादशशतैस्त्रिंशदधिकैनक्षत्रमाससत्कसप्तष्टिभागरूपैर्भागो हियते लब्धाः सप्तषष्टिर्भागाः 67 / तथा यदि युगमभिवर्द्धितमासैः परिभज्यते तदा अभिवर्द्धित्तमासा युगे भवन्ति सप्तपञ्चाशत् सप्त रात्रिन्दिवानि एकादश मुहूर्त्ता एकस्य च मुहूर्तस्य द्वाषष्टिभागाखयोविंशतिः, तथाहि-अभिवर्द्धितमासपरिमाणमेकत्रिशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विशत्यधिकशतभागानामहोर त्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विंशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरेण शतेन गुण्यन्ते जातान्यष्टात्रिंशच्छतानि चतुश्चत्वारिंशदधिकानि 3844, तत उपरितनमेकविंशत्युत्तरं शतं भागानां तत्र प्रक्षिप्यते, जा तान्येकानचत्वारिंशच्छताति पञ्चषष्ट्यधिकानि 3665, यानि च युगे अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि 1830 तानि चतुर्विशत्युतरेण शतेन गुण्यन्ते, जाते द्वेलक्षे षड्विंशतिः सहस्राणि नव शतानि विंशत्यधिकानि 226620, तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषष्ट्यधिकैरभिवर्द्धितमाससत्कचतुर्विंशत्युत्तरशतभागरूपैर्भागो ह्रियते, लब्धाः सप्तपञ्चाशन्मासाः 'शेषाणि तिष्ठन्ति नव शतानि पञ्चदशोत्तराणि 615, तेषामहोरात्रानयनाय चतुर्विशत्यधिकेन शठेन भागो हियते, लब्धानि सप्त रात्रिन्दिवानि, शेषास्तिष्ठन्ति चतुर्विशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिगिरेकस्य च भागस्य चतुर्भिस्त्रिंशद्भागैर्मुहूर्तो भवति, तथाहि--एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता अहोरात्रे च चतुर्विंशत्युत्तर शत भागाना कल्पितमास्ते, ततस्तस्य चतुर्विशत्युत्तरशतस्य 'शता भागे हृते लब्धाश्चत्वारो भागाः एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशद्भागास्तत्र पञ्चचत्वारिंशदागैरेकस्य च भागस्य सत्कैश्चतुर्दशभिस्त्रि शद्भागैरेकादश मुहूर्त्ता लब्धाः शेषस्तिष्ठत्येको भागः, एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः। किमुक्तं भवति?षट्चत्वारिंशत-त्रिंशद्धागा एकस्य भागस्य सत्काःशेषास्तिष्ठन्ति, ते च किल मुहूर्तस्य चतुविशत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विशत्युत्तरशतस्य च द्विकेनापवर्त्तना क्रियते,लब्धा मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशतिः। उक्तं चैतदन्यत्रापि"तत्थ पडिमिजमाणे पंचहिं माणेहि सव्वगणिएहिं। मासेहि विभज्जता, जइ मासा होति ते वोच्छं।१।।" अत्र 'तत्थे' ति तत्र, 'पंचहिं माणेहिं तिपञ्चभिर्मानः-मानसंवत्सरैः प्रमाणसंवत्सरैरादित्यचन्द्रादिभिरित्यर्थः,पूर्वगणितैः-प्राक्प्रतिसंख्यातस्वरूपैः प्रतिमीयमाने प्रतिगण्यमाने मासैः-सूर्यादिमासैः शेष सुगमम् / “आइचेण उ सट्ठी, मासा उउणो उ हों ति एगट्टी / चंदेण उ बावट्ठी,सत्तट्टी होति नक्खत्ते / / 1 / / सत्तावण्णं मासा, सत्त य राइंदियाइँ अभिवड्डे / इक्कारस य मुहुत्ता, विसट्ठिभागा य तेवीसं / / 2 / / " सू० प्र० 10 पाहु०। यथा 'संवत्सराणामादिर्वक्तव्य इति,ततस्तद्विषयं प्रश्नसूत्रमाहता कहं ते संवच्छ राणामादी आहिते ति वदेजा? तत्थ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy