SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संथार 150 - अमिधानराजेन्द्रः - भाग 7 संथार एव 'से' तस्य तीव्रतरमायाविनो मासगुरु प्रायश्चित्तम्। अथ संस्तारकग्रहणे विधिमाहवित्थिन्नकुट्टिमतले, डहराए विसमए य घेप्पंते। होइ अहाराइणियं, राइणियाते इमे हों ति॥७११।। विस्तीर्णायां वा डहरायां वा-संपूर्णायां वसतौ कुट्टिमतले च विषमे वा भूभागे यथारत्नाधिकं संस्तारको गृह्यते / ते च रत्नाधिका इमे भवन्ति। / उवसंपज गिलाणे,परित्तखमए अवाउडियथेरे। तेण परं वित्थिपणे, परियाए मोत्तिमे तिण्णि ||712 / / प्रथमतो गुरूणां संस्तारकत्रयं दत्त्वा ततो यो ज्ञानाद्यर्थमुपसंपद प्रतिपन्नस्तस्य संस्तारको दातव्यः,ततो ग्लानस्य, ततः परीत्तोपधेः, ततः क्षपकस्य, ततः अपावृतकस्य-अपावृतेन मया सकलाऽपि रजनी गमनीयेत्येवं प्रतिपन्नाभिग्रहस्य, तदनन्तरं स्थविरस्य-श्रुतेन वयसा वा वृद्धस्य ततः परं विस्तीर्णे प्रतिश्रये पर्यायण रत्नाधिकक्रमेण संस्तारको ग्रहीतव्यः,परं मुक्त्वा अमून् त्रीन् क्षुल्लक शैक्षवैयावृत्यकरान् वक्ष्यमाणगाथायामभिधास्यमानान्। आह-उपसंपन्नग्लानादीनां क्रियता प्रथमं संस्तारकप्रदानेनानुग्रहः, यस्तु तपस्वी विपुलां निर्जरामभिलषन् स्वयमेवापावृतेन मया स्थातव्यमित्येवमभिगृह्णाति तस्य किमर्थस्थविरादिभ्यः प्रथम संस्तारको दीयते। कामं सकामकिचो, अभिग्गहो नो बलाभिओगेणं। तणुसाहारणहे, तहवि निवाए व ठावेंति // 713 // काममनुमतमिदं स्वकामेन-स्वकीयया एव इच्छया कृत्यः कर्त्तव्योऽभिग्रहो न तु बलाभियोगेन परं तथापि न तु साधारणहेतोः शरीरस्य शीतोपद्रवसंरक्षणनिमित्तं निवाते प्रदेशे तं स्थापयन्ति। कुत इति चेदित्याहअन्नोण्णकारेण वि निज्जराजा, नसा भवे तस्स विवज्जएणं। जहा तवस्सी धुणुते तवेणं, कम्मतहा जाणतवोऽणुमंता 1714 // अन्योन्यकारो नाम-परस्परं वैयावृत्त्यकरणं तेन या निर्जरा विशिष्टकर्मक्षयरूपा सा तस्य अन्योन्यकारस्य विपर्ययेण-व्यतिरेकेण न भवति / यथा किल तपस्वी तपसा कर्म-ज्ञानावरणादि धुनोति, तथा यस्तस्य साहाय्यक रणेन तदीयतपसोऽनुमन्ता तमपि तथैव कर्मक्षयकारिणं जानीहि अतो युक्तमेवापावृताभिग्रहिकस्यानुग्रहविधानम्। अथ यदुक्तममून् त्रीन् मुक्त्वेति तस्य व्याख्यानार्थमाहवीहंत एव खुड्डे, वेयावच्चकरे सेहों (जस्स) पासम्मि। विसमऽप्प तिन्नि गुरुणो, इतरे गहियम्मि गेण्हति // 715 / / क्षुल्लकस्वभावादेव विभ्यत् भवति ततो बहिः स्थाप्यमानः कूजितरुदिताादि कुर्यात, अतो यस्तं परिवर्त्तयति तस्य समीप स्थाप्यते।। वैयावृत्यकरो-ग्लानस्य प्रतिचरकः स ग्लानपार्चे क्रियते। शैक्षो यस्य पाचे भिक्षां गृह्णाति तस्यान्तिके स्थापनीयः / तथा विषमे वा अल्पे वा संकीर्णे प्रतिश्रये त्रीन संस्तारकान् गुरूणां दत्त्वा तत इतरे उपसंपन्नादयो गुरुभिहीते सति संस्तारकत्रये यथोक्तक मेण गृह्णन्ति एष संग्रहगाथासमासार्थः। अथास्या एव पूर्वार्द्ध विभावयिषुराहवीहेज बाहिं ठवितो उखुड्डो, तेणाइगंभोय अजग्गराये। सारेइजोतं उभयं च नेई, तस्सेव पासम्मि करेंति तं तु // 716|| क्षुल्लको बहिः स्थापितः सन् अजागरणशीलश्चासौ बहिः सुप्तः, स न केनापि उत्थापितः प्रतिक्रमणवेलायामपिनजागृयात्, ततो यस्तं क्षुल्लक सारयति भिक्षां ग्राहयति उभयं च-संज्ञाकायिकीलक्षणं तदीयं यो नयति परिष्ठापयति तस्यैव पार्श्वेतं कुर्वन्ति। संथारगंजो इतरंवमत्तं, उव्वत्तमादीव करेइतस्स। गाहेइसेहं खलु जोय मेरं, करेन्ति तस्सेव उतं सगासे॥७१७|| ग्लानस्य संस्तारक यः करोति, इतरद्वा संज्ञाव्युत्सर्जन यो ग्लान कारयति, मात्रकं वा परिष्ठापयति, उद्वर्तनपरावर्त्तनादीनि वा तस्य ग्लानस्य यः करोति तं वैयावृत्यकरं तस्यैव पावें स्थापयन्ति यो वा शैक्ष मेरा समाचारी ग्राहयतितं तस्यैव सकाशे कुर्वन्ति। एवं विस्तीर्णाया वसतौ तावद्विधिरुवतः। अथ संकीर्णायां विधिमभिधित्सुराहसमविसमा थेराणं, आवलिया तत्थ अप्पणो इच्छा। खेलपवायनिवाए, पाहुणए जं विहिग्गहणं 1718|| संकीर्णायां वसतौ सर्वत्रापि संस्तारणीयेन पुनर्विषम इति कृत्या कश्चिदप्यवकाशश्वान्यो मोक्तव्यः / तत आवलिक या पङ्ख्या यथारत्नाधिकं विभज्यमाना संस्तारकभूमिः स्थविराणां-वृद्धानां समा वा समागच्छेद्विषमा वा / तत्र विषमायां तेषामात्मीया इच्छा / कोऽर्थःयदि सहिष्णुतया विषमेऽपि संस्तारयितुं शक्नु-वन्ति ततस्तत्रैव संस्तारयन्ति / अथ असहिष्णवस्तदा समां भूमिमनुज्ञापयन्ति / 'खेल' त्ति यस्य खेलः स्यन्दते तस्य मध्ये अवकाशः समायातस्तेन विविक्ते अवकाशे यः संस्तारकः सोअनुज्ञापनीयः / यः पितलः, स प्रवाते स्थातुमभिलषति यो वातूलः स निवाते / एतयोः परस्पर संस्तारकपरावर्तो भवति / प्राघूर्णक आचार्यादिः समागतः तस्याऽपि यद्विधिना वक्ष्यमाणेन संस्तारकग्रहण तदनुज्ञातमिति पुरातनगाधासमासार्थः। अथैनामेव विभावयिषुराहविसमो मे संथारो, गाढापासा में एत्थ भजंति। को देज मज्झ ठाणं,समं तितरुणा सयं बेति॥७१६।। संस्तारक भूमिः स्थविराणां विषमा तरुणानां समा याता। यः स्थविरः असहिष्णु: स बूयात् विषमो मे मदीयः संस्तारकः पाश्वाणि चात्र विषमे शयानस्य गाढं मम भज्यन्ते , अतः को नाम मा सम स्थानं दद्यादिति / ततो ये तरुणास्त
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy