________________ संजोग 116 - अभिधानराजेन्द्रः - भाग 7 संजोग षत्रिंशद्भवन्तितत्र चाचारादिचतुर्विधविनयमीलनात्, उक्तं च "अट्टविहा गणिसंपइ, चउग्गुणा नवरि होति वत्तीसा। विणओ य चउन्भेओ, छत्तीस गुणा हवतेए" / / 1|| तत्राष्टौगणि-सम्पद इमाः-आचारसम्पत् 1 श्रुतसम्पत 2 शरीरसम्पत् 3 वचनसम्पत् 4 वाचनासम्पत् 5 मतिसम्पत् 6 प्रयोगमतिसम्पत७ संग्रहपरिज्ञासम्पत् 8, तथा चाह- "आयारसुयसरीरे, वयणे वायणमती पतोगमती। एएसुसंपया खलु, अट्टमिया संगहपरिण्णा" / / 1 / / तत्र चाचारसम्पत् चतुर्धा-संयमधुवयोगयुक्तता 1 असम्प्रग्रहता 2 अनियतवृत्तिः 3 वृद्धशीलता चेति 4, तत्र संयमः-चरणं तस्मिन ध्रुवोनित्यो योगः-समाधिस्तद्युक्तता, कोऽर्थः? सन्ततोपयुक्तता संयमध्रुवयोगयुक्तता 1, असम्प्रग्रहःसमन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारण सम्प्रग्रहस्तदभावोऽसम्प्रग्रहः, जात्याद्यनुत्सिक्त-तेत्यर्थः 2, अनियतवृत्तिः अनियतविहाररूपा 3, वृद्धशीलतावपुषि मनसि च निभृतस्वभावता निर्विकारतेति यावत् 4, 1 / श्रुतसम्पचतुर्धा-बहुश्रुतता 1 परिचितसूत्रता 2 विचित्रसूत्रता 3 घोषविशुद्धिकरणता 4 च, तत्र बहुश्रुततायुगप्रधानागमता 1 परिचितसूत्रताउत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता र विचित्रसूत्रतास्वपरसमयविविधोत्सर्गापवादादिवेदिता 3 घोषविशुद्धिकरणताउदात्तानुदात्तादिस्वरशुद्धिविधायिता 4,2 / शरीरसम्पत् चतुर्धाआरोहपरिणाहयुक्तता 1 अनवत्राप्यता 2 परिपूर्णेन्द्रियता 3 स्थिरसंहननता च 4. इह च-आरोहो-दैर्ध्य परिणाहो-विस्तरः ताभ्यां तुल्याभ्यां युक्तता आरोहपरिणाह-युक्तता 1 अविद्यमान-मवत्राप्यम्-अवत्रपणं-लज्जन यस्य सोऽयमनवत्राप्यः,यद्वा-अवत्रापयितुं-लज्जयितुमर्हःशक्यो वाऽवत्राप्योलज्जनीयः न तथाऽनवत्राप्यस्तद्भावोऽनव त्राप्यता 2 उभरात्राहीनसर्वाङ्गत्वं हेतुः, परिपूर्णेन्द्रियताअनुपहतचक्षुरादिकरणता 3 स्थिरसहननता-तपःप्रभृतिषु शक्तियुक्तता 4. 3 / वचनसम्पचतुर्भेदाआदेयवचनता 1 मधुरवचनता 2 अनिश्चितवचनता 3 असन्दिग्धवचनता 4 तत्र आदेयवचनता-सकलजनग्राह्यवाक्यता मधुरं-रसवद् यदर्थतो विशिष्टार्थवत्तया-अर्थावगाढत्वेन शब्दतश्चापरुषत्वसौस्वर्यगाम्भीयादिगुणोपेतत्वेन श्रोतुराणादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता 2 अनिश्रितवचनता रागाद्यकलुषितवचनता ३असंदिग्धवचनता परिस्फुटवचनता 4, 4 / वाचनासम्पचतुर्धाविदित्वोद्देशनं ? विदित्वा समुद्देशनं 2 परिनिर्वाप्य वाचना 3 अर्थनिर्यापणेति४, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भदात् 2, परीति-सर्वप्रकार निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्तालापकादि रात्मिना स्वात्मनि परिणमयतः शिष्यस्यसूत्रगताशेषविशेषग्रहणलक्षणं कालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचनासूत्रप्रदानं परिनिर्वाप्यवाचना 3, अर्थ:-सूत्राभिधेयं वस्तु तस्य निरितिभृशं यापनानिर्वाहणा पूर्वापरसागत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा 4,5 मति-सम्पत् अवग्रहेहापायधारणारूपा चतुर्दा, अवग्रहादयश्च तत्र तत्र प्रपश्चिता एवेति न विवियन्ते 6 / प्रयोगमतिसम्पच्चतुर्धा-आत्मपुरुषक्षेत्रवस्तु-विज्ञानात्मिका, तत्राऽऽत्मज्ञानं वादादिव्यापारकाले किममु प्रतिवादिन जेतु मम शक्तिरस्ति न वा? इत्यालोचनम्, पुरुषज्ञान-किमयं प्रतिवादी पुरुषः सांख्यः सौगतोऽन्यो वा? तथा प्रतिभादिमानितरो वेति परिभावनम् 2, क्षेत्रज्ञान-किमिद मायाबहुलमन्यथा वा? तथा साधुभिरभावित भावितं वा नगरादिति विमर्शनम् 3. वस्तुज्ञानं-किमिदं राजाऽमात्यादि सभासदादि वा वस्तुदारुणमदारुण भद्रकमभद्रक वेति निरूपणम् 4,7, संग्रहपरिज्ञा तुबालदुर्बलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका 1 निषद्यादिमालिन्यपरिहाराय फलक पीठोपादानाऽऽत्मिका द्वितीया 2 यथासमयमेव स्वाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया 3 प्रव्राजकाध्यापकरत्राधिकादिगुरुणामुपधिवहनविश्रामणसंपूजनाभ्युस्थानदण्डकोपादानादिरूपा चतुर्थीति 4, 8 / इत्युक्ता अष्टी चतुर्गुणा आचारादिगणिसम्पदः। विनयस्तूत्तस्त्राचार्यविनयप्रस्तावेऽभिधास्यते, इति गतं प्रासङ्गि कम् / प्रकृतमुच्यतेतत्राऽऽचार्यस्य स्वरूपमभिहितं, शिष्यस्याह-आचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्तादृशोयादृशो नवरंस एवेति वचनादाचार्य इत्यपिशब्दार्थः सदृशःतुल्यः, सर्वरपिन कतिपयै-रेव, कैः?गुणैः-साधारणैः क्षान्त्यादिभिरिति गम्यते / यद्वा लक्षणे तृतीया, ततः सर्वैरपि स्वगुणैर्लक्षितः शिष्य आचार्यस्य सदृश इति योज्यम्, सादृश्यं च स्वगुणमाहात्म्यविभूषित उभयो-रपि यथोक्तान्वर्थयुक्त (त्व) मेव, अथवाऽऽचार्यस्यापीति अपेरेवकारार्थत्वात् स्वगुणोपलक्षितः शिष्यः सदृश एव-अनुरूप एव, अनुरूपार्थस्याऽपि सदृशशब्दस्य दर्शनात्, यथाऽऽत्मसदृशं कुर्याः कुलानुरूपमित्यर्थः / अननुरूपस्तु तत्त्वतोऽशिष्य एवेति भावः। अथ के अमी शिष्यगुणाः? उच्यन्ते- "भाववि-याणणमणुयत्तणा उ भनी गुरूण बहुमायो / दक्खत्तं दक्खिण्णं, सील कुलमुजमो लज्जा / / 1 / / सुस्सूसा पडिपुच्छा, सुणणं गहणं च ईहणमवाओ। धरण करणं सम्म, एमाई होति सीसगुणा / / 2 / " इति गाथार्थः। इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोःस्वरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाहएवं नाणे चरणे, सामित्ते अप्पणो उ (य) पिउणो ति। मज्झं कुलेऽयमस्स य, अह यं अम्भितरो मित्ति ||5|| एवम्-अनन्तरोक्तबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन ज्ञानेज्ञानविषयः चरणे-चरणविषयः, आत्मन उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः / अत्र भावना-ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिनिराश्रयस्य निर्विषयस्य च ज्ञानस्यासम्भवादवश्य ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन बाह्येन तद्-द्वारकः संयोग इत्युभयसंयोगः / एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाह्येन संयोगः