________________ संजय 105 - अभिधानराजेन्द्रः - भाग 7 संजय स्ताभ्यामुपशोभित-विभूषितमर्थधर्मोपशोभित भरतोऽपि भरतनामा चक्रवर्त्यपि, अपिशब्द उत्तरापेक्षया समुच्चये 'भारह' ति प्राकृतत्वाद्धारतं वर्ष - क्षेत्रं त्यक्त्वा कामाई ति चस्य गम्यमानत्वात कामाश्च विषयान् प्राकृतत्वान्नपुसकनिर्देशः, 'पव्वए' त्ति प्रावाजीत्। 'सगरो वी' त्यादि सर्वमपि स्पष्ट, नवरं सागरान्तंसमुद्रपर्यन्तं दिक्त्रये, अन्यत्र तुहिमवत्पर्यन्तमित्युपस्कारः, तथा ऐश्वर्यम् आज्ञैर्श्वयादि केवलं परिपूर्णमनन्यसाधारणं वा दयय संयमेन परिनिर्वृतः इहैव विध्यातकषायानलत्वाच्छीतीभूतो मुक्तो वा। तथा- 'अरो य' त्ति अरनामा च तीर्थकृच्चक्रवर्ती 'अरयं' ति रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठातरतः-अरस वा शृङ्गारादिरसाभावं, प्राप्तः-गतो गतिमनुत्तरां-मुवितमित्यर्थः / तथा त्यक्त्वोत्तमान् भोगानिति, पुनरत्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्य, महापद्मः महापद्मनामा 'चरे' त्ति आचरत्। तथा एकं छत्रंनृपतिचिह्नमस्यामित्येकच्छवा तां, कोऽर्थः? अविद्यमानद्वितीयनृपति महींपृथ्वी प्रसाध्यवशीकृत्वति सम्बन्धः, माणनिसूरणो' त्ति दृप्तारात्यहङ्कारविनाशकः मनुष्येन्द्रः इति चक्री / तथा 'अन्नितो' त्ति अन्वितःयुक्तः 'सुपरिचाइत्ति सुष्टुशोभनेन प्रकारेण राज्यादि परित्यजतीत्येवं शीलः सुपरित्यागी दमंजिनाख्यातमिति सम्बन्धः, 'चरि'त्ति अचारीच्चरित्वा च जयनामा चक्रीति शेषः प्राप्तो गतिमनुत्तराम् / तथा दशा? नाम देशस्तद्रज्य-तदाधिपत्यं मुदित सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'गः' प्राग्वत् 'त्ति अचारात, अप्रतिबद्धविहारतया विहृतवानित्यर्थः, साक्षाच्छक्रेण चोदितः- अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः / तथा निष्क्रान्ताः प्रव्रजिता निष्क्रम्य च श्रामण्ये- श्रमणभावे पर्युपस्थिताः तदनुष्ठानं प्रत्युद्यताः अभूवन्निति शेषः / तथा सौवीरेषु राजवृषभःतत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेच्च' त्ति त्यक्त्वा राज्यमिति शेषः प्राग्वत्, मुनिःवैकाल्यावस्थावेदी सन् 'चरे' ति अचारात्, कोऽसौ? 'उदायणो' त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याह-प्राप्तो गतिमनुत्तराम् / तथैव-तेनैव प्रकारेण काशीराजः काशीमण्डलाधिपतिः श्रेयसि-अति-प्रशस्ये सत्येसंयमे पराक्रमःसामर्थ्य यस्याऽसो श्रेयःसत्यपराक्रमः 'पहणे' त्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनम्। तथैव विजयः इति विजयनामा 'अणट्टाकित्तिपव्वए'त्ति, आर्षत्वाद् अनातः-आर्तध्यानविकलः कीर्त्यादीनानाथादिदानोत्थया प्रसिद्ध्योपलक्षितः सन्, यद्वा-अनार्ता सकलदोषविगमतोऽबाधिता कीर्तिरस्येत्यनार्त्तकीर्तिः सन्, पठ्यतेच- 'आणट्टा किइपव्वइ' त्ति, आज्ञाआगमोऽर्थशब्दस्य हेतुवचनस्याऽपि दर्शनादथों हेतुरस्याः सा तथाविधा आकृतिरन्मुिनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रावाजीद् गुणैःराज्यगुणैः शब्दादिभिर्वा समृद्धसम्पन्न गुणसमृद्ध, पूर्व तुशब्दस्यापिशब्दार्थत्वाद्व्यवहितसम्बन्धत्वाच्च / गुणसमृद्धमपि / तथा 'अद्दाय' त्ति आर्षत्वाद् आदितगृहीत्वांस्तद्गमनेन स्वीकृतवान शिरसव-शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, सिरं' ति शिर इव शिरः सर्वजगदुपरिवर्तितया मोक्षः, पठ्यते च-'आदाय सिरसो सिरिति, अत्रच आदायग्रहीत्वा शिरःश्रियं सर्वोत्तमा केवललक्ष्मीं परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः। इत्थं महापुरूषोदाहरणैानपूर्वकक्रिया - माहात्म्यमभिधायोपदेष्टमाहकहं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे? एए विसेसमादाय, सूरा दढपरक्कमा।।५१।। कथं-केन प्रकारेण धीरः उक्तरूपः अहेतुभिः-क्रियावाद्यादिपरिकल्पितकुहेतुभिः उन्मत्त इव-ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनालजालभाषितया महीं -पृथ्वीं चरेत्-भ्रमेत्? नैव चरेदित्यर्थः, किमिति? ते एते-अनन्तरोदिता भरतादयः विशेषम् विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य आदा-य-गृहीत्वा मनसि सम्प्रधार्येति यावत् शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः / अयमभिप्रायः-यथेत महात्मानो विशेषमादाय कुवादिपरिकल्पित-क्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा भवताऽपि धीरेण सताऽस्मिन्नेव निश्चित चेतो विधेयमिति सूत्रार्थः। किनअचंतनियाणखमा, एसा मे भासिया वई। अतरिंसु तरंतेगे, तरिस्संति अणागया / / 5 / / अत्यन्तभ-अतिशयेन निदान:-कारणैः, कोऽर्थः ? हेतुभिर्न तु परप्रत्ययेनेव, क्षमा-युक्ताऽत्यन्तनिदानक्षमा, यद्वानिदानकर्ममलशोधनं तस्मिन् क्षमा-समर्था एषा-अनन्तरोक्ता, पाठान्तरतः-सर्वा-अशेषा सत्या वा मे मया भाषिता, अनयाऽङ्गीकृतया अतीर्घः-तीर्णवन्तः तरन्ति एकेअपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमभिधामिति, तथा तरिष्यन्ति अनागताः भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः। यतश्चैवमतःकहं धीरे अहेऊहिं, अदायं परियावसे / सव्वसंगविणिम्मुक्को, सिद्धे भवइ नीरए।।५३॥ त्ति बेमि / कथं धीरोऽहेतुभिः आदाय-गृहीत्वा, क्रियादिवादिमतमिति शेषः, पर्या वसेत् परीति-सर्वप्रकारमावसेत् तत्रै वनिलीयेत, नैव तत्राभिनिविष्टो भवेदिति भावः / पठ्यते च-'अत्ताणं परियावसि' ति आत्मानं पर्यावास-येद, अहेतुभिः कथमात्मानमहेत्वावास कुर्यात? नैव कुर्यादित्यर्थः / किं पुनरित्थमकरणे फलमित्याह-सर्वेनिरवशेषाः सजन्ति कर्मणा सम्बध्यन्ते जन्तव एभिरिति सङ्गाः द्रव्यतो द्रविणादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तोविरहितः सर्वसङ्गाविनिर्मुक्तः सन् सिद्धो भवति नीरजाः, तदनेनाहेतुपरिहाररय सम्यगज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः /