SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ सूरियाम १११६-अभिधानराजेन्द्रः - भाग 7 सूरियाभ गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, प्रेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मज्जनकगृहकाणि पत्रागत्या स्वेच्छया मज्जनकं कुर्वन्ति, 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृह- काणि' गर्भगृहाकाराणि 'मोहणघराई' इति मोहनं-मैथुनसेवा ‘रमियं तानि, तेषां च त्रिसोपनाप्रतिरूपकाणामयं वक्ष्यमाणः एतद्रूपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया 'वंगा' इत्यादि प्राग्वत्। 'तेसिणं तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येकं तोरणानि | प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भवनीयोयावत् बहवः सहस्रपत्रहस्तका इति, 'तासिण' मित्यादि, तासां क्षुल्लिका-क्षुल्लिकानां यावाद् विलपङ्क्तीनाम्, अत्रापि यावच्छब्दात्-पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्थतत्र तत्र एकदेशे बहव उत्पातपवता यत्रागत्या बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति, 'नियइपव्वया' इति नियत्यानैयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः क्वचित् 'निययपव्वया' इति पाठः, तत्र नियताः-सदा भोग्यत्वेनावस्थिताः, पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगईपव्वया' इति जागतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतकाः दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपाः-स्फटिकाः मण्डपाः, उक्तंच जीवाभिगममूलटीकायां-'दगमण्डपाः-स्फाटिका मण्डपा' इति, एवं दकमञ्चकाः दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'उसड्ढा इतिउत्सृताः; उचा इत्यर्थः, केचित् 'खुलड्डाखुड तिक्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मान-मन्दोलयन्ति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषुवनखण्डेषुतत्र 2 प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एतेच उत्पातपर्वतादयः कथंभूता? इत्याह-'सर्वरत्नमयाः सर्वात्मना रत्नमयाः, अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत्। 'तेसुण' मित्यादि, तेषु उत्पातपर्वतेषुयावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनिहंसासनादीनि आसनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रौञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानिउचासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा-'हंसे कोंचे गरुडे, उण्णय पणए य दीह भद्दे य। पक्खे मयरे पउमे, सीह दिसासोत्थि बारसमे // 1 // इति, तानि सर्वाण्यपि कथंभूतानीत्यत आह-'सव्वरयणामया' इत्यादि प्राग्वत् / 'तेसिण' मित्यादि, तेषु वनखण्डेषु मध्येतत्र 2 प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि आलिः-वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि काणि वासभवनानीति भावः, शालागृहकाणिपट्टशालाप्रधानानि जालगृहकाणिगवाक्षयुक्तानि गृहकाणि कुसुमगृहकाणिकुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि गीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणिआदर्शमयानीय गृहकाणि, एतानि च कथंभूतानीत्यत आह-'सव्वरयणामया' इत्यादि विशेषणकदम्बकं प्राग्वत्। तेसिण' मित्यादि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावच्छब्दात् मालिगृहकादिपरिग्रहः, 'बहूनि हंसासनानि इत्यादि प्राग्वत्। 'तेसिण' मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकाभण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः २,ताम्बूलीनागवल्ली तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागोद्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वानप्रसृता सालतेत्यभिधीयते नागलतामया मण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह'सव्वरयणामया' इत्यादि प्राग्वत्। 'तेसिण' मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु 'जाव' शब्दात्-यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका हंसासनवत् संस्थिता हंसासनसंस्थिता यावदप्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात्-'अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्ख० अप्पे० आयंसासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सीहासणसंठिया अप्पेगइया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिह्नानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, क्वचित्-मांसलसुधट्ठविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः; अकठिना इत्यर्थः, सुघृष्टा अतिशयेन मसृणा इति भावः विशि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy