SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ सूरियाम . 1104 - अभिधानराजेन्द्रः - भाग 7 सूरियाम ग्गलपासाया रययामयाओ आवत्तणपेठियाओ अंकुत्तरपासगा निरंतरियघणकवाडा मित्तीसुचेव भित्तिगुलिता छप्पन्ना तिण्णि होति गोमाणसिया तइया णाणामणिरयणवालरूवगलीलट्ठिअसाल-भंजियागा वयरामया कुड्डा रययामया उस्सेहा सव्वतवणिजमया उल्लोयाणाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्खबाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओ जायरूवमवईओ ओहाडणीओ वइरामईओ उवरिपुच्छणाओ सव्वसेयरवयामयाच्छायणे अंकामया कणगकूडतवणिजथूमियागासेया संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिजवालुयापत्थडासुहफासासस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा। क्व सूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ? भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे ये मन्दरः पर्वतस्तस्य दक्षिणतोऽस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्ध्या बहुबहुतरोत्प्लवेन बहूनि योजनसहस्राण्येवमेव बहूनि योजनशतसहस्राणि एवमेव च बलीयोजनकोटीरेवमेव च बह्वीयोजनकोटीकोटीरूद्ध दूरमुप्तलुत्य अत्र-सार्द्धरज्जुप्रमाणे प्रदेशे सौधर्मो नाम कल्पः प्रज्ञप्तः, स च प्राचीनापाचीनायतः; पूर्वापरायत इत्यर्थः, उत्तरदक्षिणविस्तीर्णः, अर्द्धचन्द्रसंस्थानसंस्थितः, द्वौ हि सौधर्मेशानदेवलोको समुदिती परिपूर्णचन्द्रमण्डलसंस्थानसंस्थितौ, त्योश्च मेरोदक्षिणवर्ती सौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, 'अचिमाली' इति अर्चीपिकिरणानि तेषां माला अर्चिमाला सा अस्यास्तीति अर्चिाली; किरणमालासङ्घल इत्यर्थः, असङ्ख्येययोजनकोटीकोटीः 'आयामविक्खंभेणं' ति आयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वस्तेन; आयामेन च विष्कम्भेन चेत्यर्थः, असंख्येया योजनकोटीकोट्यः परिक्खेवेणं परिधिना 'सव्वरयणामए' इति सर्वात्मना रत्नमयः 'जाव पडिरूवे' इति यावत्करणात्-'अच्छे सण्हे घडे मढे' इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ ण' मित्यादि तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इत्याख्यातं मया शेषैश्च तीर्थकृद्धिः / 'ते णं विमाणे' त्यादि, तानि विमानानि सूत्रे पुंस्त्वं प्राकृतत्वात् सर्वरत्नमयानिसामस्त्येन रत्नमयानि 'अच्छानि' आकाशेस्फटिकवदतिनिर्मलानि, अत्रापि यावत्करणात्-'सहा लण्हा घवामट्ठा नीरया' इत्यादि, विशेषणजातं द्रष्टव्यं, तच प्रागेवानेकशो व्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतंसकानां स्वस्वकल्पचरप्रस्तटवर्तित्वात् | पञ्चावतंसकाः पञ्चविमानवतंसकाः प्रज्ञप्ताः, तद्यथा-- अशोकावतंसकः-अशोकावतंसकनामा, स च पूर्वस्यां दिशि, ततो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पावतंसक उत्तरस्यां चूतावतंसकः मध्ये सौधर्मावतंसकः, ते च पञ्चापि विमानावतंसकाः सर्वरत्नमयाः 'अच्छा . जाव पडिरूवा' इति यावत्करणादत्रापि सहा लण्हाघवा मट्ठा' इत्यादि विशेषणजातमवगन्तव्यम्, अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असंख्येयानि योजनशत-सहस्राणि व्यतिव्रज्य–अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमनं प्रज्ञप्तम, अर्द्ध त्रयोदशं येषां तानि अर्द्धत्रयोदशानि, सर्द्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत्योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि 3652548 किञ्चिद्विशेषाधिकानि परिक्षेपेणपरिधिना इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेतव्यं, सुगमत्वात्। 'सेणं एगेण मित्यादि, तद्विमानमेकेन प्राकारेण सर्वतःसर्वासु दिक्षु समन्ततः सामस्त्येन परिक्षिप्तम्। 'से णं पागारे' इत्यादि स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुच्चैस्त्वेन मूले एक योजनशतं विष्मम्भेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनविभागस्य विष्कम्भतस्त्रुटितत्वात्, उपरिमस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषड्भागस्य विष्कम्भतो हीयमानतया लभ्यामानत्वात्, अत एव मूले विस्तीणो मध्ये संक्षिप्तः पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तुनकः-पञ्चविंशततियोजनमात्रविस्तारात्मकत्वात्, अत एव गोपुच्छसंस्थानसंस्थितः, सम्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्, 'से णं पागारे' इत्यादि, स प्राकारो ‘णाणाविहपंचवन्नेहिं' इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवर्णापक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा पञ्चवर्णत्वमेव प्रकटयति-'कण्हेहिं इत्यादि, तेणं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो दैयेणार्द्ध योजन विष्कम्मेण देशोनयोनमुचैस्त्वेन 'सव्वस्यणामया' इत्यादि विशेषणजातं प्राग्वत्। 'सूरियाभस्सण' मित्यादि, एकैकस्यां बाहायां द्वारसहसमिति सर्वसङ्ख्यया चत्वारिद्वारसहस्राणि, तानि च द्वाराणि प्रत्येकं पञ्चयोजनशतान्यूर्ध्वम् उच्चस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः सेया' इत्यादि, तानिच द्वाराणि सर्वाण्युपरि श्वेतानिश्वेतवर्णोपेतानि बाहुल्येनाङ्करत्नमयत्वात् 'वरकणगथूभियागा' इति वर-कनका-वरकनकमयी श्तूपिका-शिखरं येषा तानि तथा, 'ईहामिग-उसभतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरवणलय पउमयलयभत्तिचित्ता खंभुम्यवरवरवेइयाएरिगयाभिरामा विजाहरजमलयुयलजंतजुता विवअचीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिडिभसमाणा चक्म्खुल्लो
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy