SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ सूरियाभ १०५२-अभिधानराजेन्द्रः- भाग 7 सूरियाभ दाहिणं जाणुं धरणितलं सि णिहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ, णिवेसित्ता ईसिंपचुन्नमइ, ईसिंपचुन्नमित्ता करतलपरिपहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासीणमोत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोगयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सवन्नृणं सवदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्सजावसंपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं इह गते ] पासइ मे भगवं तत्थ गते इहगतं ति कट्ट वदंति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुष्वाभिमुहं सणिसण्णे। (सू०५) तण णं तस्स सुरियाभस्स इमे एतारूवे अन्मत्थिते चिंतिते मणोगते संकप्पे समुपज्जित्था तत्र-तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति श्रमणं-श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगः-समगैश्वर्यादिलक्षण , उक्तं च-''ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः / धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना॥१॥" भगोऽस्यास्तीति भगवान् भगवन्तं 'सूर वीर विक्रान्तौ, वीरयतिकषायान् प्रति विक्रामति स्मेति वीरः महांश्वासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगाँ बहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरिवृत्तं प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्वा च'हट्टतुट्ठमाणदिए' इति-हृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा-हृष्टो नाम विस्मयमापन्नः, यथा अहो भगवानास्ते इति, तुष्टः-सन्तोषं कृतवान्, यथा भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-- स्फीतीभूतं 'टुनदि' समृद्धाविति वचनात्, यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वयपदद्वयमीलने कर्मधारयः 'थीइमणे | इति प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोकर्षवशात् 'परमसोमणस्सिए' इति–शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च | परमसौमनस्यं तत्सञ्जतमस्येति परमसोमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसपत्-विस्तारयायि हृदयं यस्य स हर्षवशविसहृदयः हर्षवशादेव 'वियसियवरकमलनयणे' विकसिते वरकमलवत् नयेन यस्य स तथा, हर्षयशादेव शरीरोद्धर्षेण पयलियवरकडगतुडियकेऊरमउडकुडले त्तिप्रचलितानि वराणि कटकानिकलाचिकाभरणाणि त्रुटितानि वाहुरक्षकाः केयूराणिबाहाभरणविशेषरूपाणि मुकुटो-मौलिभूषणं कुण्डले-कर्णाभरणे यस्य सप्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचितं-शोभितं वक्षो यस्य स हारविराजमानरचितवक्षः ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बते इति प्रलम्बः-पदकस्तं प्रलम्बमानम्-आभरणविशेष घोलन्ति च भूषणानि धरन्तीति प्रलम्बप्रलम्बमानघोलद्रूषणधरः, सूत्रे च प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात्, हर्षवशादेव 'ससभमं' संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका प्रवृत्तिः सह सम्भमो यस्य वन्दनस्य नमनस्य वा तत्सम्भ्रमं, क्रियाविशेषणमेतत्, त्वरितं-शीघ्र चपलं-सम्भ्रमवशादेव व्याकुलं यथा भवत्वेवं सुरवरी-देववरो यावत्करणात्- 'सीहासणाओ अब्भुट्टेअ अब्भुट्टित्ता पायपीढाओ पचोरुहति पचोरुहित्ता पाउयाओ ओमुयइओमुयित्ता तित्थयराभिमुहे सत्तकृपयाई अणुगच्छइणणुगच्छित्ता वामंजा[अचेइ [उत्पाटयति] दाहिणं जाणुधरणितलंसि निहटु तिखुत्तो मुद्धाणं धरणितलंसि नमेइ नमित्ता (निवेसेइ 2 त्ता) ईसिं पचुन्नमइ पचुन्नमित्ता कडियतुडियथंभियभुयाओ साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कठुएवं क्यासीनमोऽत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए' इति परिग्रहः, पश्यति मां स भगवान् तत्र गत इह गतमिति कृत्वा वन्दते-स्तौति नमस्यति-कायेन मनसा च यन्दित्वा नामस्यित्वा च भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः // 5 // 'तए णं तस्से' त्यादि, 'ततो निषदनानन्तरं तस्य-सूर्याभदेवस्य अयमेत दुपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह- मनोगतः-मनसि गतो व्यवस्थिते, नाद्यापि वयसा प्रकासितस्वरूपस्य इति भावः, पुनः कथम्भूत इत्याहआध्यात्मिकः आत्मन्यध्यध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवति-कश्चिद्ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता सञ्जाताऽस्येति चिन्तितः, चिन्तात्मक इति भावः सोऽपि कश्चिदभिलाषात्मको भवति, कश्चिदन्यथा तत्रायमभिलाषात्मकः-तथा चाहप्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्प्रत्ययः, प्रार्थः सञ्जातोऽस्येति प्रार्थितः, अभिलाषात्मक इति भावः।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy