SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल 1071 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल आख्यात इति गौतमो वदेद्-वदति / भगवानाह- गौतम ! यो जम्बूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्त्वादशभिर्विभज्य इदमेव पर्यायेणाह-दशभिर्भागेहियमाणे एष परिक्षेपविशेष आख्यातो मयाऽन्यैश्चाप्तैरिति वदेत् स्वशिष्येभ्यः इदमुक्तं भवतितापक्षेत्रस्य परमविष्कम्भः प्रतिपिपादयिषितव्यः, सच जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः, योजन 316227 क्रोश 3 धनूंषि 128 अडलानि 13 अर्धाङ्गुलम् 1 एतावता च योजनमेकं किञ्चिदूनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांशराशितो निरंशराशेर्गुणितस्य सुकरत्वात् ततो जातम् 316228, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट्शतानिचतुरशीत्यधिकानि६४८६८४, एषां दशभिर्मजने लब्धानि चतुर्नवतियों जनसहस्राणि अष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागायोजनस्य, अत्रापि त्रिगुणकरणादौ युक्तिः प्राग्वत्, नन्वन्यत्र 'रविणो उदयत्थन्तर-चउणवइसहस्स पणसयछवीसा / वायाल छट्ठिभागा, कक्कडसंकतिदिअहम्मि' // 1 // इत्युक्तम्, अत्रोदयास्तान्तरं प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः तत्र भेदे किं निबन्धनमिति चेत्, उच्यते-सर्वाभ्यन्तरमण्डलवर्ती सूर्यो मन्दरदिशि जम्बूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यधिकं शतं योजनानामवगाह्य चारं चरति तेनाशीत्यधिकशतयोजनानि द्विगुणानि 360 अस्य वर्गदशगुणवर्गमूलानयनेजातानि 1138 एतच्च द्वीपपरिधितः३१६२२७ रूपात् शोध्यते ततः स्थितम् 315086, अस्य दशभिर्भागे आगतम् 31508 अवशिष्टभागाः 9/10 अनयोरंशच्छेदयोः षड्भिर्गुणने जातम् 54/60 अथास्य राशेनिगुणने सम्पद्यते यथोक्तराशिः, तथाहि६४५२६ 40/60 इदं च सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युत्प्रेक्षितमिति भाव्यम्, श्रीमुनिचन्द्रसूरिकृतसूर्यमण्डलविचारेऽस्य सुविचारितत्वात्, प्रस्तुते च स्थूलनयाश्रयणेन द्वीपपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाणं सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमे दशांशकल्पनादिश्रवणात्, अनेन परिधितः परतो लवणोषड्भागं यावत् प्राप्यमाणे तापक्षेत्रे तच्चक्रबालक्षेत्रानुसारेण तत्र विष्कम्भसम्भवात् परमविष्कम्भस्तत्र कथनीय इति निरस्तम्, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिर्बहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात्, तथाहि-स्वस्वमण्डलपरिधिः षष्ट्या भक्तो मुहुर्तगतिं प्रयच्छति, साच दिवसार्द्धगतमुहूर्तराशिना गुणिता चक्षुस्पर्श सा चोदयतः सूर्यस्या प्रतो यावानस्तमयतश्च पृष्ठतोऽपितावानिति द्विगुणितः सन्तापक्षेत्रं भवति, एतच चक्षु स्पर्शद्वारे सुव्यक्त निरूपितमस्ति / इदं च तापक्षेत्रकरणं ] सर्वबाह्यमण्डलसत्कतापक्षेत्रबाह्यबाहा-निरूपणे विभावयिष्यत इति नात्रोदा ह्रियते, यदुक्तं-चेत् दशभागान् प्रकाशयति इति तत्र भागः षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणः कथं ? सर्वाभ्यन्तरे मण्डले चरति सूर्ये दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीये च क्षेत्रे स्थितः सूर्यो दृश्यो भवति, तत एतावत्प्रमाणं सूर्यात् प्राक्तापक्षेत्रं तावच्च अपरतोऽपि, इत्थं चाष्टादशमुहूर्ता-क्रमणीयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, तच किल दशभागत्रयात्मकं ततो भवत्येकस्मिन् न दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति। सम्प्रति सामस्त्यनायामतस्तापक्षेत्रपरिमाणं पिपृच्छिषुराह-'तया ण' मित्यादि यदा भगवन् ! एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवंस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ? भगवानाह-गौतम ! अष्टसप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागं च यावदायामन प्रज्ञप्त, पञ्चचत्वारिंशद्योजनसहस्राणि द्वीपगतानि त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानित्रयस्त्रिंशतदधिकानि, उपरि च योजनत्रिभाग-युक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तं मानम्। इदं च दक्षिणोत्तरत आयामपरिमाणमवस्थितन क्वापि मण्डलचारे विपरिवर्तेतेति, एनमेवार्थ सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुप्या सूर्यप्रकाशः प्रतिहन्यत इत्ये केषां मतम्, नेत्यपरेषाम् / तत्राद्यानां मते इयं सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारोमध्ये कारोमध्यकार:-मध्ये करणं मेरोस्तस्मिन् सति, कोऽर्थः?-चक्रवालक्षेत्रत्वात्तापक्षेत्रस्य मेरुंमध्ये कृत्वा यावल्लवणस्य रुन्दस्यनिर्देशस्य भावप्रधान-त्वादन्दतायाः-विस्तारस्य षड्भाग:--षष्ठो भागः एतावत्प्रमाणः तापस्य-तापक्षेत्रस्याऽऽयामः, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारोद्रे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपः तत उभमीलने यथोक्तप्रमाणः, एषं च नियमात् शकटोधि(द्धि)संस्थितः-शकटो(द्धि)द्विसंस्थानः अन्तः सङ्कुचितो बहिर्विस्तृत इति। अथ येषां मेरुणा न सूर्यप्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया-मेरोमध्यभागो-मन्दरा यावच लवणरुन्दताषड्भागः एतेनमन्दरा सत्कपञ्चयोजनसहस्राणि पूर्वराशी प्रक्षिप्यन्ते जायते च त्र्यशीतिसहस्रयोजनानि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि एकश्च योजनत्रिभागः 13333 1/3, अनेन च मन्दरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, यत्त्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पञ्चचत्वारिंशद्योजनसहस्रपरिमाणाभ्युपगमे यथा सूर्यो बहिर्निष्क्रामति तथा तत्प्रतिबद्धं तापक्षेत्रमपि, ततो यदा सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मन्दरसमीपे प्रकाशोन प्राप्नोति, अथ चतदापि तत्र मन्दरपरिरयपरिक्षेपेणाविशेष परिमाणमग्रे वक्ष्यते, तस्मात्पादलिप्तसूरिव्याख्यानमभ्युपगन्तव्यमि'' त्युक्तं, तत्र तत्र भवत्पादानां गम्भीरमाशयं न विद्मः बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात्, उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः / सम्प्रति प्रकाशपृष्ठलग्नत्वेन तद्विपर्यभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति-'तयाणभन्ते!' इत्यादि,तदा-सर्वाभ्यन्तरमण्डलचरणकालेकर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थितिः प्रज्ञप्ता? यद्यपि प्रकाशत
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy