SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल 1057 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल एमासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतरं तिसर्वबाह्यान्मण्डलादनन्तरभक्तिनं द्वितोयं मण्डलमुपसंक्रम्यचारंचरति 'ता जया णं' मित्यादि, तत्र यदा सर्वबाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन मुहूर्तेन योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्य 5304-57/60 गच्छति, तथाहि--अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षाअष्टादश सहस्राणि वे शते सप्तनवत्यधिके योजनानाम् 318267, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियते, हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणम्, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह-'तया ण' मित्यादि, तदा इहगतस्य मनुष्यस्य- जातावेकवचनम् इहगताना मनुष्याणामेकत्रिंशता योजनसहौनेवभिः षोडशैः षोडशोत्तरैोजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्यएकंचषष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तकषष्टिभागाभ्यामधिकः, तेषां चार्ट्स षट् मुहूर्ता एकेन मुहूर्त्तकषष्टिभागेनाभ्यधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्त्ता एकषष्ट्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तषष्ट्यधिकानि एकषष्टिभागानां 367, ततः सर्वबाह्यादक्तिने तस्मिन् द्वितीये मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके 318297, तदेभिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यधिकानि 116814666, एतस्य एकषष्ट्या गुणितया षष्ट्या 3660 भागो हियते, हृते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि 31616, शेषमुद्वरति चतुर्विशतिः शतानि एकोनचत्वारिंशदधिकानि 2436, नचातो योजनान्यायान्ति ततः षष्टिभागानयनार्थः मेकषष्ट्या भागो व्हियते, लब्धा एकोनचत्वारिंशत्षष्टिभागाः 36 एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 60/61 'तया णं राइंदियं तहेव' तदासर्वबाह्यानन्तराक्तिनद्वितीयमण्डलयोश्चारकाले रात्रिन्दिवम्-रात्रिदिवसप्रमाणं तथैव- प्रागिव वक्तव्यम्, तचैवम्- 'तया णं अट्ठारसमुहत्ता राई भवति दोहि एगविभागमुहुत्तेहि *णो, दुवालसमुहुत्ते दिवसे हवइ दोहि एगविभागमुहुत्तेहि अहिए' इति, ‘से पविसमाणे' इत्यादि, ततः सर्वबाह्यानन्तराक्तिनद्वितीयस्मादपि मण्डलादुक्त-प्रकारेण प्रविशन् सूर्यो द्वितीयस्य षण्मासस्य द्वितीयंऽहोरात्रे 'बाहिरतचं ति-सर्वबाह्यान्मण्डलादेक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि, तत्र यदा णमिति पूर्ववत् सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चार चरति तदा पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुतराणि योजनशतानिएकोन-चत्वारिंशतं च षष्टिभागान् योजनस्य 5304-66/60 एकैकेन मुहूर्तेन गच्छति, तस्मिन् हि मण्डले परिरय- | परिमाणं तिम्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनोशीत्यधिके इति 318276, अस्य षष्ट्या भागो हितये हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणम्, अत्रापि हि दृष्टिपथप्राप्तताविषयपरिमाणमाह'तयाण' मित्यादि, तदा इहगतस्य मनुष्यस्यजातावेकवचनस्य भावादिहगतानां मनुष्याणामेकाधिकै भत्रिंशता सहस्ररेकोनपञ्चाशता षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्श मागच्छति, तथाहि- अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणश्चतुभिरिकषष्टिभागैरधिकस्तस्यार्द्ध षट् मुहूर्ता द्वाभ्यां मुहूर्त कषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च द्वावेकषष्टिभागौ प्रक्षिप्येते, ततो जातानि त्रीणि शतान्यष्टषष्ट्यधिकान्येकषष्टिभागानाम्, 368, ततोऽस्मिन् मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाण्यष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके 318276 इति, तदेभिस्त्रिभिः शतैरष्षष्ट्यधिकैर्गुण्यते, जाता एकादशः कोट्यः एकसप्ततिः शतसहस्राणि षड्विशतिः सहस्राणि षट् शतानि द्विसप्तत्यधिकानि 117126672, एतस्यषष्ट्या एकषष्ट्या गुणितया 3660, भागो हियते, हृतेच भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि 32001, शेषमुद्दति त्रीणि सहस्राणि द्वादशोत्तराणि 3012, तेषां षष्टिभागानयनार्थमेकषष्टिधा भागो हियते, लब्धा एकोनपञ्चाशत्षष्टिभागाः 46/60 त्रयोविंशतिश्च एकस्य षष्टिभागस्य सत्का एकषष्टिभागा 23/61 इति, रतिंदियं तहेव' त्ति-रात्रिन्दिवरात्रिदिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यम्, तचैवम्-- 'तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुबालसमुहुत्ते दिवसे हवइ चउहिं एगट्ठिभागमुहूत्तेहि अहिए' इति। सम्प्रति सर्वबाह्यान्मण्डला-दक्तिनेषु चतुरादिषुमण्डलेषु अतिदेशमाह- ‘एवं खल्वि' त्यादि एवम्- उक्तेन प्रकारेण' खलु' निश्चितमेतेनोपायेन शनैः शनैस्तत्तदभ्यन्तरानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहूर्तगतौ-मुहूर्तगतिपरिमाणे अष्टादश अष्टा षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किश्चिदूनानिर्वेष्टयन् २-हापयन् २इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशभिर्योजनहीनत्वात्, पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः-पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां सातिरेकाणि पञ्चाशीतिः पञ्चाशीतिः योजनानि अभिवर्द्धयन् अभिवर्द्धयन्, इदंच सर्वबाह्यान्मण्डलादक्तिनानि कतिपयानि प्रथमद्वितीयादिमण्डलान्यपेक्ष्य स्थूलत उक्तम्, परमार्थतः पुनरेवं द्रष्टव्यम्- इह येनैव क्रमेण सर्वाभ्यन्तरान्मण्डलात्परतो दृष्टिपथप्राप्ततां हापयन् विनिर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादक्तिनेषुमण्डलेषुदृष्टिपथप्राप्ततामभिवर्द्धयन् प्रविशति, 'तत्र सर्वबाह्यमण्डलाक्तिनद्वितीयमण्डलगतात्दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्यमण्डले पञ्चाशीतिर्योजनानि नवषष्टिभागान्, योजनस्य एकं [.
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy