SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल 1050- अभिधानराजेन्द्रः - भाग 7 सूरमण्डल ण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चार चरतितहा तन्मण्डलपदम् अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशचैकषष्टिभागा योजनस्य 100648-52/61 आयामविष्कम्भेन-आयामविष्कम्भाभ्यां तथाहि-पूर्वस्मान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेकं योजनशतसहस्रं षट् शतानि चतुष्पञ्चाशदधिकानि षट्विंशतिश्चैकषष्टिभागा योजनस्येत्येवंरूपात्पञ्च योजनानि पञ्चत्रिंशबैकषष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिकं-३१८२७६ परिक्षेपतः प्रक्षिप्तं, तथाहि-प्राक्तनमण्डलादिदं मण्डलं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागेयोजनस्य विष्कम्भतोहीनं, पञ्चानां योजनानां, पञ्चत्रिंशतश्चैकषष्टिभागानां परिरयपरिमाणं व्यवहारोऽष्टादश योजनानि, ततस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, 'दिवसराई तहेव' त्ति-दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्- 'तया णं अट्ठारसमुहत्ता राई भवइचउहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहत्तेहि अहिए' इति, ‘एवं खलु' इत्यादि एतत्सूत्रं प्रागुक्तव्याख्यानुसारेण स्वयं परिभावनीयं, नवरं 'निव्वड्डेमाणे' इति निर्वेष्टयन् निर्वेष्टयन् हाप्रयन् हापयन्नित्यर्थः, 'ता जया ण' मित्यादि सुगमम्, अधुना प्रस्तुतवक्तव्यतापसहारमाह-'ता सव्वा विण' मित्यादि, ततः सर्वाण्यपि मण्डलपदानि प्रत्येकं बाहल्येनाष्टा-चत्वारिंशदकेषष्टिभागा योजनस्य, उपलक्षणमेतत्, अनियता-निचायामविष्कम्भपरिधिभिः तथा सर्वाण्यपि च मण्डलान्तरकाणि-मण्डलान्तराणि, सूत्र स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजन अष्टचत्वारिंशचैकषष्टिभागा योजनस्येत्येवंरूपो, णमिति वाक्यालङ्कारे अध्वापन्थास्त्र्य-शीत्यधिकशतप्रत्युत्पन्नः--त्र्यशीत्यधिकेनशतेन गुणितः सन् पञ्चदशात्तराणि योजनशतान्याख्याता इति, वदेत्, तथाहि-द्वे योजने त्र्यशीत्यधिकेन शतेन गुण्येते जातानि त्रीणि शतानि षट्षष्ट्यविकानि 366, येऽपि च अष्ट-चत्वारिंशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकानि शतेन गुण्यन्ते जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि 8784, तेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धं चतुश्चत्वारिंशं योजनशतम् 144, तत् पूर्वराशौ प्रक्षिप्यते, जातानि पञ्च शतानि दशोत्तराणि 510, अस्यैवार्थस्य व्यक्तीकरणार्थं भूयः प्रश्नसूत्रमाह-- 'ता अभितराओ' इत्यादि, 'ता' इति तत्र अभ्यन्तरात-सर्वाभ्यन्तरान्मण्डलपदात् परतो यावद्वाह्य- सर्वबाह्यं मण्डलपदं बाह्याद्वासर्वबाह्याद्वा मण्डलपदादाक्यावत्सवाभ्यन्तरं मण्डलपदमेष एतावान् अध्वाकियान्-- कियत्प्रमाण आख्यात इति वदेत् ? एकमुक्ते गौतमेन भगवानाह. 'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि | आख्यात इति वदेत् ? स्वशिष्येभ्यः पञ्चदशोत्तरयोजनशतभावना प्रागुक्तानुसारेण स्वयं परिभावनीया, अभितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्ल-पदादारभ्य यावद् बाह्य-सर्वबाह्य मण्डलपदं, यदिवा-बाह्येन सर्वबाह्येन मण्डलपदेन सर्वबाह्यान्मण्डलपदादारभ्ययावत्सर्वाभ्यन्तरंमण्डलम्एष एतावान् अध्वा कियानाख्यात इति वदेत् ? भगवानाह- 'ता पंचे' त्यादि स एतावान् अध्वा पञ्चदशोत्तराणि योजनशतान्यष्टा-चत्वारिंशचैकषष्टिभागा योजनस्येत्याख्यात इति वदेत, पूर्वस्मादध्वपरिमाणात् एतस्याध्वपरिमाणस्य सर्वबाह्यमण्डलगतन बाहल्यपरिमाणेनाधिकत्वात्, "ता अभितरे' त्यादि, ता इति अभ्यन्तरान्मण्डलपदात्परतो बाह्यमण्डलपदात्सर्वबाह्यमण्डलादाक्यद्वा बाह्यमण्डलपदादाक् अभ्यन्तरमण्डलात्परत एष अध्वा कियानाख्यातं इति वदेत् ? भगवानाह- 'ता पंचे' त्यादि, पञ्चयोजनशतानिनवोत्तराणि त्रयोदश चैकषष्टिभागायोजनस्य आख्यात इति वदत्, पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसर्वबाह्यमण्डलगतबाहल्य परिमाणेन पञ्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेण हीनत्वात्, तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबाह्य मण्डलं सर्व-बाह्यादा मण्डलादक्ि यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वा-भ्यन्तरसर्वबाह्यमण्डलाभ्यां सह तथा सर्वाभ्यन्तरसर्व-बाह्यमण्डलाभ्यां बिना यावदध्वपरिमाणं भवति तावन्निरूपितम्, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो बाह्यमण्डलादाक्, यदिवासर्वबाह्यमण्डलेन सह सर्व-बाह्यमण्डलादर्वाक् सर्वाभ्यन्तरान्मण्डलात्परता यावदध्वपरिमाणं भवति तावन्निरूपयति- 'अभितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः, सर्वबाह्यान्मण्डलादर्वागिति गम्यते, यदिवा-सर्वबाह्येन मण्डलपदेन सह सर्वबाह्यान्मण्डलादर्वाक् सर्वाभ्यन्तरान्म-ण्डलात्परत इतिगम्यते, याऽध्दा एषणमिति वाक्यालङ्कारे अध्वा कियानाख्यात इति वदेत् ? भगवानाह- 'ता' इत्यादि, तावानध्वा पञ्चाशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते / सू० प्र०८ पाहु०। यथा 'मण्डले मण्डले प्रतिमुहूर्त गतिर्वक्तव्ये' ति, ततस्तद्विषयं प्रश्नसूत्रमाह ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिता तिवदेज्जा ? तत्थ खलु इमातो चत्तारिपडिवत्तीओ पण्णत्ताओ, तत्थ एगे एवमाहंसु -- ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु ? एगे पुण एवमाहंसुता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ता चत्तारि चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु 3, एगे पुण एवमाहंसु-ता छवि पंच वि चत्तारि वि जोयणसहस्साइंसूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु 5, तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साई सूरिए -
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy