SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ सूयग 1027 - अभिधानराजेन्द्रः - भाग 7 सूयगड गो," आ० म०१ अ० / सूयगर्भद इति प्रसिद्ध तृणविशेषे, प्रव०६० द्वार / जायमयसूयगाई निजूढा'' इत्यादिसूतकशब्दः प्रत्येकं सम्बद्ध्यते, जातकसूतकं नाम जन्मानन्तरं दशाहानि यावत्, मृतसूतकं मृतान्तरं दश दिवसान्यावत्तत्र यद्वयं तद् द्विधा- 'लोग' त्ति लौकिकम्, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा-इत्वरम्, यावत्कथिकं च। तत्रेत्वरम्यत्सूकं मृतकादि, तथाहि--लोके सूतकादि दश दिवसान् यावद्वय॑त इति, यावत्कथिकं च-वरुडछिम्पकचर्मकारडोम्बादि, एतान्यक्षरादि व्यवहारसूत्रवृत्तौ सन्तीत्युक्वा सूतकगृहं दश दिवसान्यावत्खरतरास्त्यजन्तः सन्ति, प्रश्नोत्तरग्रन्थे तु दशदिननिर्बन्धो ज्ञातो नास्ति इत्युक्तमस्ति, तत्कथमिति? प्रश्नः, अत्रोत्तरम्- व्यवहारसूत्रवृत्तौ सूतकविषये यद्दशदिनवर्जनं तद्देशविशेषपरत्वेन, ततो यत्र देशे सूतकविषये यावानबधिस्तावन्ति दिनानि वर्जनीयानि, तन प्रश्नोत्तरग्रन्थेन सह न कोऽपि विरोध इति।।२९०॥ सूतकगृहं साधव आहारार्थ यान्ति नवेति ? प्रश्नः अत्रोत्तरम् यत्र देशे सूतकगृहे यावद्भिर्वासाह्मणादयो भिक्षार्थं व्रजन्ति तत्रास्माभिरपि तथा विधेयमिति वृद्धव्यवहारः / / 201 // सने० 3 उल्ला०। 'जायमयसूयगाइसुनिज्जूढा' सूतशब्दः प्रत्येकमभिसम्बध्यते जातसूतकं नाम जन्मान्तर दशाहानि यावत् मृतकसूतकं नाम मृतानन्तरं दश दिवसान् यावत् तत्र जातकसूतके वा आदिशब्दात्तदन्येषु तथाविधेषु शूद्रगृहादिषु ये कृतभोजनाः सन्तो धिग्जातीयैर्नियूँढा असंभाष्याः कृता इति। व्य०१ उ० / उत्त० / पा०। सूचक-पुं०पिशुने, पिशुनं सूचकं विदुरिति वचनात्, आव० 4 अ०। प्रश्न० / राज्ञां सूचनाकारके, ये सामन्तराज्येषु गत्वा अन्तः पुरपालकैः सह मैत्री कृत्वा यत्तत्र रहस्यं तत्सर्व जानन्ति पश्चादनुसूचकेभ्यः कथयन्ति / व्य०१ उ०। सूयगड-न०(सूत्रकृत) प्रवचनपुरुषस्य द्वितीयऽङ्गे, नं०। 'सूच' पैशून्ये सूचनात्सूत्रम, निपातनाद्रूपनिष्पत्तिरिति भावप्रधानश्चायं सूत्रशब्दः, ततोऽयमर्थः-सूत्रेण कृतं सूत्ररूपतया कृतमित्यर्थः, यद्यपि च सर्वमङ्ग सूत्ररूपतया कृतं तथापि रूढिवशादेतदेव सूत्रकृतमुच्यते, न शेषमङ्गम् / नं०। (सूत्रस्य करणस्य च निक्षेपौ स्वस्वस्थाने उक्तौ / ) लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्वमवसेयम्, इह तु सूत्रकृतस्य तावत् स्वसमयेन शुभाध्यवसायेन च प्रकृतं यस्माद्धरैः शुभध्यानावस्थितैरिदमङ्गं कृतमिति। सूत्रकृतपर्यायाःसूयगडं अंगाणं, बितियं तस्स य इमाणि नामाणि। सूयगाडं सुत्तकाडं,सू (या) यगडं चेव गोणाईसा सूत्रकृतमिति-एतदङ्गानां द्वितीयं तस्य चामून्येकार्थिकानि, तद्यथासूत्रमुत्पन्नमर्थरूपतया तीर्थकृभ्यः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति तथा सूचाकृतमिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन् कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति। सूत्र० 1 श्रु०१ अ०१उ०। (सूत्रकृतनिरुकव्याख्या 'करण' शब्दे तृतीयभागे 36 पृष्ठे गता।) इहानन्तरसूत्रकृतस्य निरुक्तमुक्तमधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽहसुत्तेण सुत्तिया चिय, अत्था तह सूइया य जुत्ताय। तो बहुविहप्पउत्ता, एयपसिद्धा अणादीया।।२१।। 'सुत्तेणे' त्यादि, अर्थस्य सूचनात्सूत्रम्,- तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता मुख्यतयोपात्तास्तथा परे सूचिता अपित्त्याक्षिप्ताः साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति। एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तम्-"अक्खरलंभेण समा, ऊणऽहिया हुंति मतिविसेसेहिं / ते वि य मई विसेसा, सुयणाणभंतरे जाण // 1 // " तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थ वेत्ति अपरोऽसंख्येयभागाधिकम्, अन्यः संख्येयभागाधिकम्, तथाऽन्यः, संख्येयासंख्येयानन्तगुणमिति,तेच सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव बेदितव्याः, तथा चाभिहितम्, 'ते विय मईविसेसे' इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदांषट्स्थानपतितत्वमुधुष्यते बाद विद्यन्ते यतोऽभिहितं"पण्णवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं / पण्णबणिज्जाणं पुण, अणंतभागो सुयणिबद्धो।।१।।" यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः, सूत्रैरुपात्ताः केचन साक्षात् केचिदात्या समुपलभ्यन्ते। यदि वा- क्वचिद्देशग्रहणं क्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदस्तेऽर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक्रर्षण सिद्धानि प्रसिद्धानि न साधनीयानि, तथा अनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रतितीर्थकर क्रियते अन्यथा तु नित्यैव, एतेन चोचरितप्रध्वंसिनो वर्णा इत्येतन्निराकृतं वेदितव्यमिति। साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाहदो चेव सुयकखंधा, अज्झयणाइंच हुंति तेवीसं। तेत्तिसुद्देसणकाला, आयाराओ दुगुणमंग // 22 // 'दो चेवे' त्यादि, दावत्र श्रुतस्कन्धौ त्रयोविंशतिरध्ययनानि त्रयस्त्रिंशदुद्देशनकालास्ते चैवं भवन्ति-प्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयो द्वौ तथैकादशस्वेक-सरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे।तथा-द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकाला एवमेते सर्वेऽपि त्रयस्त्रिंशदिति। एतचाचाराङ्गात् द्विगुणमङ्ग षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः। सूत्र०१श्रु०१०। सूत्रकृतःतवीसं सूयगडज्झयणा पण्णत्ता, तं जहा-समए वेयालिए उवसग्गपरिण्णा त्थीपरिण्णा नरयविभत्ती महावीरथुई कुसीलपरिभासए वीरिए धम्मे समाहिमो समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा आहारपरिण्णा अपचक्खाणकिरिया अणगारसुयं अद्दइजंणालंदद्दजं। (सू० 234)
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy