________________ सुय ९७७-अभिधानराजेन्द्रः - भाग 7 सुय अथ श्रुतस्यैकार्थिकनामान्याहसुत-सुत्त-गंथ-सिद्धतं-सासणे-आण वयण-उवएसो। पण्णवण आगमो विय, एगहापजया सुत्ते / / 864|| एतेषां च नानामर्थः प्रागतिदेशेनोक्त एवेति। तदेवं विहितः श्रुतस्यापि नामादिन्यासः। विशे०। उत्त०। आ०म०। स्था०।दशबृ०। सूत्र०। (श्रुतैकार्थिकानां व्याख्या स्वस्वस्थाने।) श्रुतज्ञानस्य अनन्ता भेदाःकत्तो मे वण्णे, सत्ती सुयनाणसव्वपयडीओ? चोद्दसविहनिक्खेवं, सुयनाणे आवि वोच्छामि[vell कुतो मे शक्तिः सामार्थ्यम् ? नास्त्येवेत्यर्थः। किं कर्तुं ? वर्णयितुम् / काः? श्रुतज्ञानसर्वप्रकृतीः सस्तिद्भेदान् / ततश्चतुदर्शशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो-न्यासस्तं वक्ष्यामि-भणिष्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात्-श्रुताज्ञानविषयंच, अपिशब्दाद्-उभयविषयं च / तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभ्यश्रुते दर्शनपरिग्रहविशेषादक्षराऽनक्षरादिश्रुते। इति नियुक्तिगाथार्थः। अथैतद्भाष्यम्पयडि त्ति जो तदंसो, हेऊ वा तस्स तस्स भावो वा। ते याणंता सव्वे, तओन तीरंति वोत्तुं जे // 50 // इह प्रकृतिरिति किमुच्यते ? इत्याह-यस्तदंशः - श्रुतज्ञानांशस्तवेदोऽङ्गप्रविष्टादिरित्यर्थः / हेतुर्वा बाह्याऽऽभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स प्रकृतिः / तत्र बाह्यो हेतुः श्रुतज्ञानस्य पत्रलिखिताक्षरादिः, आन्तरस्तुतद्धेतुः क्षयोपशमवैचित्र्यम्, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः प्रोच्यते / एते चांशाः, हेतवः, स्वभावाश्चाऽनन्ताः सर्वेऽपि; अत आयुषः परिमितत्वाद्वाचश्च क्रमवर्तित्वात्नशक्यन्तेवतुम्। 'जे इतिनिपाताडलङ्कारार्थ इति। एतदेव भावयतिजावंतो वयणपहा, सुयाणुसारेण केइ लभंति। ते सव्वे सुयनाणं, ते याणंता मइविसेसा / / 451 // इह यावन्तः केचन श्रुतानुसारेण संकेताः श्रुतग्रन्थानुसारेण लभ्यनते-- प्राप्यन्ते वचनस्य पन्थानोमार्गा मतिज्ञानविशेषा इति तात्पर्यम्, ते सर्वेऽपि श्रुतज्ञानमिति। एवं 'ते वि य मइविसेसा सुयनाणभंतरे जाण' इत्यादिमतिश्रुतभेदविचारे पूर्व प्रतिपादिताः, तेच श्रुतानुसारिणो मतिविशेषा अनन्ता इति। ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् ? इतितुन प्रेर्यम्, श्रुतानुसारिणो विशिष्टस्य मतिविशेषस्यैव श्रुतत्वात् / एतच्च पूर्व विस्तरेण समर्थितमेवेति। यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाहउकोससुयन्नाणी, वि जाणमाणो वितेऽभिलप्पे वि। न तरइ सव्वे वोत्तुं, न पहुप्पइ जेण कालो से ||552|| उकृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जानन्नपि, अभिलप्यानपि तानृ श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्रोति कुतः? इत्याह-येन कारणेन 'से' तस्योत्कृष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति-न पूर्यते, आयुषः परिमितत्वात्, वाचश्च क्रमवर्तित्वात्।यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्रोति, तदाऽन्यस्याऽस्मददिः का वार्ता ? इति भावः / विशे०। श्रुतज्ञानस्य अनन्ता भेदाःश्रुतज्ञानं पुनर्भवति मतिपूर्व मतिकारकं श्रुतज्ञानं हि वाच्यवाचकभावेन शब्दप्लावितस्यार्थस्य ग्रहणं वाच्यवाचकभावेन चशब्दः प्रवर्तते मत्यवधारितेऽर्थे इति, तत्पुनः श्रुतज्ञानं सर्वमपि मूलभेदापेक्षया द्विविधम्, तद्यथा- स्वमतिसमुत्थं, परोपपदेशाद्वा; परोपदेशसमुत्थं चेत्यर्थः, तत्र स्वमतिसमुत्थं प्रत्येकबुद्धानां पदानुसारिप्रज्ञानां वा। परोपदेशसमुत्थमस्मदादीनाम्। तत्कतिविधमिति तद्भेदप्रदर्शनार्थमाह / बृ०१उ०१प्रक०। 'चोद्दसविहनिक्खेव' इत्याद्युत्तरार्ध व्याचिख्यासुराहनाणम्मि सुए चोहस-विहं चसद्देण तह य अन्नाणे। अविसहेणुभयम्मि वि, किंचि जहासंभवं वोच्छं॥४५३|| सम्यक्श्रुतादौ श्रुतज्ञाने चतुर्थशविधं निपेक्षं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपेचदर्शनपरिग्रह-विशेषादक्षराऽनक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये। इतिगाथार्थः / तमेव चतुर्दशविधं निक्षेपमाहअक्खर सण्णी सम्म, साईयं खलु सपज्जवसियं च / गमियं अंगपविहं, सत्त वि एएसपडिवक्खा।।४५४|| अक्षरादीनि सप्त द्वाराण्यनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति। विशे०। सकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयति से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोहसविहं पन्नत्तं,तं जहा-अक्खरसुयं 1 अणक्खरसुयं 2 सण्णिसुअं३ असण्णिसुअं४ सम्मसुअं५ मिच्छसुअं६ साइअं७ अणाइअं 8 सपञ्जवसिअं अपञ्जवसि 10 गमिअं 11 अगमिअं१२ अंगपविढे 13 अणंगपविट्ठ 15 / (सू०३७) अथ किंतच्छुतज्ञानम् ? आचार्य आह-श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तम्, तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संजिश्रुतमसंज्ञिश्रुतंसम्यश्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं गमिकमगमिकमङ्गप्रविष्ट - मनङ्ग प्रविष्टं च / ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवन्तितत्किमर्थं तेषां भेदोपन्यासः? उच्यते-इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्या-समात्रादव्युत्पन्नमतयः शेषभेदोपन्यास इति। नं०। (अक्षरश्रुतादिपदानां व्याख्या स्वस्वस्थाने।)