SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ वसहि 971 - अभिधानराजेन्द्रः - भाग 6 वसहि गीतार्थस्या सूत्रंतुपुनः गीतार्थविषयं द्रष्टव्यमिति वाक्यशेषः। वृ०२० / (अथ राशीकृतादिपदानां व्याख्यानं 'रासि' शब्देऽस्मिन्नेव भागे गतम्।) अतःअगीयस्सन कप्पइ, तिविहं जयणं तु सो न जाणाइ। अण्णुण्णाए जयणं, सपक्खपरपक्खजयणं च ||4|| अगीतार्थस्य प्रस्तुतसूत्रविषयभूतं वस्तुंन कल्पते, यतोऽसौ त्रिविधां यतनांनजानीते। तद्यथा-अनुज्ञापनायतनाम्, स्वपक्षयतनाम, परपक्षयतनां चेति। तिस्रोऽप्येता वक्ष्यमाणस्वरूपाः। परः प्राह-अगीतार्थेनापि तावत्सूत्रमधीतम्, अतः कथमसौ न जानीते ? उच्यते--इह सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्य-सहायकादेवोपजायते, नयथाकथंचिद्, उक्तं च- "सत्स्वपि फलेषु यद्वन्, न ददाति फलान्यकम्पितो वृक्षः। तद्वत्सूत्रमबुद्धेरकम्पितं नार्थवद्भवति॥१॥"। इहमेवाहनिउणो खलु सुत्तत्थो, ण हुसको अपडिबोधितो णाउं। ते सुणह तत्थ दोसे,जे तेसि तर्हि वसंताणं ||5|| निपुणः--सूक्ष्मःखलु सूत्रस्यार्थो भवति, अतएव नशास्त्रस्य वाऽऽचार्यणाप्रतिबोधितः सम्यग् परिज्ञातम्, अतोगीतार्थः सूत्रमात्रेण पठितेन न यतनामवबुध्यते अथ तेषामगीतार्थाना तत्र बीजाकीर्णोपाश्रये वसतां ये दोषा भवन्ति तान् शृणुत। अॅगीयत्था खलु साहू-णवरि दोसे गुणे अजाणंता। रमणिअभिक्खगामो, ठायंतऽह धण्णसालाए।।४६|| अगीतार्थाः खलु केचन साधवः साधुक्रियासु यताः नवरं केवलं सदोषाया निर्दोषाया वा वसतेरनुज्ञापने दोषान् गुणान् अजानन्तः क्वापि ग्रामे भैक्षं प्रभूतं लब्ध्वा भिक्षया रमणीयोऽयं ग्राम इति कृत्वा अथानन्तरं धान्यशालायां तिष्ठति। इदमेव स्पष्टतरमाहरमणिज्ज भिक्खगामी, ठायामो तहेव वसहिझोसेहि। धण्णधराणुण्णवणा, जति रक्खह देसु तो भंते // 47 // कश्चिदगाताथः गच्छे ग्रामानुग्रामिकं विरहन् कमाप ग्रामं संप्राप्तः। तत्र बहिः-देवकुलादौ स्थित्वा भिक्षार्थं पर्यटन प्रभूतमिष्टं भैक्षं लब्धदान, ततस्तैः साधुभिः परस्परमुक्त रमणीयोऽयं ग्रामः, अत इहैव मासकल्प तिष्ठामः। परं वसतिरद्यापिनगवेषितो, अतस्तं'झोसेहि त्ति देशीवचनत्वाद्वेषयत। ततस्तैर्वसतिं प्रत्युपेक्षमाणैः कस्याप्यगारिणो धान्यगृहं दृष्टम् / ततस्तस्यानुज्ञापना कृता / गृहपतिःप्राह-यदि तदन्तर्मदीयं धान्यगृहं तस्करगवादिभिरपह्रियमाणं रक्षत ततोऽहं प्रयच्छाम, नान्यथा। अपिच• वसही रक्खणविग्गा, कम्मं न करेमों व पवसामो। णिटिवतो होहि तुम, अम्हे रत्तिं पि जग्गामो॥४८|| वयमस्या वसतेन्यिशालारूपाया रक्षणे विग्नाः सन्तः कृष्यादिकं | कर्मापि न कुर्महे, न च सुहृदादिभिरामन्त्रिताः क्वापि विवाहादौ कार्ये ग्रामान्तरे प्रवसामः। ततस्ते अगीतार्था वसत्यनुज्ञापनाविधिमजानन्तो ब्रुवन्ति, निश्चिन्तस्त्वमत्रार्थे भव, वयं रात्रिमपि प्रहरकेण जागरिष्यामः। जोतिसणिमित्तमादी, छंदं गणियं च अम्ह साधेत्था। अक्खरमादी डिंभे,गाधिस्स व अजतणा सुणणा ||46 // ज्योतिषनिमित्तम्, आदिशब्दादन्यदपि गन्धर्वविद्यादिकम्, तथा छन्दःशास्त्रम्, गणितशास्त्र वा यद्यस्माकं कथयिष्यथ / अक्षराणि वा-- लिपिविज्ञानम्, तत आदिशब्दाव्याकरणादिकं वा यद्यस्माकम्, डिम्भानिबालकानि ग्राहयिष्यथ, ततस्तिष्ठन्तु भवन्तः / इत्येवं वसतिस्वामिनोक्ते सति यदि ते अगीतार्थाः तत्प्रतिशृण्वन्ति, आमम् कथयिष्यामो ग्राहयिष्यामो वा इत्यनुमन्यन्ते, ततोऽनुज्ञापनया अयतना कृता भवति। तत्र चामी दोषाःअण्णुण्णवण अजतणा, एए सागारिए घरे चेव। तेसिं पियवीयत्तं,सागारियवज्जियं जातं // 10 // एवमयतना अनुज्ञापनया, तत्र तेषु स्थितेषु सागारिकश्चिन्तयति, एते साधवस्तावन्मदीयंधान्यगृह रक्षन्ति। अतः अस्मादहं स्वजनादिकार्येण गच्छामीति परिभाव्य कुत्रचिद्ग्रामादौ प्रवसति। प्रोषिते च तस्मिन् गृह एव वा निश्चिन्ततयाधान्यानांव्यापारमवहमाने तेषामपि संयतानां प्रीतिक भवति। साधुः सागारिकवर्जितं जातम्। अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टेतेसु ठिएसु पउत्थो, अत्यंतो वाऽविण वहती तत्तिं / जति वियपरिसितुकामो,तह वियण व एति अतिगंतुं // 11 // तेषु-संयतेषुस सागारिको निश्चिन्ततया प्रोषितो गृहे वा तिष्ठन् धान्यानां तप्तिं व्यापारं नवहति। यदा-धान्यंसंलाभयितुं यद्यप्यसौ तत्र प्रवेष्टकामः तथापि न गन्तुंन प्रवेष्टुं शक्नोति। कुत इति चेदुच्यतेसंथारएहि य तहिं, समंततो आमिकिण्ण विइकिण्णं / सागारितो ण एती, दोसे य तहिं ण जाणाति॥५२॥ संस्तारकैस्तत्रोपाश्रये समन्ततः आभिकीर्ण परिपाट्या प्रसृतैर्मालितम्, व्यतिकीर्ण तैरेवानुपूर्व्या प्रभूतैव्याप्तं दृष्ट्वा सागारिको नैति-न आगच्छति, ततो ये तत्र धान्यपरिशटनादयो दोषास्तानसौ नजानीते। गता अनुज्ञापनया अयतना। अथ संयतलक्षणविषयां यतनामाहते तत्थ सण्णिविट्ठा, गेहिय संथारगा जहिच्छाए। णाणादेसी साधू, कासइ चिंता समुप्पण्णा // 53 // ते अगीतास्तत्रापाश्रये सन्निविष्टाः-स्थिताः यदृच्छया च तैस्तत्र संस्तारका गृहीताः,नगणावच्छेदकेन, यथा रत्नादिकं प्रदत्ता इति भावः / नानादेशीयाश्च तत्र साधवस्तेषांमध्ये 'कासइत्ति कस्यचिच्छन्दधर्मणः चिन्ता समुत्पन्ना।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy