SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ वसहि 148 - अभिधानराजेन्द्रः - भाग 6 वसहि केन च सुसंवृते दुर्जनवर्जे -दुःशीलजनप्रवेशरहिते यदिलिङ्गकादि तत्र वसन्ति, स च भोजिको यदि प्रोषितस्तदा महत्तरकादिभिः-प्रधानपुरुषैस्तद्गृहं यदि सुगुप्तं सुरक्षितं भवति तव एवंविधे वंशीमूलगृहे तिष्ठन्ति। तस्सऽसति उडवियडे, वसंति कडगादिछायणं उवरि। तस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं // 21 // तस्य यथोक्तगुणोपेतस्य वंशीमूलगृहस्याभावे ऊर्ध्वं विवृतगृहे उपरि कटादिकं प्रक्षिप्य तिष्ठन्ति, आदिशब्दाद्-वस्त्रचिलिमिलिकया वाऽऽच्छादनं कुर्वन्ति। तस्याभावे पार्श्वविवृते इत्यर्थः, तत्र च किलिञ्चादि. भिश्चिलिमिलिकां कृत्वा पार्श्वतः प्रच्छादयेत्। अथ कटादयो न प्राप्यन्ते ततः प्रान्तवस्त्रैः-परिजीपणचीवरैः पावाणि छादयितव्यानि। विहं पवन्ना घणरुक्खहेट्ठा, - वसंति उस्सावनिरक्खणहा। तस्सासती अब्भगवासिए वि, सुवंति चिट्ठति व ओण्णिछन्ना॥२१६|| अथ विहम्-अध्वानं प्रपन्नास्ताःसंयत्यस्तत्र चाऽधो विवृतमपि गृहं न प्राप्यते ततो धनो-बहुलो निश्छिद्रो यो वृक्षो वटादिस्तस्या-धस्तादवश्यायस्य-अन्तरिक्षस्थस्याप्कायस्यावनेश्च सचित्त-पृथिवीकायस्य रक्षणार्थ वसन्ति, तस्याप्यभावे अभ्रावकाशकेऽप्याकाशे और्णिककल्पच्छन्नाः स्वपन्ति वा तिष्ठन्ति वा। (8) वर्षावासयोग्यां वसतिमाहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा असंजए भिक्खुपडियाए उदगप्पसूयाणि कंदाणिवामूलाणिवा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वाणिण्णक्खू तहप्पगारे उवस्सए अपुरिसंतरकडे०जाव णो ठाणं वा०३ चेइज्जा, अह पुण एवं जाणेजा पुरिसंतरकडं चेइज्जा / / (सू०-६५४) स भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं संक्रामयति बहिर्वा 'णिण्णक्खु' त्ति-निस्सारयति, तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति। आचा०२ श्रु०१ चू०४ अ०१उ०। अह पुण एवं जाणिज्जा नो रासिकडाई नो पुंजकडाइं नो भित्तिकडाइंनो कुलियकडाईकोहाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणिवामालाउत्ताणि वा ओलित्ताणि वा विलित्ताणि वा पिहियाणि वा लंछियाणि वा मुछियाणि वा कप्पइ निग्गन्थाण वा निग्गंथीण वा वासावासंवत्थए / |3|| अथ पुनरेवं जानीयात् नो राशीकृतानि नो भित्तिकृतानि नो कुलियाकृतानि कोष्ठागुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा लिप्तानि वा पिहितानि वा लाञ्छितानि वा मुद्रितानि वा तत्र कोष्ठेकुसूले आगुप्तानि प्रक्षिप्तानि रक्षितानि कोष्ठागुप्तानि एवमुत्तरत्रापि भावनीयम्, नवरं प्रलम्बं शकटकादिकृतो धान्य-राशिविशेषः, मञ्चः-- स्थूणानामुपरिस्थापितवंशकटकादिमयो लोकप्रसिद्धः मालकोगृहस्योपरितनो भागः अवलिप्तानि-द्वारदेशे पिधानेन सह गोयमादिना कृतलेपानि लिप्सानि-मृत्तिकया सर्वतः खरण्टितानि पिहितानि स्थगितानि लाञ्छितानिरेखाक्षरादिभिः कृतलाञ्छनानि मुद्रितानिमृत्तिकादिमुद्रायुक्तानि एवंविधेषुधान्येषुन कल्पते निर्ग्रन्थानां वा वर्षावासं वस्तुमिति सूत्रार्थः / अथ भाष्यम्कोहाउत्ता य जहिं, पल्ले माले तहेव मंचे य। उलित्तपिहियमुद्विय, एरिसएणकप्पती वासो॥१०२।। यत्रोपाश्रये कोष्ठागुप्तानि पल्लयागुप्तानि मालागुप्तानि मञ्चागुप्तानि अवलिप्तानि पिहितानि मुद्रितानि उपलक्षणत्वालिप्तानि लाञ्छितानि वाधान्यानिसंभवन्ति ईदृशे न कल्पते वासः। अथ सूत्रस्यैव विषमपदानि व्याचष्टेछगणादी ओलित्ता, लित्ता मट्टियकता तु ते चेव। कोट्ठियमादी पिहिता, लित्ता वा पल्लकडपल्ला॥१०३|| ओलिंपिऊण जहि अ-क्खए कया लंछियं तयं विति। जहियं मुद्दा पडिया, होति तगं मुद्दियं धण्णं / / 104 // द्वारदेशे छगणादिना लिप्तानि-अवलिप्तानि यानि तु मृत्तिकया खरण्टितानि तानि लिप्तानि कोष्ठकादीनि, यानि द्वारदेशे स्थगितानि तानि पिहितानि, पल्यकटपल्यानि तु लिप्तानि भवन्ति / इह पल्यकटपल्यमुच्चतरं भवतीति विशेषः / अवलिप्य यत्र धान्ये अक्षराणि कृतानि तल्लाञ्छितमिति ब्रुवते, यत्र तु धान्ये मुद्रा पतिता तन्मुद्रितं भवति / उडुबद्धम्मि अतीए, वासावासे उवहिते संते। ठायंतगाण लहुगा, कासअगीअत्थसुत्तं तु।।१०।। ऋतुबद्ध काले अतीते वर्षावासे उपस्थिते सति यदि कोष्ठागुप्तादिधान्ययुक्त प्रतिश्रये तिष्ठन्ति तदा चतुर्लघवः, कस्य पुनरेतत्प्रायश्चित्तम् ? सूरिराह-अगीतार्थस्य सूत्रं तु कल्पते कोष्ठागुप्तादिधान्येषु वर्षावासे वस्तुमिति लक्षणं गीतार्थविषयं मन्तव्यमिति वाक्यशेषः। इत ऊर्ध्वम् - "णत्थि०" इत्यादिकाः गाथापूर्वोक्ताः एतावदध्येतव्याः यावत् "तत्तत्थ०णाणा देसी०" इति / कीदृशी पुनरिच्छा तस्य समुद्भूतेत्युच्यतेअणुभूता धन्नरसा, नवरं मोत्तूण गंधसालीणं। काहामि कोउहल्लं, थेरी पउरं घणं भणियं / / 110 / / अनुभूतास्तावत् सर्वेषामपि धान्यानां रसाः, नवरं गन्धशालीनां रसं मुक्त्वा ते अद्यापि नास्वादिता इति भावः / अतः करिष्यामि-पूरयिष्यामि कौतूहलमिति विचिन्त्य तेन कोष्ठपल्ल्यादिशालीनाकृष्य स्थविराया अग्रे प्रचुरं धान्यपाकं कुरुष्वेति वचो भणितम् / इदमेव स्पष्टयतिइहरा कहासु सुणिमो,इमे हु ते कलमसालिणो सुरभी। णस्थि अगीतत्थो वा,गीयो वा कोऽपि वण्णिओ सुत्ते। जा पुण एगागुपणा, सा सेच्छा कारणं किंवा / / 106 / / एयारिसम्मि वासो, ण कप्पति जति वि सुत्तऽणुण्णाओ। अव्वोगडो तुभणितो आयरिउ उवेहती अत्थं // 107|| जंजह सुत्ते भणितं, तथेवं जंजति विआलणा णत्थि।। किंकालियाणुयोगो, दिह्रो दिठ्ठिप्पहाणेहिं॥१०८।। (ताओचेवगाहाओ)जावतेतत्थ सणि-गहिता संथारगाजहिच्छाए। णाणादेसी साधू, कासइइच्छा समुप्पण्णा ! 106 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy