________________ वसहि 945 - अमिधानराजेन्द्रः - भाग 6 वसहि अह पुण एवं जाणेज्जा णो उक्खिन्नाइं० 4 रासिकडाणि वा पुंजकडाणि वा कुलियकडाणि वा मितिकडाणि वा लंछियाणि वा मुद्रियाणि वा पिहियाणि वा कप्पइ निगन्थाण वा निगन्थीण वा हेमंतगिम्हासु वत्थए। अस्य व्याख्या प्राग्वत्, नवरं यत्र पिण्डादीनि राशीकृतादिरूपाणि तत्र गीतार्थानां कल्पते ऋतुबद्ध स्तुमिति सूत्रदयम्। अत्र 'पुंजो उ होइ बद्धो, सो चेव वईसि आयओ रासी' इत्यादि भाष्यगाथा-पिण्डाद्यभिलापेन प्राग्वन्मन्तव्यम्, यावत्-'का सा य इच्छा समुप्पन्ने' त्ति। __कीदृशी पुनरिच्छा समुत्पन्नेत्युच्यतेअणुभूया पिंडरसा, नवरं मुत्तूणमेसि पिंडाणं। . काहामो कोउहलं, तहेव सेसा वि भणियव्वा // 187 / / अनुभूतास्तावदन्येषां पिण्डानां रसाः, नवरमेतेषां पिण्डानां रसान् मुक्त्वा अतः करिष्यामः-पूरयिष्यामः कौतूहलमिति विचिन्त्य प्रसुप्तेष्वशेषसाधुषु तानि भोज्यानि भुङ्क्ते, शेषाण्यपि क्षीरादीनि 'अनुभूया खाररसा' इत्याधभिलापेन तथैव भणित-व्यानि यावत् द्वितीयपदे तत्रापि प्रतिश्रयेऽपि स्थिताः अगीतार्थाः साधुषु भिक्षाचर्यादिनिर्गतेषु सूरयः सागारिकमित्थं ब्रुवते। तेल्लगुलखंडमच्छं-डियाण महुपाणसकराईणं / दिट्ठ मए संनिचया, अन्ने देसे कुटुंबीणं ||18|| तैलगुडखण्डमत्स्यण्डिकानां मधुपानशर्करादीनां संनिचया अन्यस्मिन् | देशे कुटुम्बिनां गेहेषु दृष्टाः। शेषं सर्वमपि पिण्डाभिलापेन प्राग्वदवसातव्यम्। अह पुण एवं जाणिज्जा नो रासिकडाइं०जाव नो भित्तिकडाई कोहाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा कुंभिउत्ताणि वा करभिउत्ताणि वा ओलित्ताणि वा विलित्ताणि वालंछियाणि वा मुद्रियाणि वा पिहियाणि वा कप्पइ निग्गंथाण वा निग्गन्थीण वा वासावासं वत्थए।॥१०॥ अस्य व्याख्या प्राग्वन्नवरं कुम्भी-मुखाकारा कोष्ठिका,करभीघटसंस्थानसंस्थिता तयोरागुप्तानि प्रक्षिप्य रक्षितानि कुम्भ्यागुप्तानि वा। अस्य भाष्यम्कुंभीकरहीऍ तहा, पल्ले माले तहेव मंचे य। उल्लित्तपिहियमुद्दिय,एरिसए ण कप्पती वासो॥१८॥ यत्रोपश्रये कुम्भ्यां वा करभ्यां वा पल्ये वा माले वा चशब्दोक्तकोष्ठे वा प्रक्षिप्तानि पिण्डप्रभृतानि भवन्ति, तानि चावलिप्तानि पिहितानि मुद्रितानि वा भवेयुः ईदृशे न कल्पते वस्तुम्। तथा चाहउडुबद्धम्मि अतीते, वासावासे उवट्ठिए संते। ठांयंतगाण गुरुया, कस्स अगीतत्थसुत्तं तु / / 16 / / ऋतुबद्धे काले व्यतीते वर्षावासे चोपस्थिते यद्यपि सूत्रेण तत्रोपाश्रये स्थातुमनुज्ञातं तथापिन कल्पते, यदि तिष्ठन्ति ततश्चतुर्गुरुकाः। शिष्यः पृच्छात-कस्य पुनरेतत्प्रायश्चित्तम् / सूरिराह-अगीतार्थस्य / सूत्रं पुनः गीतार्थमधिकृत्य प्रवृत्तम् / शेष पिण्डाभिलापेन तथैव वक्तव्यम्। नो कप्पइ निग्गन्थीणं अहे आगमणगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अम्भावगासियंसि वा वत्थए।॥११॥ इह निर्ग्रन्थनिन्थीनां सामान्यतः सदोषा उपाश्रया उक्ताः / अथ केवलानामेव निर्ग्रन्थीनामभिधीयत इत्यनेन संबन्धेनायातस्यास्य व्याख्या अथशब्दः इहेति शब्दार्थे पथिकादीनामागमेनोपेतं तदर्थ वा गृहमागमनगृहम्, विवृतमनावृतं गृहं विवृतगृहम्, वंशीमूलं नाम गृहादहिः स्थितमलिन्दकादिकम्, वृक्षमूलं तु वृक्षेऽप्यसहकारादेर्मूलमधोभागः / अभावकाशमुच्यते एतेषु प्रतिश्रयेषु निर्ग्रन्थीनां वस्तुं न कल्पते इति सूत्रसंक्षेपार्थः॥११॥ अथ भाष्यविस्तारःआगमणे वियडगिहे, वंसीमूले य रक्खमम्मासे। . ठायंतगाण गुरुगा, तत्थ वि आणादिणो दोसा ||161 // आगमनगृहे विवृतगृहे वंशीमूले वृक्षमूले अभ्रावकाशे च तिष्ठन्तीनां निर्ग्रन्थीनां चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा मन्तव्याः। अथवाआगमगिहादिएसुं, मिक्खुणिमादीण ठायमाणीणं / गुरुगादी जा छेदो, विसेसितं चउगुरू तासिं // 192|| आगमनगृहादीनां भिक्षुण्यादीनां तिष्ठन्तीनां चतुर्गुरुकमादौ कृत्वा छेदं यावत्प्रायश्चित्तम्। तद्यथा-भिक्षुण्याश्चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्तिन्याः छेदः / यद्वा-आसां चतसृणामपि तपःकालविशेषितं चतुर्गुरुकं भवति / तत्र भिक्षुण्यास्तपसा कालेन लघुकम्, अभिषेकायाः कालेन गुरुकम्, गणावच्छेदिन्यास्तपसा गुरुकम्, प्रवर्तिन्यास्तपसा कालेन च गुरुकम्। अथागमनगृहं व्याचष्टेआगंतुऽगारत्थजणो जहिं तु, संठाति जं वा गमणम्मि तेसिं। तं आगमो गंतु विदू वदंति, सभाय वा देउलमादियं वा ||3|| आगन्तुकः पथिकादिरगारस्थजनो यत्रागत्य संतिष्ठते,यच तेषां पथिकादीनामागमने वर्तते तदागमौकः आगमनगृहं विद्वांसः-श्रुतधरा वदन्ति। तच्च सभा वा देवकुलादिकं वा मन्तव्यम्। तत्र तिष्ठन्तीनां दोषानाह। आगमणगिहे अजा, जणेण परिवारिया अणलेणं। दतुं कुलप्पसूता, संजमकामा विरजंति // 19 // आगमनगृहे स्थिता आर्या अनार्येण जनेन च परिवारित्ता दृष्ट्वा कुलप्रसूताः स्त्रियः संयमकामाः प्रव्रज्यां ग्रहीतुमनसो विरज्यन्ते।