________________ यवहारणय 633 - अभिधानराजेन्द्रः - भाग 6 ववहारणय किंचअन्नमणन्नं व मयं, सामन्नं जइ विसेसओऽणन्नं ! तम्मत्तमन्नमहवा, नऽत्थितयं निव्विसेसं ति।।२२१६|| विशेषेभ्यः सामान्यमन्यद् अनन्यद्वा मतं भवतः? यदि विशेषेभ्यस्तदनन्यद्-अभिन्नम्, तर्हि तन्मात्रं-विशेषमात्रमेव तदिति। अथान्यद्विविशेषेभ्यो भिन्न सामान्य तर्हि नास्त्येव तन्निविशेषत्वात् खरशृङ्गवदिति। यदुक्तम्-'"चूओ वणस्सइचिये'' त्यादि 10 तद्विपक्षमाहतह चूयाइविरहिओ, अन्नो को सो वणस्सई नाम। अवणस्सइ चिय तओ, घडोव्व चूयादभावाओ / / 2217 // तथा चूताऽऽदिविरहितः चूतनिम्बकदम्बजम्बूप्रभृतिविशेषेभ्योऽन्यः को नाम वनस्पतियः सामान्यत्वेन गीयते? अथास्ति चूताऽऽदिभ्योऽपरः कोऽपि वनस्पतिः। ननु यद्येवम्, तर्हि ततोऽन्यः कोऽसाववनस्पतिरेव चूताद्यभावरूपत्वाद्घटादिवदिति। तदेवं "वच्चइ विणिच्छियत्थं" (2183) इत्येतद्व्याख्यायो पसंहरन्नाहतो ववहारो गच्छइ, विणिच्छियं को वणस्सई चूओ। होम बउलाइरूवो, तह सव्वदव्वभेएसु // 2218|| ततस्तस्मादुक्तन्यानेन विचार्य विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयस्तं गच्छति-स्वीकरोति व्यवहारनयः। कथं विचार्य? इत्याहको नाम वनस्पतिर्भवेत्? इति चिन्तायां चूतो बकुलादिर्वाऽसौ भवेन्नतु तदतिरिक्तवृक्षत्वसामान्यम् / तथा तेनैव प्रकारेण सर्वेष्वपि द्रव्यभेदेषु वक्तव्यम्-गोतुरगरथादयो विशेषा एव गोत्वादिसामान्य न पुनरन्यदित्येवं सर्वत्र वाच्यमित्यर्थ इति। अथवा अन्यथा विनिश्चयशब्दार्थ व्याचिख्यासुराहअहिगो चओ त्ति वा नि-च्छओ त्ति सामन्नमस्स ववहारो। वचइ विणिच्छियत्थं,जाइ वि सामन्नभावं ति॥२२१६।। वा-अथवा अधिकश्चयो निश्चयः, यथा अधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् / अस्य सामान्यस्य व्यवहारनयो व्रजतियाति / किमर्थम्? विनिश्चयार्थम् / कोऽर्थः? विसामान्यभावविसामान्यभावार्थ तदभावाय यतत इत्यर्थः। अथवा-लोकव्यवहारो विनिश्चयस्तदर्थ व्रजति व्यवहार इति दर्शयतिभमराइ पंचवण्णाइँ, निच्छए जत्थ वा जणवयस्स। अत्थे विणिच्छओ सो, विणिच्छयत्थो त्ति सो गज्झो॥ बहुतरउत्तियतंचिय, गमेइ संते वि सेसए मुयए। सववहारपरतया, ववहारो लोगमिच्छंतो // 2221 / / वा-अथवा निश्चये-निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसाऽ-ष्टस्पर्शत्वे सत्यपि यत्र कृष्णवण्णादावर्थ जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति व्यवहारनय इति प्रकृतम्। कोऽर्थः? सत्स्वपि वर्ण-गन्ध-रस-स्पशेषु यो यत्र जनपदस्य ग्राह्यस्तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च / सतोऽपि शेषान् / वर्णादीन्मुञ्चति / कुतः? स एव बहुतरः स्पष्ट इति कृत्वा। किं कुर्वन्? लोकव्यवहारमिच्छन्, कया? व्यवहारपरतया-व्यवहारप्रधानतयेति / तदेवमभिहितो व्यवहार-नयः / विशे० / स्या०) द्रव्या० / आ०म० (व्यवहारनयव्याख्या 'णय' शब्दे चतुर्थभागे 1856 पृष्ठे गता।) व्यवहारं लक्षयतिउपचारेण बहुलो, विस्तृतार्थश्च लौकिकः। यो बोधो व्यवहाराख्यो, नयोऽयं लक्षितो बुधैः // 25|| 'सानारेणे ति उपचारेण-गौण्या वृत्त्या बहुलो बाहुल्येन व्यवहारकारी विस्तृतार्था-नानाव्यक्तिकशब्दसंकेतग्रहणप्रवणः, लौकिकः-शब्दतदुपजीविप्रमाणतिरिक्तप्रमाणपक्षपाती यो बोधः सोऽयं व्यवहाराख्यो नयः बुधैर्लक्षितः, उपचारबहुलाद्यध्यवसाय-वृत्तिनयत्वव्याप्यजातिमत्त्व लक्षणं तेन नाननुगम इत्यर्थः, "लौकिकसम उपचारप्रायो विस्तरतोर्थो व्यवहार'' इति तत्त्वार्थभाष्यमनुरुध्येत्थं लक्षितम् / 'वच्चइ विणिच्छिअत्थं, ववहारो सब्दव्वेसु त्ति नियुक्तिप्रतीकपर्यालोचनायां तु विनिश्चितार्थप्रापकत्वमस्य लक्षणं लभ्यते। विनिश्चितार्थप्राप्तिश्चास्य सामान्या न तूपगमे सति विशेषाभ्युपगमात्, अत एव विशेषेणावह्रियतेनिराक्रियते सामान्यमनेनेति (निरुक्) युक्त्युपपत्तिः। जलाहरणाधुपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, न तु सामान्यं तस्यार्थक्रियाऽहेतुत्वात, न हि गां बधानेत्युक्ते कश्चिद्गोत्वं बद्धमध्यवस्यत्यनुगतव्यवहारश्चानपोहादिनाऽप्युपपत्स्यते, अखण्डाभावनिवेशाच नाऽन्योन्याश्रयोऽस्तु वा सर्वत्र शब्दानुगमादेवानुगतत्वव्यवहारः, कारणत्वव्याप्त्यादावित्थमेवाभ्युपगमादित्यादिकं प्रपञ्चितमन्यत्र / उपचारबाहुल्यं विवृणोतिदह्यते गिरिरध्वाऽसौ, याति श्रवति कुण्डिका। इत्यादिरुपचारोऽस्मिन्, बाहुल्येनोपलभ्यते॥२६|| 'दह्यत' इति, असौ गिरिदह्यते, अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयो दग्धत्वप्रतीतिः प्रयोजनम् / असावध्वा याति, अत्राध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् / कुण्डिका स्रवतीत्यत्र कुण्डिकापदस्य कुण्डिकास्थ-जले लक्षणा, निविडत्वप्रतीतिः प्रयोजनम् ।सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्याभिदाध्यवसायात्माकव्यञ्जनामहिम्नाव्युत्पत्ति-ममिम्ना वेति विवेचितमन्यत्रेत्यादिरुपचारो गौणोऽस्मिन् व्यवहार-नये बाहुल्येनेतरनयापेक्षया भूम्नोपलभ्यते। विस्तृतार्थं विवृणोतिविस्तृतार्थो विशेषस्य, प्राधान्यादेष लौकिकः। पञ्चवर्णादिभृङ्गादौ, श्यामत्वादिविनिययात्॥२७॥ . "विस्तृतार्थ'' इति विशेषय प्राधान्यादेष विस्तृतार्थः, तत्प्राधान्यं च व्यक्तिष्वेवोपयुक्ततया संकेताश्रयणादिना बोध्यम्। तथा वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन पञ्चवर्णादिमतिभृङ्गादौश्यामत्वादेरेव विनिश्चयादेष लौकिकः / यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवपूर्णत्वमेवाङ्गीकरीति, तथाऽयमपीत्यस्यलोकिकसमत्वमितिनयविदः।न