SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ वत्थ 71 - अभिधानराजेन्द्रः - भाग 6 वत्थ सव्वो अदोसाय जहा व तस्स। विया व सस्सम्मिवसस्सियस्स, भंडस्स एवं परिकम्मणं तु // 25 // यथा यत्तस्य प्रयत्नपरस्य साधोराहानीहारादिविधिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपिछेदनादिकमेव यतनया क्रियमाणं निर्दोषं दृष्टव्यम्। दृष्टान्तमाह'विया य सस्सम्मि व सस्सियस्स' ति सस्थेन चरतीति सास्थिकःकृषीबलस्तद्-विषयं परिकर्मणं निन्दणनादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणः, तथाचोत्कम्-यद्वत्, सस्यहितार्थ सस्याकीर्णेऽपि विचरतः क्षेत्रोया भवति सस्यपीडा यत्नवतःसाऽल्पदोषाय तथा जीवहितार्थ जीवाकीर्णेऽपि वि चरतो लोके या भवति जीवपीडा यत्नवतः साऽल्पदोषाय। किंचअप्पेव सिद्धतमजाणमाणो, तं हिसयं भाससि जोगवंतं। दवेण भावेण य संविभत्ता, चत्तारि भनाखलु हिंसगत्ते / / 256|| अपीत्यभ्युचये। अस्त्यन्यदपि वक्तव्यमिति भावः / यदेव योगवन्तं-- वस्त्रच्छेदनादिव्यापारावन्तं जीवहिंसक त्वं भाषासि स्थापयसि सम्यक् सिद्धान्तमजानान एवं प्रलपसि, सिद्धान्ते योगमात्राप्रत्ययादेव हिंसोपवर्ण्यते / अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगमतामपि तद्भावात् / कथं तर्हि सा प्रवचनैः प्ररूप्यत-इत्याह, द्रव्येण भावेन च सुविभक्तश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति / तथाहि - द्रव्यतो नामैका हिंसानभावतः, भावतो नामैका हिंसा न द्रव्यतः, एका द्रव्यतोऽपि भावतोऽपि, एका न द्रव्यतो नापि भावतः। अथैनामेप यथाक्रमं भावनां कुर्वन्नाहआहब हिंसा समितस्स जाउ, सादध्वतो होति ण भावतो उ। भावे न हिंसा तु असंजतस्स, जं वाऽवि सत्तेण सदावचेति॥२५७।। संपत्ति तस्सेव जदा भविज्जा, __ सा दय्वहिंसा खलु भावतोय। अज्झत्थसुद्धस्स जदा ण होजा, वधे ण जोगो दुहतोऽप्यहिंसा॥२५८|| समितस्येर्यासमितावुपयुक्तस्य या तु आहन्च कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा / इयं च प्रमादयोगाभावात्तत्वतोऽहिंसैव मन्तव्या, 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे' ति वचनाद्भावेन भावतो वा हिंसा न तु द्रव्यतः, सा असंयतस्य-प्राणातिपातादेरनिवृत्तस्योपलक्षणत्वात् संयतस्य वा अनुपयुक्तगमनादि कुर्वतो यानपि सत्त्वानसौ सदैव नहन्ति तानप्याश्रित्य मन्तव्या। 'जे विजंति नियमा तेसिं पि हिंसओ सो उ' इति वचनात् तु तस्यैव प्राणिव्यपरोपणसंप्राप्तिर्भवति तदा सा द्रव्यतो हिंसा प्रतिपत्तव्या। यस्य पुनरात्मनः चेतः प्रणिधानेन शुद्ध-उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन-प्राणव्यपरोपणेनेह योगः-सम्बन्धो न भवति तदा द्विधाऽपि द्रव्यतो भावतोऽपि हिंसा न भवतीविभावः। तदेवं भगवत्प्रणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गाः उपवर्ण्यन्ते। अत्र चाद्यभङ्गे हिंसायां व्याप्रियमाणकाययोगेऽपि भावत उपयुक्तं तथा भगवद्भिरहिंसक एवोक्तः, ततो यदुत्कं भवताच अछेदनव्यापारं कुर्वतो हिंसा भवतीति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति! किंचरागो य दोसो य तहेव मोहो, ते बंधुहेतु तु तओ विजाणं / णाणत्तगंतेसि जधाय होति, जाणाहि बन्धस्स तथा विसेसं // 25 // रागश्चाभिष्वङ्गलक्षणः, द्वेषाश्चाप्रीतिकरूपकः, तथैव मोहो ऽज्ञानलक्षणः। एतान् त्रीनपि बन्धहेतून् जानीहि नानात्वंविशेषो यथा तेषां रागादीनां भवति तथा कर्मबन्धस्यापि विशेषं जानीहि। इदमेव बिभावयिषुरिदमाहतिब्वे मंदे णायमनाते, भावाधिकरणविरिए य। जह दीसतिणाणत्तं, तह जाण सुकम्मबंधेऽवि // 260 / / हिंसादिपापं कुर्वतो रागादिपरिणामस्तीव्रो वा भवेत् मन्दोवा 'नायमनाय'त्तिएको हिंसादिफलविपाकव्यपाये वा जीवे जीवतया ज्ञाते हिंसादि करोति, अपरस्तु न जानाति परमेवमेव जानन् हिनस्ति / तथा भाव औदयिकादिः अधिकरणं-निवर्त्त--नादिरूपं प्रागुक्तम् वीर्य-देहबलं बालपण्डितादिसमर्थ्य वा, एवं तीव्रमन्दादिकं नानात्वम्, यथा-रागादिषु दृश्यते तथा कर्मबन्धेऽपि नानात्वं जानीहि इति द्वारगाथासमासार्थः / अथैनामेव विवरीषुराहतिव्वेह होति तिय्वो, रागादीएहि उपचओ कम्मे। मंदेहि होति मंदो, मज्झिमपरिणामतो मज्झो // 261|| विदधानस्य यदि तीव्राः संल्किष्टपरिणामा रागादयो भवन्ति ततस्तीव्रकर्मण्युपचयो भवति, यदाभूत एव मन्दः-प्रतनुपरिणामस्तदा कर्मोपचयोऽपिमन्दो भवति, यदा तेषां मध्यमपरिणामोनातितीव्रोन वातिमन्द इत्यर्थः, तदा मध्यमः कर्मो-पचयो भवति। अथ ज्ञानाऽज्ञानद्वारमाहजाणं करेतित एको, हिंसमजाणं पुणो अविरतोय। तत्थ वि बंधविसेसो, महंतरं देसितो समए / / 262 / / इह द्वादविरतो तौकस्तं जानन हिंसां करोति, विचिन्त्येत्यर्थः / अपरः पुनरजानन्। तत्रापि तयोरपि बन्धविशेषो 'महंतर'त्ति महत्ता अन्तरेण देशितः समये-सिद्धान्ते / तथाहि यो जानन् जीवहिंसा करोति स तीव्रानुभवं बहुतरं पापकर्मो-पचिनोति, इतरस्तुमन्दतरविपाकमल्पतरं तदेवोपादत्ते।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy