SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ लोगविजय 728 - अभिधानराजेन्द्रः - भाग 6 लोगविजय बले से अतिहिबले से किविणबले से समणबले इथेएहिं विरूवरूवेहिं कन्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खु त्ति मन्नमाणे, अदुवा आसंसाए। (सू०७५) कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनाऽपि लोभं 'निष्क्रम्य प्रव्रज्यां प्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभं' संज्वलनसंज्ञकमपि लोभ विनीयनिर्मूलतोऽपनीय एष एवंभूतः सन् अकर्मा-अपगतघातिकर्मचतुष्टयाविभूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये-मोहनीयक्षये चावश्यं घातिकर्मक्षयस्तस्मिश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकपिगम इत्यतो लोभापगमे अकर्मेत्युक्तम् / एवश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्तव्यमित्याह-'पडिलेहाए' इत्यादि, प्रत्युपेक्षणयागुणदोषपर्यालोचनयोपपन्नः सन् अथवा-लोभविपाकं प्रत्युपेक्ष्यपर्यालोच्य तदभावे गुणं च लोभं नावकाशतिनाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयक-षायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्व संतिष्ठते। तथाहिअलोभं लोभेन जुगुत्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाशति। यच प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचि तच्च वाच्यमिति, आह च- 'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र शस्त्रे पृथिवीकायाधुपघातकारिणि पौन पुन्येन वर्त्तते / किं च-'से आयबले' आत्मनो बलंशक्त्युपचय आत्मबलं तन्मे भावीति कृत्वा नानाविधैरुपायैरात्मपुष्टये 'ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीविधत्ते, तथाहि- 'मांसेन पुष्यते मांस' मिति कृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः-सूत्रैणैवाभिहिताः, एवं च-ज्ञातिबलम् स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्य बलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वादेवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभाग वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, (आचा०) (अतिथिलक्षणम् 'अइहि' शब्दे प्रथमभागे 33 पृष्ठे गतम्।) एतदुक्तं भवति-तबलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्य इति, एवं कृपणश्रमणार्थमपि वाच्यमिति-एवं पूर्वोक्तैः विरूपरूपैः-नानाप्रकारैः पिण्डदानादिभिः कार्यः'दण्डसमादान' मिति दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानम् , तदात्मबलादिकंमम नाभविष्यत्यद्यहमेतनाकरिष्यमित्येवं सप्रेक्षया-पर्यालोचनया एवं संप्रेक्ष्य वा भावात् क्रियते, एवं तावदिह भयमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति- 'पावमोक्खो' त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, इतिःहेतौ, यस्मात्स मम भविष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति / तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपधातात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युग्राहितमतयो जुह्वति, तथा-पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति, तद्भक्तशेषानुज्ञातं स्वतोऽपि, भुञ्जते, तदेवं नानाविधै रुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपधातकारिणीः समारभमाणाः अनेकभवशतकोटीदुर्मोचमघमेवोपाददत इति। किञ्च- 'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा-आशंसनम् आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते / तथाहिममैतत्परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशावि-मोहितमना अवलगति, उक्तं च- "आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि। इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम् // 1 // एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचार। इत्याद्याशाग्रहग्रस्तैः, क्रीडन्ति धनिनोऽर्थिभिः / / 2 / / " इत्यादि। तदेवं ज्ञात्वा किं कर्त्तव्यमित्याहतं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिज्जा, नेव अन्नं एएहिं कजेहिं दंडं समारंभाविज्जा, एएहिं कजेहिं दंडं समारंभंतं पि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहि पवेइए, जहेत्थ कुसले नोवलिंपिञ्जासि त्ति बेमि। (सू०७६) 'तदि' ति सर्वनामप्रक्रान्तपरामर्शि, 'तत् शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम् , इह वा यदुक्तम्-अप्रशस्तगुणमूलस्थानंविषयकषायमातापित्रादिकम्, तथा-कालाकालसमुत्थानक्षणपरिझानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् मेधावीमर्यादावर्ती। ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह- 'नेवं सयं' इत्यादि, नैव स्वयम्-आत्मना एतैः- आत्मबलाधानादिकैः कार्यः-कर्त्तव्यैः समुपस्थितैः सद्भिः दण्डम्-सत्त्वोपघातं समारभेत् , नाप्यन्यमपरमेभिः कार्यर्हिसानृतादिकं दण्डं समारम्भयेत्, तथा-सामारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् / एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामीजम्बूस्वामिनमाहेतिदर्शयति- 'एस' इत्यादि, 'एष' इतिज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहार-लक्षणो वा आर्यैः-आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकमांशाः संसारोदरविवरवर्तिभावविदः-तीर्थकृतस्तैः प्रकर्षणसदेवमनुजायांपर्षदिसर्वस्वभाषानुगामिन्यावाचायौगपद्याशेषसंशी
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy