SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ लोक 696 - अभिधानराजेन्द्रः - भाग 6 लोक कम्, काललोकः-समयावलिकादिः, भवलोकः--नारकादिः, स्वस्मिन् स्वस्मिन् भवे वर्तमाना यथा मनुष्यलोको देवलोक इति। भावलोकःषडौदयिकादयो भावाः / पर्यवलोकस्तुद्रव्याणां पर्यायमात्ररुप इति, एतेषां चैकत्वं केवलज्ञानालोक नीयत्वसामान्यादिति। (स्था० 1 ठा०।) नामलोकः 1, स्थापना लोकः 2, द्रव्यलोकः 3, क्षेत्रलोकः 4, काललोकः 5, भवलोको 6, भावलोकः 7, पर्यायलोकश्च 8, तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः / / व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्रा नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रुवम-रुवी सपएसमप्पएसे अ। जाणाहि दवलोग, णिचमणिचंच जं दव्वं ||19|| जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्रा सुखदुःखज्ञानोपयोग- | लक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौरुप्य रुपिभेदाद, आह च - 'रुप्यरुपिणावि' ति तत्रानादिकर्मसन्ता नपरिगता रुपिणःसंसारिणः, अरुपिणस्तु-कर्मरहिताः सिद्धा इति, अजीवास्त्वरुपिणोधर्मा-धर्माकाशास्तिकायाः, रुपिणस्तुपरमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-'सप्रदेशाप्रदेशावि' ति, तत्र सामान्यविशेषरुपत्वात्परमाणुव्यतिकरेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव, अन्येतुव्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः,लब्ध्याप्रदेशेनतुसप्रदेशोवाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं यक्षद्वयं वाच्यम्, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो, द्वयणुकादयः सप्रदेशाः, क्षेत्रतः एकप्रदेशावगा ढोऽप्रदेशो द्वयादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकाने कसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण / प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रतां जानीहि द्रव्यलोकम्, द्रव्यमेव लोको द्रव्यलोक इति कृत्वा, अस्यैवशेष धर्मोपदर्शनायाऽऽहनित्या नित्यं च यद्रव्यम्, चशब्दादभिलाप्यानभिलाप्यादिसमुच्च इति गाथार्थः / / 16 / / सांप्रतं जीवजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह भाष्यकार :गइ 1 सिद्धा 2 भविआय 3, अभविअ 4-1 पुग्गल 1 अणागयद्धाय 2 / तीअद्ध 3 तिन्नि काया-२, जीवा 1 जीव 2 टिई चउहा ||196 // अस्याः सामायिकवव्याख्या कार्येति, भङ्गकास्तुसादिसपर्यवसानाः साद्यपर्यवसाना अनादिसपर्यवसाना अनाद्यपर्यव वसाना, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः। द्वारम-अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र भाष्यम् -- आगासस्सपएसा, उड्डंच अहे अतिरियलोएय। जाणाहि खित्तलोग, अणंत जिणदेसिसम्मं ||167 / / आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान् ऊर्ध्वं च इति- | ऊर्ध्वलोके च अधश्च इति-अधोलोके च तिर्यग्लोके च, किं?--जानीहि क्षेत्रलोकम्, क्षेत्रमेव लोकः क्षेत्रालोक इति कृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोक विभागस्तु सुज्ञेयः, अनन्तमिति-अलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्रा द्रष्टव्यः, जिनदेशितमितिजिनकथितम् सम्यक्-शोभनेन विधिनेति गाथार्थः / / 167 / / साम्प्रतं काललोकप्रतिपादनायाह भाष्यकार :समयावलिअमुत्ता, दिवसमहोरत्तपक्खमासाय। संवच्छरजुगपलिआ,सागरओसप्पिपरिअट्टा||१९|| इह परमनिकृष्टः कालः-समयोऽभिधीयते, असंख्येयसमय माना त्वावलिका, द्विघटिको मुहूर्तः, षोडश मुहूर्ता दिवसः, द्वात्रिंशद् अहोरात्रम्, पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः, द्वादशमासाः संवत्सरमिति, पञ्चसंवत्सरं युगम्, पल्योपममु द्धारादिभेदं यथा अनुयोगद्वारेषु तथावसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवस पिण्यपि द्रष्टव्या, परावर्तः-पुद्रलपरावर्तः, स चानन्तोत्सर्पिण्य वसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः // 168 / उक्तः काललोकः। लोकयोजना पूर्ववद्। अधुना भवलोकमभिधित्सुराह भाष्यकार :णेरइअदेवमणुआ, तिरिक्खजोणीगया य जे सत्ता। तम्मि भवे वटुंता, भवलोगं तं विआणाहि||१६|| नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये सत्त्वाः-प्राणिनः 'तम्मि' त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजनीहि, लोकयोजना पूर्ववदिति गाथार्थः / / 166 / / साम्प्रतं भावलोकमुपदर्शयतिओदइए 1 ओं वसमिए 2, खइए अ३ तहा खओवसमिए / परिणामि 5 सन्निवाए अ६, छविहो भावलोगो उ॥२००|| उदयेन निवृत्त औदयिकः कर्मण इति गम्यते, तथोपशमेन निवृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्नि पातिकश्च एवं षडविधो भावलोकः, तत्रा सान्निपातिक ओघतोऽनेकभेदोवसेयः, अविरुद्धस्तुपञ्चदशभेद इति, उक्तं च"ओदइअ-खओवसमे, परिणामेक्केको (क) गइ चउक्केऽवि। खयजोगेण वि चउरो, तदभावे उवसमेणं पि॥१॥ उवसमसेढी एक्को, केवलिणोऽवि य तहेव सिद्धस्स। अविरुद्धसन्निवाइय-भेया एमेव पण्णस्स / / 22 / / " त्ति इति गाथार्थः // 20 // भाष्यम्तिव्वो रागो अदोसो अ, उइन्ना जस्स जन्तुलो। जाणाहि भावलो,अणंतजिणदेसिअंसम्म // 201 / /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy