SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ लेसा 683 - अभिधानराजेन्द्रः - भाग 6 लेसा वा सिंदुवारमल्लदामे इ वा सेयाऽसोए इवा सेयकणवीरे इवा | सेतबंधुजीवए इवा, भवेयारवे?, गोयमा ! नो इणढे समढे, सुक्कलेसा णं एत्तो इद्वतरिया चेव मणुण्णयरिया चेव वन्नेणं पन्नत्ता। (सू०२२६) 'कण्हलेस्सा णं भंते ! वण्णेणं केरिसिया पन्नत्ता' इत्यादि, कृष्णद्रव्यात्मिका लेश्या कृष्णलेश्या, कृष्णलेश्यायोग्यानि द्रव्याणि इत्यर्थः, तेषामेव वर्णादिसम्भवात् न तु कृष्णद्रव्यजनिता भावरुपा कृष्णलेश्या, तस्या वर्णाद्ययोगात्, भदन्त ! कीदृशी वर्णेन प्रज्ञप्ता ?, भगवानाहगौतम् ! स लोक प्रसिद्धो यथानामको-जीमूत इति वा-जीमूतोबलाहकः, सचेह प्रावृट् प्रारम्भसमयभावी जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इति शब्द उपमानभूतवस्तुनाम परिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रा इतिवाशब्दौ, द्रष्टव्यौ, अञ्जनम्-सौवीराञ्जनम्-रत्न विशेषो वा खञ्जनम्-दीपमल्लिकामलः स्नेहाभ्यत्कशकटाक्ष घर्षणोद्भवमित्यपरे कज्जलम्-- प्रतीतम् गवलम्-माहिषं शृङ्गं तदपिच उपरितनत्वभागापसारणे द्रष्टव्यम्, तत्रैव विशिष्टस्य कालिम्नः सम्भवात्, जम्बूफलं प्रतीतम्, अरिष्टकं फलविशेषः परपुष्टः-कोकिलः भ्रमरः-चञ्चरिकः भ्रमरावलिः-भ्रमरपङ् क्ति गजकलभः करिपोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलंशरदि मेघापान्त्यालवाकाशखण्डम्, तदपि हि अतीव कृष्ण प्रतिभाति इत्युक्तम्, कृष्णाशोककृष्णकणवीर कृष्णबन्धुजीवाः-अशोककणवीर बन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्चवर्णा भवन्ति ततः शेषवर्ण व्युदासार्थं कृष्णग्रहणम्, एतावत्युक्ते गौतम आह - 'भवे एयारुवा ?' भगवन् ! भवेत् कृष्णलेश्या वर्णेन एतद्रूपा ?, भगवानाह-- गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नः, एतद्रूपा कृष्णलेश्येति, किन्तु ?, सा कृष्णलेश्या इतो जीमूतादेः कृष्णेन वर्णेन अनिष्टतरिका चैव इयमनिष्टा 2 इयमनयोर्मध्येऽतिशयेनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टता रिका अनीप्सिततरिका एवेति भावः / इह किञ्चिदनिष्टमपि स्वरुपतः कान्तं भवति ततः कान्तताव्युदासार्थमाह-अकान्ततरिकैवः, किञ्चित्केषाञ्चिदनिष्टमपि स्वरुपतोऽकान्तमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताव्युदासार्थमाहा-अप्रियतारिकैव, अत एवामनोज्ञतरिकैव, वस्तुतः सम्यक्परिज्ञाने सति मनागप्युपादेयतया तत्रा मनसः प्रवृत्यसंभवात्, अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतर-- प्रकर्ष विशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आप्नोति-- आत्मवशतां नयतीति भनआपा न मनआपा अमन आपा, ततो द्वयोः प्रकर्षे तरप एवं भूता वर्णेन प्रज्ञप्ता। 'नीललेसा णं भंते !' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं भृङ्गः पक्षिविशेषः पक्ष्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्य पक्ष्म, चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्त्रां | शुकः-कीरः 'शुकपिच्छं' शुकस्य पतलं श्यामाप्रियङ्गुः वनराजी-- प्रतीता उच्चन्तको दन्तरागः, आह चमूलटीकाकार:-'उचेतगो दन्तरागो भन्नइ पारावतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य वसनं-वस्त्रां हलधरवसनम्, तद्धि नीलं भवतीत्युपात्तम्, अतसीकुसुम वणवृक्षकुसुमं च प्रतीतम्, अञ्जनकेसिकावनस्पतिविशेषः तस्याः कुसुमम् अञ्जनकेसिकाकुसुमं नीलोत्पलम्-कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा--अशोकादिवृक्षविशेषाः 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासाश्चलोकप्रतीतः 'तंबे इ वा तंबकरोडए इवा तबछेवाडिया इवा' इति सम्प्रदायादवसेयम्, वृन्ताकीकुसुमं प्रतीतं 'कोइलच्छदकुसुमए इवा' इतिकोकिलच्छदः-तैलकण्टकः, तथा च मूलटीकाकृत- 'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नइ' इति, तस्य कुसुमं प्रतीतम् 'तेउलेस्सा णं भंते !' इत्यादि, शशकोर भ्रवराहमनुष्यरुधिराणि शेषरुधिरेन्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादनम्, बालेन्द्र गोपकः- सद्यो जात इन्द्रगोपकः, स हि प्रवृद्धः सन् ईषत् पाण्डुरक्तो भवति ततोबालग्रहणम्, इन्द्रगोपकः प्रावृटप्रथमसमयभावी कीटविशेषः, बालदिवाकरः--प्रथममुद्गच्छन् सूर्यः, गुञ्जा-लोकप्रतीता तस्या अर्धरागो गुजार्धरागः, गुञ्जाया हि अर्धमतिरत्कं भवति अर्ध चाति कृष्णमिति अर्धग्रहणम्, जात्यः- प्रधानो हिड्डलको जात्य हिड्डुलकः प्रवालः-शिलादलं तस्याड्डरः प्रवालाङ्कर, स हि प्रथममुद्रच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानम्, लाक्षारसः-प्रतीतः, लोहिताक्षमणिः-लोहिताक्षनामा रत्न विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी, समासः, गजतालुचीन पिष्टराशिपारिजातकुसुमजपाकुसुमकिंशुकपुष्पराशिरत्कोत्पल रत्काशोकरक्तकणवीररक्तबन्धुजीवा लोकप्रतीताः 'भवे एयारुवा' इति पदयोजना प्राग्वत्, भगवानाह-गौतम! णो इण समढे' यतस्तेजोलेश्या इतः-शशकरुधिरादिभ्यो लोहितेन वर्णेनेष्टतरिकैव, ता किञ्चिदकान्तमपि केषांचि दिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह-कान्ततरि कैव, केषाञ्चिदिष्टतरमपि स्वरुपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरताप्रतित्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किञ्चिन्मध्यमं संभवेदतः प्रकृष्ट तरप्रकर्षविशेषप्रतिपादनार्थमाह-मनआपतरिकैव वर्णेन प्रज्ञप्ता। पम्हलेस्सा णं भंते !' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं चम्पक:- सामान्यतः सुवर्णचम्पकोवृक्षविशेषः 'चम्पकछल्ली इ वा' इति सुवर्णचम्पकत्वक् 'चम्पकभेए इ वा' इति सुवर्णचम्पकस्य भेदो द्विधाभावः, भिन्नस्य हि वर्णप्रकर्षो भवति ततो भेदग्रहणम्, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिकाहरिद्रानिवर्तिता गुटिका हरिद्राभेदोहरिद्राया द्वैधीभावः हरितालोधातुविशेषः हरितालगुटिकाहरितालमयी गुटिका हरितालभेदोहरिताल-च्छेदः चिकुरः-पीतद्रव्यविशेषः चिकुररागः-तन्निष्पादितो वस्त्रादौरागः 'सुवन्नसिप्पी इवा' इति सुवर्णमयीशुक्तिका, वरम्-प्रधानंयत्कनकंतस्य निकषःकषपट्टकेरेखारुपः वरकनकनिकषः वरपुरुष:-वासुदेवस्तस्यवसनंवस्त्रां वरपुरुषवसनं तद्धि पीतं भवतीत्युपात्तम, अल्लकीकुसुमं लोकतो-ऽवसेयं चम्पककुसुम-सुवर्णचम्पकवृक्षपुष्पम् कन्नियारकुसुमेइवा इतिकाञ्चनार
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy