SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ लेप 667 - अभिधानराजेन्द्रः - भाग 6 लेप श्चित्तं चत्वारो गुरुकाः, यतस्तत्रापि स एवान्तरायदोषः / अन्यश्चायं दोष, ते बलीव विास्येयुः तत्र गन्त्र्या चलन्त्या चरणाक्रमणेआत्मविराधना, संयमविराधना त्रसादिनिपातः / सम्प्रति तत्सदारं श्वद्वारं चाहवच्छो भएण णासति, गंतिक्खोभे य आयवावत्ती। आया पवयण साणे, काया य भएण नासंतो // 511 // यत्रा शकटे वत्सो बद्धः, श्वा वा यस्याधस्तात्तिष्ठति, बद्धो वा वर्तते, तत्र वत्से-लेपं गृह्णतश्चत्वारो लघुकाः, शुनि-चत्वारो गुरुकाः, यतोवत्सो भयेन नश्यति, गन्त्र्या क्षोभे चलने आत्मव्यापत्तिः, तथा श्वा समागच्छन्तमपूर्व दृष्टवा दशति तत्रा आत्मोपधातः, शुना लीढं लेपममी गृहन्तीति प्रवचनोपघातः, भयेन नश्यति शुनि कायाः-पृथिवीकायादयो विनाशमापद्यन्ते;ततः संयमोपघातश्च। सम्प्रति जलस्थितद्वारं पृथिवीस्थितद्वारं चाहजो चेव य हरिएसुं, सो चेव गमो उदगपुढवीए। संपाइमे तसगणा, सामाए होइ चउभंङ्गो॥५१२|| यएव गमः प्राक् हरितेषूत्कः स एवोदके पृथिव्यां च वेदितव्यः, इयमत्र भावना-सचित्ते उदके साधुरनन्तरप्रतिष्ठितो, न परंपरिप्रतिष्ठित, इत्यादि चतुर्भगी। गन्त्र्यामप्येवं चतुर्भङ्गी। उभयोरपि चतुर्भङ्गी, तदेवं चतुर्भङ्गीत्रयम्, सचित्ताऽप्काये, अचित्ताऽप्काये, एवं मिश्राप्कायेऽपि चतुर्भङ्गीत्रयमवसातव्यम्, उभयमीलनेन चतुर्भङ्गीषट्कम्, एवं चतुर्भगीषट्कं पृथिवीकायऽपि भावनीयम्। तत्र सचित्तेऽप्काये साधावनन्तर प्रतिष्ठिते प्रायश्चित्तं चतुर्लघु, परंपरप्रतिष्ठितेऽपि चतुर्लघु, उभयप्रतिष्ठिते द्वे चतुर्लघुक, चरमे भङ्गे शुद्धः / गन्त्र्यामप्यनन्तरप्रतिष्ठितायां चतुर्लघु, परंपरप्रतिष्ठितायामपि चतुर्लघु, उभयप्रतिष्ठितायां द्वे लघुके, चरमे भने शुद्धः / चरम भङ्गेषु मिश्रेऽप्काये साधावनन्तरप्रतिष्ठिते द्वे मासलघुके, चरमेशुद्धः / एवं गन्त्र्यामपि भङ्गचतुष्टयं वक्तव्यम्, साधुगन्त्र्योर नन्तरप्रतिष्ठितयोर्दैमासलघुके, परंपरप्रतिष्ठितयोरपिद्वेमासलघुके, उभयोरुभयत्रा प्रतिष्ठितयोः चत्वारि मासलघुकानि, चरमभङ्गे शुद्धः / एवं पृथिवीकायेऽपि चतुर्भङ्गी षट्के प्रायश्चित्तमवगन्तव्यम् / सम्प्रति सम्पातिमद्वारं श्यामाद्वारं चाह--"संपातिमा'' इत्यादि। अथ के नाम सम्पातिमाः-येषु पतत्सु लेपो न गृह्यते। किं ासाः स्थावरा वा ? | तत्राह सम्पातिमाः सप्राणा न स्थावरास्तेषु संपातिमेषु पतत्सु यदि लेपं गृह्वति तदा यस्य प्रायश्चितं चत्वारो लघुकाः / श्यामा रात्रिः, तत्र-चतुर्भङ्गी, तद्यथा-रात्रौ लेपं गृह्णति, रागावेव भाजनस्य लेप ददाति। अत्र प्रायश्चित्तं चत्वारो लघुकाः, एवं मध्यमभङ्गद्वयेऽपि तपोलघवः कालगुरुकाः। दिवसे गृहीत्वा दिवस एव ददातिशुद्धः। महावातादिद्वारठायमाह - वायम्मि वायमाणे, महियाए चेव पवडमाणीए। नाणुण्णायं गहणं, अभियस्सयमा विगिचणया॥५१३।। वाते-महावाते वाति, तथा-महिकायां प्रपतन्त्यां लेपस्य ग्रहणं नानुज्ञातं तीर्थकरगणधरैः महावाते वाति तुदद्धृतानां त्रसस्थावराणां लेपसंपर्कता विनाशसंभवात्। महिकायां निपतन्त्यामप्कायविराधनात्, तथा अमितस्यापिलेपस्य ग्रहणं नानुज्ञातंमा भूद्विवेचनिकापरिष्ठापनिका इति कृत्वा तत्रा महावाते वाति लेपं गृह्णतः प्रायश्चित्तं चतुर्लघु, महिकायामपि निपतन्त्यां चतुर्लघु, अमितग्रहणे मासलधु। एतदेव प्रायश्चित्तं प्रतिपादयन्नाहबलजुत्तवच्छमहिया, तसेसु सामाएँ चेव चउलहुगा। दव्वबलसाणगुरुगा, मासो लहुओ उ अमियम्मि।।५१४|| भावतश्चले बलीवद्दयुक्त वत्से निबद्धे, तथा महिकायां निपतन्त्यां त्रसेसु सम्पातिमेषु निपतत्सु श्यामायां च लेपं गृहृतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः / द्रव्यबले शुनि वा स्थिते चत्वारो गुरुकाः, अमिते गृहीते लघुको मासः। विशेष भावना तु प्रतिद्वारं प्रागेव कृता। एतद्दोसविमुक्कं, घेत्तुं छारेणा अक्कमित्ताणं / चीरेण बंधिऊणं, गुरुमूले पडिक्कमा लोए // 515|| ये एते हारतादयोऽनन्तरं दोषा उत्कास्तैर्मक्तं लेपं गृहीत्वा मा सम्प्रातिमानां वधो भूयात तं क्षारेण-भस्मना आक्रम्य चीवरेण बध्वा गुरुपादमूलमागच्छति। आगम्य चेर्यापथिकी प्रतिक्रम्यालोचयति। दंसिय छंदिय गुरु से-सए य ओमत्थियस्स माणस्स। काउं चीरं उवरिं,रुयं व छुसेज तो लेवं / / 516|| आलोच्य लेपं गुरादर्शयतिः दर्शयित्वा गुरुं लेपेन छन्दयतिनिमन्त्रयति, निमन्त्रणानन्तरं शेषकानपि साधून निमन्त्रयति, ततो यावता यस्यार्थस्तस्य तावन्तं दत्त्वा एकस्य भाजनस्यावमस्थितस्यावाङ्मुखीकृतस्योपरि चीवरं कृत्वा तत्र लेपं रुतं च प्रक्षिपेत्। सम्प्रति लेपदानविधिमाह - अंगुठ्ठपएसिणिम-ज्झिमाहिं घेत्तुं घणं ततो चीरं। आलिंपिऊण भाणं, एक दो तिनि वा घटे ||517 / / अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गुल्या लेपं गृहीत्वा घनंचचीवरमादाय तत्रलेपं प्रक्षिप्य निष्पीडयेत्। निष्पीड्यचएकैकभाजनमेकं द्वौत्रीन् वा वारान् लेपयेत्, अधिकं तु लेपमट्ट कनिमित्तं सरुतकं पेषयेत्। अथ न दातव्यः अट्टकः, यदि वा-ताशुद्धिरतः सरुतकं तं क्षारे परिष्ठापयेत्, अन्यचान्यच भाजनं लिप्तवा अन्यदन्यद्वारंवारेण घट्टणपाषाणेन घट्यति। तथा चाहअण्णोणे अंकम्मी, अण्णं घटेति वारवारेणं। आणेइतमेव दिणे, दवं च घेत्तुं अभत्तट्ठी॥५१८|| अन्यास्मन भाजने घट्टिते अन्यतरभाजनमङ्के स्थापयित्वा वारंवारेण घट्टयति, तत्रा यदि उद्वानो लेपो यदि च तस्य ,द्रवेण कार्य समुत्पन्नं स चाऽऽत्मनाऽभक्तार्थी ततः सोऽभक्तार्थी तस्मिन्नेव दिने पात्र लेपनोपरज्य उद्घाने लेपे तेन द्रवं सपानीय मानयति / अथ नोद्वानस्ततोऽन्येषामभक्तार्थिनामहिण्डमानानां वा तत्पात्रे समन्येिन पानीयमानयेत्। भत्तट्ठीणं दाउं, अन्नेसिंवा अहिंडमाणाणं।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy