SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मंस 33 - अभिधानराजेन्द्रः - भाग 6 मंस कुन एतदिति चेदित्यत आह-वाक्यान्ताद्गतेरिति "न मांसभक्षणे दोष' इत्येपंविधान सामान्यत एव मांसादनदोषाभावप्रतिपादनपराद वाक्याधदायत प्रो क्षेतं भक्षयेदित्यादि वक्ष्यमाणं वाक्यं तद्वाक्यान्तरं तस्माद् गते: परिचित्तेः शास्त्रोक्तत्वेन मासादनविशेषस्य निर्दोषतयाऽवगमादित्यशः / / 4 / / एतदेव वाक्यान्तरमाह - प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया। यथाविधि नियुक्तस्तु, प्राणानामेव वाऽत्यये / / 5 / / प्राक्षित वैदिकमन्त्रभ्युक्षितं, भक्षयेदश्नीयात्, मांसं पिशितं. ब्राहाणानां द्विजाना, चशब्दो विशेषणसमुचये, काम्यया इच्छया द्विजभुक्तावशेष प्रति तदनुइया, विधियायो या यत्र यागश्राद्धप्राघूर्णकाऽऽदौ प्रक्रिया, तास्थानतिक्रमण यथाविधि, तत्र यागविधिः पशुभेधाश्वधमेधाऽऽदिविधायकः, श्राद्धविधिः श्राद्धशास्त्रविहितः, शास्त्रविधिस्तु मांसविशेपापेक्षोऽयम् - "औरभेणेह चतुरः शाकुनेन तुपञ्च वै। पामासान छागम-सन, पार्षतीयेन सप्त वै॥१॥ दशमासांस्तुतृप्यन्ते, वराहमहिषऽऽमिषैः / कूर्मशशकमांसेन मासानेकादशैव तु॥२।। संवत्सरं तुतृष्यन्ति, पयसा पायसेन तु।" प्रपूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयम् “महोशंवा महाजं वा, श्रोत्रियाय प्रकन्ययेत्।" इति। तथा नियुक्तस्तु गुरुभियापारित एव, नियुक्तशब्दस्य वा यथाविधीति विशेषणं, तुशब्द एवकारार्थः तथा प्राणानामेकेन्द्रियाऽऽदीनामेव न तु द्रव्याऽऽदीना, वाशब्दः पक्षान्तरद्योतकः, अत्यये विनाश, उपस्थिते इति शेषः / मांसं भक्षयेदित्यनुवर्तते। आत्मा हिरक्षगीयः / यदाम-"सर्वत एवाऽऽत्मानं गोपयेत्।" इति।५। परोक्तमेवार्थमनुवादद्वारेणाऽऽशक्य दूषयन्नाह-द्वितीयव्याख्यापेक्षया पुनरुत्तरश्लोकस्यैव पातनाभवटापादित एव शास्त्रीयमांसभक्षणे दोषाभावोऽस्माभिरभिधीयते, न सामान्येनति परमतमाय दूषयन्नाहअत्रैवासावदोषश्चे-निवृत्तिनास्य सज्यते। अन्यदा भक्षणादना-भक्षणे दोषकीर्तनात् // 6 // अत्रैव-अनन्तराभिहित एव प्रोक्षिताऽऽदिविशेषणमांसभक्षणे अन्यत्र तु दोष एव, असौ यो 'न मांसभक्षणे दोषः' इत्यनेन वचसाऽभ्युपगतोऽदोषो दाणभावश्चद्यद्येवं मन्यसे, तदिति शेषः / किं दूषणमित्याह-निवृत्तिवितिः (न) नैवास्य मांसभक्षणस्य, सज्यते प्राप्नोति।कुत इतयाह - अन्य दाऽन्यस्मिन् प्रोक्षिताऽऽदिमांसविशेषेणाभावकाले, अभक्षणादनभ्यवहरणात, उक्तविधिव्यतिरेकेण हि मांसं न भक्ष्यते, अतो मांसभक्षणस्याप्राप्तेः निवृत्तिास्य प्रसज्यते इत्युच्यते, प्राप्तिपूर्वको हि निषेधः सफलो भवतीति। अथ प्रोक्षिताऽऽदिविशेषणसद्भावे निवृत्तिर्भविष्यतीति। "निवृत्तिस्तु महाफला' इति वचः सफलीभविष्यतीत्यत्राऽऽहअत्र प्रोक्षिताऽऽदिविशेषणसद्भावेऽभक्षणेऽनशने मासस्य दोषकीर्तनाद् दूषणाभिधानान्निवृत्तेनस्यि प्रसज्यते इति प्रकृतमिति / / 6 / / दोषकीर्त्तनमेव दर्शयन्नाहयथाविधि नियुक्तस्तु, यो मांसं नात्ति वै द्विजः। स प्रेत्य पशुतां याति, संभवानेकविंशतिम् / / 7 / / योग्यो विधिः शास्त्रीयन्यायो यथाविधि तेन नियुक्तो युक्तो व्यापारितो या गुरुभिर्यथाविधि नियुक्तः, तुशब्दः पुनः शब्दार्थः, तस्य चैवं प्रयोगः विधिना मांसगखादन् निर्दोष एव यथाविधि नियुक्तः पुनर्योऽनिर्दिष्टनामा मांसं पिशित (न) नैव अत्ति भुक्ते, वै इति निपातो वाक्यालङ्कारार्थः, द्विजो विप्रः, स इति द्विजः, प्रेत्य परलोके, पशुतां तिर्यग्भावं, याति प्राप्नोति. कियतो भवान् यावदित्याह-संभवनानि संभवा जन्मानि, तान् सम्भवान, एकेनाधिका विंशतिस्तामिति / / 7 / / प्रोक्षिताऽदिविशेषणाभावे मांसस्य भक्षणे प्रत्यभावेन निवृत्तेरफलत्वात्प्रोक्षिताऽऽदिविशेषणस्यच तस्याऽभक्षणे दोषकीर्तनात्, "निवृत्तिर्नाऽस्य सज्यते” इति यदुक्तं तत्र परकीयं परिहारमाशङ्कयपरिहरन्नाहपारिव्रज्यं निवृत्तिश्चे-द्यस्तदप्रतिपत्तितः। फलाभावः स एवाऽस्य, दोषो निर्दोषतैव न॥८॥ परिवाजो भावः पारिवाज्यं मस्करित्वं, गृहस्थभावत्याग इत्यर्थः। तदेव निवृत्तिनिबन्धनत्वात् निवृत्तिमांसभक्षणोपरतिः, चेद्यद्येवं मन्यसेऽयमभिप्रायः-गृहस्थतायां प्रोक्षिताऽऽदिविशेषणं मांस भक्षणीयमेव, तस्भाच पारिवाज्यप्रतिपत्तिद्वारेण निवर्तत इत्येवं प्राप्तिपूर्विका निवृत्तिर्मासभक्षणस्य स्यात्, सा च महाफलेति, अतो 'निवृत्तिर्नाऽस्य सज्यते' इत्याचार्यवचन परंण दूषितम्। अत्र दूषणमाह-यः कोऽपि तदप्रतिपत्तितः पारिवाज्याप्रतिपत्तिमाश्रित्य फलाभावः अभ्युदयाऽऽदिप्रयोजनाप्राप्तिः, स एव किमपरदोषगवेषणेन, अस्य मांसभक्षणस्य दोषो दूषणम्। ततः किमित्याह-निर्दोषता निर्दूषणता, एवशब्दस्यान्यत्र संबन्धाचैव नास्त्येवातः कथमुच्यते-"न मांसभक्षणे दोषः" इति। तथा-"निवृत्तिस्तु महाफला" इत्यत्र विशेषेण किञ्चिदुच्यतेननु निवृत्तिनिरवद्या, वस्तुनो विधीयमाना महाफला, सावद्यावा ? यदि निरवद्या तदा यत्याश्रमाऽऽदेरपि निवृत्तिरङ्गीकर्तव्या; तस्य निरवद्यत्वान्न चैतदिष्टम् / अथ द्वितीयः पक्षस्तदा मांसभक्षणस्य सावद्यत्वेन सदोषताप्राप्तेरिति।।। हा०१८ अष्ट०। तथा स्मार्ता अपि - "न मांसभक्षणे दोषो, न मद्ये न च मैथुने। प्रवृत्तिरेषा भूताना, निवृत्तिस्तु महाफला // 1 // " इति श्लोकं पठन्ति। अस्य च यथाश्रुतार्थव्याख्यानेऽसंबद्ध प्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव; तस्मान्निवृत्तिः कथमिव महाफला भविष्यति ? इज्याऽध्ययनदानाऽऽदेरपि निवृत्तिप्रसङ्गात् / तस्मादन्यदैदम्पर्यमस्यश्लोकस्य। तथाहि-"न मांसभक्षणे कृते अदोषः" अपि तु दोष एव, एवं मद्यमैथुनयोरपि / कथं नाऽदोषः ? इत्याह-यतः प्रवृत्तिरेषा भूताना-प्रवर्त्तन्ते उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थान, भूतानां जीवाना, तत्तुज्जीवसंसक्तिहेतुरित्यर्थः। प्रसिद्धं च मासमद्यमैथुनाना जीवसंसक्तिमूलकारणत्वमागमे - "आमासु य पक्कासुय, विपच्चमाणासु मंसपेसीसु। आयंतिअमुववाओ, भणिओ उनिगोयजीवाणं।।१।। मज्जे महुम्मि मंसम्मि, नवणीयम्मि चउत्थए। उप्पज्जति अणंता, तव्वण्णा तत्थ जंतुणो।।२।।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy