________________ राइभोयण ५३६-अभिधानराजेन्द्रः - भाग 6 राइभोयण चत्वारो विभागा लेखितव्याः। प्रदोषे अजागरणं त्रैरात्रिकस्वाध्यायवेलायां स्वपनम्, उद्गारविवेचनं प्रत्यवगिलनम् आदिमः। चतुष्कपड्क्त्या द्वितीयगृहादमूनि प्रायश्चि ___त्तानि क्रमेण स्थापयितव्यानिपणगं च भिण्णमासो, मासो लहुओ य पढमतो सुद्धो। मासो तवकालगुरू, दोहि वि लहुओ य गुरुओ य // 162|| द्वितीयगृहे पञ्चकं, तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु / प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासस्तपसा कालेन च गुरुकः / यत्र चादिपदेऽपि प्रायश्चित्तं भवति; तत्र द्वाभ्यामपि लधुकं, मध्यपदयोरपि यथासंख्यं कालेन तपसा च गुरुकम्। द्वितीयादिचतुर्पु गृहेषु पङ्क्त सर्वा अमुना प्रायश्चित्तेन पूरयितव्याःलहुओ गुरु मासो, चउरो लहुगा य हॉति गुरुगाय। छम्मासा लहुगुरुगा, छेदो मूलं तह दुगं च / / 162|| द्वितीयस्यां पङ्क्तौ त्रिषु गृहेषु लधुमासश्चतुर्थे गुरुमासः। तृतीयस्यां त्रिषु गुरुमासः, चतुर्थ चतुर्लघु। चतुर्थ्या त्रिषु चतुर्लघु, चतुर्थे चतुर्गुरु / पञ्चम्यां त्रिषु चतुर्गुरु, चतुर्थे षड्लघुषष्ठ्यां त्रिषु षड्लघु, चतुर्थेषड्गुरु। सप्तम्यां त्रिषु षड्गुरु, चतुर्थे छेदः / अष्टम्यां पङ्क्तौ चतुर्पु गृहेषु छेदमूलानवस्थाप्यपाराञ्चिकानि / तथा चाऽऽहजह भणियचउत्थस्स, तह इयरस्स य पढमे मुणेयव्वं / पत्ताण होइ भयणा, जे जतणा गंतु वत्तव्यो।। 16 / / / यस्यां पूर्वस्यां पक्तौ चतुर्थे स्थाने भणितम् / गाथायां सप्तम्यर्थे षष्ठी, तथेरतरस्याअग्रेतन्याः पङ्क्ते प्रथमेषु त्रिषु स्थानेषु प्रायश्चि ज्ञातव्यम्। अन्त्यपदेषु पुनस्ततएव यतना, यथा यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणस्तेषां चतुर्थे स्थापने मासलघुरूपं यत्पुनः प्रायश्चित्तमुक्तं तदेव तेषामेवायतनावतामाद्येषु त्रिषु स्थानेषु भवति / अन्यपदेतु मासगुरुकमित्येवं प्राप्तभूमिकादिष्वपि भजना-प्रायश्चित्तरचना विज्ञेया, नवरमन्त्यपङ्क्त्यां छेदमूलानवस्थाप्यपाराञ्चिकानि भवन्ति। एतेण सुत्तनुगतं, सुत्तणिवाते इमे तु आदेसा। लोहीय अउमपुण्णा, केइ पमाणं इमं बॅति 11 165 / / तत्तत्थमिते गंधे, गलगपडिगते तहा अणाभोगे। एते ण हॉति दोण्णि वि, सुहणिग्गतणा तुयोगिलणा।। 166|| एतत्सर्वमपि प्रसङ्गतो विनेयानुग्रहार्थमुक्तम्, नैतेन सूत्रं गतार्थ तव सूत्रस्य निपातो भवति। तत्रामी आदेशा भवन्ति-'लोही य थउमपुण्ण त्ति'गुडर्भणति-गुणकारित्वादवमं भोक्तव्यं, यथोद्गारमागच्छति / तथा चावलोही कव(ल्ली)लीतत्र दृष्टान्त-यथा कवल्यां यद्यवम प्रमाणादून मागृह्यते ततोऽन्तरन्तरुद्वर्तते, उपरि मुखं न निर्गच्छति / अथ पूर्णाआकण्ठं भृता तत उद्धर्तिता सर्वमपि परित्यजति, अग्निमपि विध्मापयति; एवमेव यद्यवममाहियते / ततो वातः शरीरान्तः सुखेनैव प्रतिचरति,तस्मिन्नुद्गारो नाऽऽयाति। अथातिमात्रं समुद्दिश्यते ततोऽन्त युपूरप्रेरित उद्गार आगच्छति, तस्मादवममेव भोक्तव्यम्। केचित्पुनराचार्यदेश्या इदं वक्ष्यमाणं प्रमाणं ब्रुवते।। तत्रानन्तरोक्तं कवली(ल्ली) दृष्टान्तं भावयतिअतिमुत्ते उग्गालो, तेणो संभुंज जुण्ण उत्तिगगसि। छड्डिजति अतिपुण्णा, तत्ता लोही ण पुण ओमा॥ 167 // गतार्था। नैषमपक्षाश्रिताः पुनराचार्यदेशीया इत्थं वदन्तितत्तऽत्थमिते गन्धे, गलगपडिगते तहा अणाभोए। एतेण हॉति दोण्णि वि, मुहणिग्गतणाउमोबिलणा / / 168|| एको नैगमपक्षाश्रितो भणति-'भत्ते कवल्लिते बिंदुपतितो यथा तत्क्षणादेव नश्यति तथा यद्भुक्तमात्रं जीर्यति ईहशमवममाहरणीयम्, एवमपरोऽस्तमिते रवौ यजीर्यते, तृतीयो गन्धेन रहितः सहितो वा यथोदार एति, चतुर्थो गलकं यावदुद्गार आगम्यते भोगेनाजानान एवं प्रतिगच्छति भूयः प्रविशति / ईहश समुद्दिशतां गुरुराह-एते द्वयेऽपि प्रकारा न भवन्ति / द्वये नाम-यत्प्रथमद्वितीयादिष्यप्युद्गारं प्रतिषेधयन्ति, ये च तृतीयचतुर्थरात्रावुद्गारमनुमन्यन्ते, एते द्वयेऽपि न घटन्ते, किं येनावश्यकयोगानांन हानिस्तावदाहारयितव्यम्। मुखनिर्गतं चोद्गारं ज्ञात्वा यः प्रत्यवगिलति तत्र निपातः। एतां संग्रहगाथां विवरीषुराहभणति जति ऊणमेवं, तत्तकवल्ले व बिंदुणासणया। बितिओ न संथरे वं, तं मुंजसु सूर जं जिले // 16 // एको नैगमनयाश्रितो भणति-यधूनं भोक्तव्यम् ततस्तप्ते कवल्ले प्रक्षिप्तस्योदकबिन्दोः तत्कालमेव यथा नशनं भवति, तथा यद्भुक्तमात्रमेव जीर्यते ईहशं भोक्तव्यम्, द्वितीयः प्राह-एवमीहशे भुक्ते न संस्तरति, तस्मात्तदीहशं भुक्ष्व यत् सूर्ये अस्तमयति जीर्यते। निग्गंधे उग्गालो, बितिए गंधो य एति ण उ सित्थं / अविजाणंत चउत्थे, पविसतिगलगं तु जो पप्प // 170 // गन्धे द्वावादेशौ। एको भणति-सूर्यास्तमितेजीणे आहारे रात्रावसंस्तरं भवति, तस्मादीदृशं भुङ्क्तां येनास्तमितेऽपि निर्गन्धोऽन्नगन्धरहित उदार एति। द्वितीयः प्राह-यदि गन्ध उद्गारस्य एति-आगच्छति तत आगच्छतु यथा सिक्थं नागच्छति तथा भुक्ताम् / एतौ द्वावप्येक एव, 'ततिया विउग्गालो एत्थि किं पुण विसातीय' आदेशः। चतुर्थो भणतिससिक्थ उद्गारो गलकं प्राप्तोऽविजानत एव यावद्भूयः प्रविशति तावद्भुक्ताम् / एते चत्वारोऽप्यनादेशाः। तथा चाहपढमे बितिए दिया वी, उग्गालो एस्थि किं पुण णिसाए। गंधे य पडिगते पुण, एए दो वी अणाएसा / / 171 / / प्रथमद्वितीययोरादेशयोर्दिवाऽप्युद्गारो नास्ति किं पुनर्निशायामित्यतस्तावदनादेशौ, यस्तृतीयो गन्धादेशो, यश्चतुर्थ उद्गारस्य गलके प्रतिगमनादेश, एतौ द्वावपि सूत्रार्थाभिप्रायबहिर्भूतत्वादनादेशौ। कः पुनरादेश इत्याह-- पडुपन्नऽणागते वा, संजमजोगाण जेण परिहाणी। एऽवि जायति तं जाणसु, साहुस्स पमाणमाहारं // 172 / /