________________ राइभोयण 524 - अमिधानराजेन्द्रः - भाग 6 राइभोयण अगीतार्थमिश्राणां तत्र वसताक्न्धकारे इयं यतना--'आण्णभोगेणं ति' तथा ते मृगा नाभोगयन्ति तथा दीपस्य अन्यव्यपदेशेनानयनं विधेयम्। / अथ गृहस्थोऽन्यव्यपदेशेनोक्तोऽपि दीपं गृहीत्वा नागच्छति ततस्तमनागतंगृहमपि गत्वा प्रज्ञापयन्ति, यथा-दीपमानय। यदि कश्चिद्वारयति तततस्तस्य शिक्षा प्रदातव्या। विशेषचूर्णोतु-'अण्णण्णे कोइ वारे त्ति' पाठः / अन्येन गृहस्थेनाग्नेनयने यदि कोऽपि अगीतार्थो वारयति ततस्तस्य नोदना कर्तव्या। इदमेव भावयतिअम्हेहि अभणिओ अ-प्पणाणु आओ णु अम्ह अहाए। आणेइ इह जोई, अयगोलं मा णिवारेह / / 807 // यदी गृही दक्षतया स्वयमेव ज्योतिरानयति, तं च कोप्यगीतार्थो वारयति, तदा स वक्तव्यः, अस्माभिरभणितः स्वयोगेन यद्येष गृहस्थ आत्मनोऽर्थ नुरिति संशये, 'उताहो' अस्मदर्थं ज्योतिरानयति, ततः किमस्माकम् एतदीयया चिन्तया, अत एव तमयोगोलकल्पं मा वारयत। गिहिणं भणति पुरओ, अइतमसमिणं न पस्सिमो किंचि / आणिंति जइ अवुत्ता, तहेव जयणा निवारेंते / 508 // अथ ते गृहस्थाः स्वयं नानयन्ति, ततो गीतार्था अन्यव्यपदेशेन तेषां गृहिणां पुरतो भणन्ति-अतितम-अतीवान्धकारमिति न पश्यामो वयं किञ्चिदपीति। यद्येवमनुक्ताः साक्षादभणिताः सन्तोज्योतिरानयन्ति; ततः सुन्दरमेव। यश्च तत्र निवारयति;तस्य यतनया तथैव नोदना कार्या। अथते गृहस्था अन्यव्यपदेशेनोक्तं नावबुध्यन्ते ततः किं कर्तव्यमित्याहगंतूण य पन्नवणा, आणण तह चेव पुटवभणियं तु। भण्ण ऑदायणा असई, पच्छायणामल्लगाईसुं। 206 / / गीताथैर्गत्वा चशब्दाद् अगत्वाऽपि तत्र स्थितैर्गृहिणां प्रज्ञापना विधेया, यथा-नपश्यामो वयमत्र बिलादिकं स्थाणुंकण्टकादिकं वा, अत उद्योतो यथा भवति, तथा कुरुता एव परिस्फुटमभिहताः सन्तः ते प्रदीपस्यानयनं कुर्वन्ति, यद्यगीतार्थो निवारयति तस्य तथैव नोदनायामयोगोलं मा निवारय इत्यादिकं पूर्वभणितमेव द्रष्टव्यम्, 'भण्ण त्ति' गृहिषु प्रदीषमानयेति प्रज्ञाप्यमानेषु यो ब्रवीति, किमेवं सावधप्रवृत्ति कारयसीति, तस्याने मिथ्यादृष्कृतभणनं कर्त्तव्यम् 'असह त्ति' अथ गृहस्थः प्रदीपमानेतुं नेच्छति, ततः 'आदायणपच्छायणमल्लगाईसुत्ति' मृगाणामदर्शने मल्लगादिभिः पृच्छा, अद्य प्रदीपः स्वयमेवानेतव्यः। अथेदमुत्तरार्द्ध विवरीषुराहगिहिजोति मग्गंतो, मिगपुरओ भणइ चोइओ इणमो। णाभोगेण मउत्तं-मिच्छाकारं भणामि अहं / / 810 // गृहिणां समीपे ज्योतिः-प्रदीपं मृगपुरतो मृगाणां श्रृण्वतामग्ने यदि केनचन्नोदितः किमेवं सावधं कारयसीति ? ततोऽसौ गीतार्थः 'इत्थं भणति'-अनाभोगेन मयेदमुक्तं ततोऽहं मिथ्याकारं भणति, मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः। एमेव जइ परोक्खं, जाणंति मिगा जहेमिणा भणिओ। तत्थ वि चोइज्जतो, सहसा णाभोगओ भणइ॥११॥ __एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणित स्तथापि यदि ते मृगाः कथमपि जानन्ति यथा एतेन साधुना गृहस्थो भणितः प्रदीपानयनाय प्रेरितः तत्राऽप्यपरेण नोद्यमानः स तु भणति-सहसाकारेण अनाभोगतो वा मयेदमुक्तं मिथ्यादुष्कृतमिति। गिहिगम्मि अनिच्छंते, सयमेवाणेइ आवरित्ताणं। जत्थ दुगाई दीवा, ततो मा पच्छकम्मं तु / / 812 // अथ गृही प्रदीपमानेतुं नेच्छति, ततः स्वयमेव मल्लकसम्पुटेन वा करिण वा कल्पे वा प्रदीपो भवति, तत्राऽपि यत्रगृहे द्विकादयो द्वित्रप्रभृतयो दीपाः, ततो गृहादानयति, कृत इत्याह-'मा पच्छकम्मं तु त्ति' यत्रैक एव दीपो भवति, तत्राऽपरप्रतापकरणलक्षणं पश्चात्कर्म मा स्यादिति कृत्वा ततः प्रदीपो वानेतव्यः। ततश्च-- उज्जोविएँ आयरिओ, किमिदं अहगम्मि जीवियट्ठीउ। आयरिए पन्नवणा, नट्ठोय मयो य पटइतो।। 813 // ज्योतिः प्रतिश्रये सति आचार्यो भणन्ति, हन्त किमिदं भवता कृतम्, सपाह-क्षमाश्रमणा ! अहमद्यापि जीवितार्थी , अतो बिलादिपरिज्ञानार्थ मयेत्थं कृतम्, तत आचार्यो मातृस्थानेन तस्य प्रज्ञापनां करोति, हन्त मृत एव त्वं, कुतो भवतो जीवितं, यत एवं कुर्वन् प्रव्रजितो नष्टश्चसन्मार्गपरिभ्रष्टः, मृतश्च संयमजीविततवरहितो भवति। तस्सेव य मग्गेणं, वारणलक्खेण निति वसभा उ। भूमितियम्मि उदिट्टे, पचप्पिय मो इमा मेरा / / 14 / / तस्यैव ज्योतिरानेतुः साधोर्गिण पृष्ठतो वारणलक्ष्येण निवारणव्याजेन वृषभा गच्छन्ति, ततो भूमित्रिके उच्चारप्रश्रवणकालभूमिलक्षणे दृष्टे सति प्रदीपं समर्पयत, 'मो' इति निपातः पादपूरणे इयं मर्यादार सामाचारी। खरंटण वण्टियभायण-गहिय निक्खिवण बाहिपडिलेहा वसएहि गहियचित्ता, इयर पसादेंति कल्लाणं / / 15 / / येन प्रदीपानयनाय अविरतकः प्रेरितो, येन वा प्रदीप आनीतः, तस्य खरण्टना कर्तव्या, ततोऽसौ वेण्टिकां भाजनानिच गृहीत्वा निक्खिवण त्ति' बहिःस्थाप्यते, निर्गच्छास्माकं गच्छात् न त्वया कार्यम् / ततोऽसौ कैतवनिष्काशितो बहिःस्थितः प्रतिलेखयति, प्रतिक्रमणं च विदधाति। ततो वृषभैर्गृहीतचित्ता इतरे मृगा गुरुं प्रसादयन्ति / ततो गुरुवस्तं भूयोऽप्यन्योऽपि पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति। अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्तीत्याहतुम्हय अम्हय अट्टा, एवमकासी न केवलं समया। खामेसु गुरुं पविसउ, बहुसुंदरकारओ अम्हं॥१६॥ आर्याः ! युष्माकमस्माकं च सादिप्रत्यपायरक्षणार्थमेष एवमकार्षीत, न केवलं स्वभयादेव / अत आगच्छत, येन सर्वेऽपि गुरुं क्षमाश्रमणं क्षमयामः, प्रविशतु बहुसुन्दकारकप्रत्यपायरक्षकतया बहुकल्याणकरोऽस्माकं भूयः प्रतिश्रयम् / एवमुक्ता मृगा वृषभैः सह समागत्य गुरु प्रसादयन्ति। ततो गरुवः वक्ष्यमाणं ब्रुवते-आर्या ! यूयमपि निर्धर्माणः सजाताः।