________________ राइभोयण 518- अभिधानराजेन्द्रः - भाग 6 राइभोयण आदिशब्दात्-प्रतिलोमे वनदवे तृणरहिप्रदेशाभावे कृत्तिं प्रस्तीर्य तिष्ठन्तीति कृत्वा तेजःकायरक्षाऽपि कृता स्यात् / गतं चर्मद्वारम्। अथाऽऽदिग्रहणलब्धे सिक्कककापोतिके . व्याख्यानयतितहिं सिक्कएहि हिंडति, जत्थ विवित्ता व पल्लिामणं वा। | परलिंगग्गहणम्मि वि, निक्खिवणट्टा व अन्नत्थ।। 747 // यत्र विविक्ता मुषितास्तत्र बन्धाभावे चौरपल्यां वा भिक्षार्थ गमनं विदधाना अलाबुकानि सिक्ककेषु कृत्वा हिण्डन्ते, चक्रचरादिलिन वा भक्तपानग्रहणे प्राप्ते सिक्ककेन पर्यटितव्यम्, अथ कल्पादेर्वा सिक्कके निक्षेपणं कार्य प्रलम्बादिकं वा सिक्ककेष्वानीयान्यत्र स्थविरगृहादौ निक्षिप्यते। जे चेव कारणा सि-कगस्स ते चेव होंति काये वि। कप्पुवधी वालादी, व वहिति तेहिं पलंबे वा / / 748|| यान्येव कारणानि सिक्ककस्योक्तानि तान्येव कार्यऽपि कापोतिकायामपि भवन्ति, यद्वा सिक्कककापोतिकयोरपि उपयोगः, कल्पम्अध्वकल्पम् उपधिमाचार्यासहिष्णुप्रभृतीनां बालादीन् वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकमूलविद्धं वा ताभ्यां सिक्क्ककापोतिकाभ्यां वहति। अथ लोहग्रहणद्वारं भावयतिपिप्पलओं विकरणहा, विवित्तजुन्ने व संधणं सूई। आरतलिसंधणहा, नखबण नक्खकंटाई||७VE|| पिप्पलकः प्रलम्ब विकरणार्थ गृह्यते। यद्वा विविक्तानां यदवशिष्यमाणं वस्त्रं यथा स्वभावजीर्ण तस्य सन्धानार्थ वा सूची ग्रहीतव्या, त्रुटिततलिकानां सारा गृह्यते, नखार्चनं नखहरणिका सा नखच्छेदनार्थ कण्टकादिशल्योद्धरणार्थ वा गृह्यते, शस्त्रको वा पुनरयं शिरावेधशस्वकं पच्छणशस्त्रकं भेदकण्टिका संदंशिका। एवमादिकस्य शस्त्रकोशस्योपयोगदर्शयतिकोसाहि सल्लकंटग, अगदोसधमाइयं तु वग्हणा। अहवा खेत्ते काले, गच्छे पुरिसे य जं जोगं / / 750 / / शस्त्रकोशेनेदं प्रयोजनम्, अहिः-सर्पस्तेन यावन्मात्रमङ्गभवष्टम्भो वा छिद्यते, शल्यं वा कण्टको वनखहारणिकया हर्तुमशक्यस्तेन उध्रियते। इह प्रतिद्वारगाथायां 'सत्थकोसेय त्ति' यश्चशब्दस्तद्ग्रणादगदौषधदिकं गृहीतस्य यदनेकद्रव्ये निष्पन्नं तदगर्हः यत्पुनरेकानिकंतत्सर्वमप्यौषधम्, 'अथवा' शब्दोपादानात् दक्षिणापथादौ यद्यत्र दुर्लभं काले-ग्रीष्मादौ यत्तु शक्नुपभृतिकं शीतलद्रव्यमुपयोगि महति गच्छे वा शक्तुरेव इत्यादिकं साधारण पुरुषस्य वा आचार्यदर्यस्य यद्योग्यं तद्यथायोगं गृहीतव्यम्। बृ० १उ०३ प्रक०। (नन्दीभाजनचर्मकरकयोरुपयोगप्रतिपादिका "एक्क भरेमि" (751) इत्यादि गाथा। एंदिभाण' शब्दे चतुर्थभागे 1757 पृष्ठेउक्ता) परतीर्थिकोपकरणमाहपरितिथिउवगरणं,खेत्ते काले य जंतु अविरुद्ध / तं रयणितलं पुट्ठा, पडिणीऍ दिया वा कोट्टादी।। 752 / / परतीर्थिका बद्धाग्निकादयस्तेषां सम्बन्धि उपकरणं यत्र क्षेत्रे काले वा अविरुध्दमर्चितं तत् रजनयां भक्तपानग्रहणार्थी प्रलम्बानयानार्थं वा कर्तव्यम्,यत्र वा प्रत्यनीका भवन्ति तत्र पर तीर्थिकवेषच्छन्ना गच्छन्ति, भक्तपानं वा उत्पादयन्ति। म्लेच्छकोट्ट वा गताः परतीर्थिकवेषेण दिवा पुद्गलाऽऽदिकं गृह्णन्ति आदिशब्दात्-प्रत्यन्तकोट्टादिपरिग्रहः।। अथ गुलिका-खोले द्वारे व्याख्यानयतिगोरसमावियपोत्ते, पुवकयदव्वस्स संभवे बोधे। असई य तु गुलियम्मि य, सुन्ने नवरंग दइयादि। 753 // गोरसभावितानि वस्त्राणि खोलानि भण्यन्ते; तेषु पूर्वकृतेषु अध्वानं प्रविष्टानां यदा प्राशुकद्रव्यस्यासम्भवस्तदानीं पोतानि भावयेयुः प्रक्षालयेयुः, अगीतार्थप्रत्ययोत्पादनार्थवाऽऽलोच्यते गोकुलादिदं संम्रष्टपापकमानीतम् / अथ न सन्ति खोलानि ततो गुलिकाः तुवरवृक्षचूर्णगुलिकाः तद्भावितपानकं प्राशुकीकृत्य मृगा अगीतार्थाः तेषां चित्तरक्षणार्थं शून्ये ग्रामे प्रतिसार्थिकादीनां नवरं गच्छतिकादेरिदं गृहीतमित्यालोचयन्ति। विशेशचूर्णोतु गुलिकाखोलपदे इत्थं व्याख्याते-"जत्थय पव्वयकोट्टासु पंडुरंगादी पुजंति संजयाण भे पडिणीया होज्जा तत्थ गुलिय त्ति वक्कलाणि घेप्पंति / खोल त्ति सीसखोलाति एरिसं वेढियव्वं / जहा न भज्जइलोयहयं सीसं ससरक्खणट्ठाए वा। अथैषामुपकरणानां ग्रहणं करोति ततः-- एकेडम्मि य ठाणे, चउरो मासा हवंति ऽणुग्घाता। आणाइणो य दोसा, विराहणा संजमायाए।। 754 / / एकैकस्मिन् स्थाने एकैकस्योपकरणस्य ग्रहणे इत्यर्थः, च-त्वारो मासा अनुद्धाता--गुरवो भवन्ति, आज्ञादयश्चदोषाः, विराधना संयमात्मविषया। अमुमेवार्थं स्पष्टतरमाहणमाइअणागयदो-स रक्खणट्ठा अगेण्हणे गुरुगा। अणुकूले निग्गमओ, पच्छा सत्तस्स सउणेणं / / 755|| एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिरक्षणार्थं ग्रहण कर्तव्यम्। अथ न गृह्णति ततः प्रत्येकं चत्वारो गुरवः / गतमुपकरणद्वारम् / अथ पूर्वप्रत्युपेक्षितेन सार्थेन गन्तव्यमिति व्याख्याति / 'अणुकूले' इत्यादि, अनुकूलं चन्द्रबलं ताराबलं वायदा सूरीणां भवति तदा निर्गमकः प्रस्थान क्रियते, निर्गताश्चोपाश्रयाद्यावत् सर्वेन प्राप्नुवन्ति तावद्यात्मनैव कुशलं गृह्णन्ति साथ प्राप्तास्तुसार्थं 'सउनेन' शकुनेन गच्छन्ति। इदमेव सविशेषमाहअप्पत्ताण निमित्तं, पत्ता सत्थम्मि तिन्नि परिसाउ। सुद्धेति पत्तआणं, अद्धाणे भिक्खपडिसेहो।। 756 // सार्थे अप्राप्तानां निमित्तं शकुनग्रहणं भवति, प्राप्तानां तु यः सार्थस्य, यथा कुलसंयतानामपि भवति / सार्थ च प्राप्ताः सन्तस्तिस्रः परिषदः कुर्वन्ति / तद्यथा-सिंहपरिषदम्, मृगपरिषदम् / तथा सर्वशुद्धो निर्दोष इति कृत्वा स्थिताः, परं यदा अध्वनि अटवीं प्राप्ता