________________ राइ 505 - अभिधानराजेन्द्रः - भाग 6 राइ णं चरति, 'ता जया ण' मित्यादि, तत्र यदा तस्मिन्सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीये मण्डले उपसक्रम्य चारं चरति तदा चतुर्भिर्मुहूर्तस्यैकषष्टिभागींनोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, चतुर्भिर्मुहूर्तस्यैकषष्टिभागैरधिका द्वादशमुहूर्तप्रमाणा रात्रिः, एवमुक्तनीत्या 'खलु' निश्चितमेतेनानन्तरोदितेनोपायेन प्रतिमण्डलं दिवसरात्रिविषयमुहूर्तकषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रामनन्मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखे गच्छन् सूर्यः, 'तयाणंतरा' इति तस्माद्विवक्षितादनन्तरान्मण्डलात्'तयाणंतर' मितितद्विवक्षितमनन्तरं मण्डलं संक्रामन् संक्रामन् एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् निर्वेष्टयन् हापयन् हापयन् रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् अभिवर्द्धयन्त्र्यशीत्यधिकशतततमे अहोरात्रे प्रथमज्ञण्मासपर्यवसानभूते सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति 'ता-' इति--ततो यदा तस्मिन् काले अहोरात्ररूपेणमिति प्रागिव सूर्यः सर्वाभ्यन्तरान्मण्डलान्ममण्डलपरिभ्रमणगत्या शनैः शनैः निष्क्रम्य सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय' भर्यादीकृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्पष्टीनिषट्षष्ट्यधिकानि मुहूर्त्तकषष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेष्ट्य' हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूर्त्तकषष्टिभागशतानि षट्षष्ट्यधिकानि अभिवद्ध्यं चार चरति, तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्तापरमप्रकर्षप्राप्ता उत्कर्षिकाउत्कृष्टा अष्टादशमुहूर्ता अष्टादशमुहूर्तप्रमाणा रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा--एतत् प्रथम षणमासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्, एष त्र्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानम्। 'से पविसमाणे' इत्यादि, सः-सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानःप्रतिपद्यमानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्वबाह्यान्मण्डलादगिनन्तर द्वितीयं मण्डलमुपसंक्रम्य चारं चरति 'ता' इतितत्र यदा सूर्यो बाह्यात्-सर्वबाह्यान्मण्डलादक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामूना अष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्त कषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरं स सूर्यः प्रविशन् द्वितीयस्य षण्मासस्य द्वितीये अहोरात्रे 'बाहिरं तच्चं' ति सर्वबाह्यान् मण्डलादत्किनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि, ततो यदा णमिति पूर्ववत्, सूर्यः सर्वबाह्यान्मण्डलादर्वाक्तनं, तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूर्ता रात्रिश्चतुर्भिः 'एगट्ठिभागमुहुत्तेहिं ति प्राकृतत्वाद् यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्योमुहूर्त्तकषष्टिभागैरूना भवति, चतुर्भिर्मुहूर्तकषष्टिभागैरधिको द्वादशमुहुर्ती दिवसः। एवं खलु एएण' मित्यादि,एवं- | उक्तनीत्याखल्वेतेनअनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविष मुहुर्त्तकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् 'तयाणंतराउ' ति तस्ताद्विवक्षितान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् एकैकस्मिन् मण्डले मुहूर्तस्य द्वौद्वावेकषष्टिभागौरजनिक्षेत्रस्य निर्वेष्टयन दिवसक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मूहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् अभिवर्द्धयन् त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषणूसपर्यवसानभूते सव्वन्भतरं' ति सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, 'ता' इति-ततो यदायस्मिन् काले णमिति पूर्ववत्, सूर्यः सर्वबाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरंमण्डलमुपसंक्रम्य चारं चरति तदा सर्वबाह्यमण्डलं 'प्रणिधाय' मर्यादीकृत्य तदवीक्तनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन त्र्यशीत्यधिकेन रात्रिदिवशतेन त्रीणि षट्पष्टीनि-षट्षष्ट्यधिकानि मुहूर्त्तस्यैकषष्टिभागशतानि रजनिक्षेत्रस्य निर्वेष्टय हापयित्वा दिवसक्षेत्रस्य च तान्येव त्रीणि षट्षष्टीनि मुहूर्त्तकषष्टिभागशतानि अभिवयं चारं चरति, तदा णमिति वाक्यलंकारे, उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षकः उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या च द्वादशमुहूर्ता रात्रिः, एतद् द्वितीयं षण्मासं, यदि वा-एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात् एष षट्षष्ट्यधिकत्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एष एवंप्रमाण आदित्यसंवत्सरः, एषषट् षष्ट्यधिकत्रिशततमोऽहोरात्रोः 'आदित्यस्य' आदित्यसम्बन्धिनः संवत्सरस्य पर्यवसानम्। सम्प्रत्यपसंहारमाह- 'इह खलु तस्सेव' मित्यादि, यस्मादेवम् 'इति' तस्मात्कारणात्तस्यादित्यस्य-आदित्यसंवत्सरस्य' मध्ये 'एवम्' उक्तेनप्रकारेण सकृद्' एकवारमष्टादशमुहूर्तो दिवसो भवति सकृचाष्टादशमुहूर्ता रात्रिः, तथा सकृद् द्वादशमुहूर्तो दिवसो भवति सकृय द्वादशमुहूर्ता रात्रिः, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्ता रात्रिः, साच प्रथमषण्मासपर्यवसानभूतेऽहोरात्रे, नत्वष्टादशमुहूर्तो दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्तो दिवसः, सोऽपि प्रथमषण्मासपर्यवसानेऽहोरात्रे, नतु द्वादशमुहूर्ता रात्रिः, द्वितीये षण्मासेऽस्त्येतद् यदुत अष्टादशमुहूर्तो दिवसो भवति, स च द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे नत्वष्टादशमुहूर्त रात्रिः, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयषण्मासे अस्ति द्वादशमुहूर्ता रात्रिः, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे,नपुनरस्त्येतत् यदुत द्वादशमुहूर्तो दिवसो भवतीति, तथा प्रथमे वा षण्मासे नास्त्येतत्यदुतपञ्चदशमुहूर्ता रात्रिः, किंसर्वथा नेत्याह-नान्यत्ररात्रिन्दिवानांवृद्ध्यपवृद्धेन्यत्र नभवति, रात्रिन्दिवानां तु वृद्ध्यपवृद्धौ च भवत्येव पञ्चदशमुहूर्तारात्रिः पञ्चदशमुहूर्तो दिवसः, ते च वृद्ध्यपवृद्धी रात्रिन्दिवानां कथं भवत इत्याह-'मुहत्ताणं चयोवचएण' मुहूर्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेनधिकत्वेन वृद्धिः, अपचयेन-हीनत्वेनापवृद्धिः। इयमत्र भावनापरिपूर्णपञ्चदशमुहूर्तप्रमाणे दिवसरात्रीन भवतो, हीनाधिकपञ्चदशमुहूर्तप्रमाणे तु दिवसरात्री भवतः, एवम् अन्नत्थ वा अणुवायगईए, इति, वाशब्दः प्रकारान्तर