________________ रहणेमि 498 - अभिधानराजेन्द्रः - भाग 6 रहणे मि तहाविते न इच्छामि, जइऽसि सक्खं पुरंदरो / / 11 / / धिरत्थु तेजसो कामी, जो तं जीवियकारणा। वंतं इच्छसि आवेळं, सेयं ते मरणं भवे // 42 // अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर // 43 / / जइतं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्ध व हडो, अट्ठिअप्पा भविस्ससि // 4 // गोवालो भंडवालो वा, जहा तहव्वऽणिस्सरो। एवं अणीसरो तंपि, सामन्नस्स भविस्ससि ||4|| सूत्रसप्तकं पाठसिद्धं, नवरं 'भगुज्जोयपराइयं ति' भग्रोद्योगः अपगतोत्साहः प्रस्तावात् संयमे। स चासौ पराजितश्च-अभिभूतः स्वीपरीषहेण भनोद्योगपराजितस्तम् असम्भ्रान्तानायं बलादकार्ये प्रवर्त्तयितेत्यभिप्रायेणावस्ता आत्मानं-स्वं 'संवरे त्ति' समवारीत् आच्छादितवती चीवरैरिति गम्यते, तस्मिन् इति लयनमध्ये पीडया शङ्कया च भयं स्यादित्येवमुक्तम् / सुस्थिता-निश्चला 'नियमव्रते' इतीन्द्रियनोइन्द्रियनियमने--प्रव्रज्यायां च जातिं कुलं शीलं च 'रक्खमाणि ति' रक्षन्ती, शीलध्वंशे हि कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनातस्ते अपि विनाशिते स्यातामित्येवमुक्तम्, यद्यपि असिभवसि रूपेण-आकारसौन्दर्येण वैश्रमणः-धनदः ललितेन–सविलासचेष्टितेन नलकूवरः-देवविशेषः 'ते' इति त्वां साक्षात्-समक्षः पुरन्दरःइन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः, रूपाद्यभिमानी चायमित्येवमुक्तः। अपरं च-धिगस्तुते-तव पौरुषमिति गम्यते,अयशः कामिन्निव अयशः कामिन्!-अकीर्त्यभिलाषिन् ! दुराचारवाञ्छितया,यद्वा ते-तव यशोमहाकुलसम्भवोद्भूतं धिगस्त्विति सम्बन्धः, कामिन् !-भोगाभिलाषिन्! जीवितकारणात् जीवितनिमित्तमाश्रित्य, तदनासेवने हि तथाविधदशावाप्तौ मरणमपि स्यादित्येवमभिधानम्, वान्तम्-उद्गीर्णं यत् शृगालैरपि परिहृतंतदिच्छस्यापातुम,यथाहि-कश्चिद्वान्तमापातुमिच्छत्येवं भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमिवापातुम्उपभोक्तुमिच्छति अतः श्रेयः-कल्याणं ते-तव मरणं भवेत्, न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात्। अनूदितं चैतद्- "विज्ञाय वस्तुनिन्द्यं, त्यक्त्वा गृह्णन्ति किं वचित्पुरुषाः? वान्तं पुनरपि भुङ्क्ते, न च सर्वः सारमेयोऽपि // 1 // ' 'अह' मित्यात्मनिर्देशे चः-पूरणे 'भोजराजस्य-उग्रसेनस्य त्वं च असि-भवसि अन्धकवृष्णेः कुले जातः इत्युभयत्र शेषः, अतश्च मा इति निषेधे कुले-अन्वये 'गंधणे त्ति' गन्धनाना--सर्पविशेषाणां 'होमो क्ति' भूव, तचेष्टितानुकारितयेति भावः ते हि वान्तमपि विष ज्वलदह्निपातभीरुतया पुनरपि पिवन्ति, तथा च वृद्धाः-"सप्पाणं किल दो जाईओ-गंधणा य; अगंधणा य / तत्थ गंधणाणाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमज्झवसंति ण य वंतमावियं ति।" किं तहिं कृत्यमित्याह-संयम निभृतः-स्थिरः चर आसेवस्व, यदि त्वं भाव प्रक्रमाद्भोगाभिलाषरूपं यो याः "दिच्छसि त्ति' द्रक्ष्यसि तासु तास्विति गम्यते, ततः किमित्याह-वातेनाविद्धः-समन्तात्ताडितो वाताविद्धो भ्रमित इति यावत्। हठोवनस्पतिविशेषः स इवास्थितात्माचञ्चलचित्ततयाऽस्थिर-स्वभावः / गोपालः-योगाः पालयति, भाण्डपालो वा-यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च- 'दण्ड-पालो वा नगररक्षको वा' यथा-तद्रव्यस्य गवादेः सततरक्षणीयस्य अनीश्वरः-अप्रभुः, विशिष्टतत्फलोपभोगाभावात्, एवमनीश्वरस्त्व-मपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्याऽपि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः। एवं तयोक्तो रथनेमिः किं कृतवानित्याह?तोसे सो वयण सुचा, संजईए सुभासियं / अंकुसेण जहा नागो, घम्मे संपडिवाइओ॥४६|| मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामन्नं निचलं फासे, जावज्जीवं दढव्वओ // 47 // सूत्रद्वयम्, तस्याः-राजीमत्याः सः-रथनेमिः वचनम् - अनन्तरोक्तानुशिष्टिरूपं श्रुत्वा-आकर्ण्य संयतायाः-प्रव्रजितायाः सुष्ठसंवेगजनकत्वेन भाषितम्-उक्तं सुभाषितम्, अङ्कुशेनप्रतीतेन, यथानागः-हस्ती पथिइति शेषः, एवं धर्मे चारित्रधर्मे 'संपडियाइओ त्ति' 'सम्प्रतिपातितः संस्थितः, तद्वचसैवेतिगम्यते। अत्र च वृद्धसम्प्रदायः"णेउरपंडियाक्खाणयं भणिऊणजाव ततो रुद्रेण राइणा देवी मेंठो हत्थीय तिन्नि विछिन्नकडगे चडावियाणि, भणिओय मेंठो-एत्थं वाहेहि हत्थिं, दीहि य पासेहिं वेणुग्गहा ठविया, ०जाव एगो पाओ आगासे ठविओ। जणो भणइ-किं एस तिरियो जाणइ? एयाणि मारेयव्वाणि, तहावि राया रोसं न मुञ्चति, ततो अ तिन्नि पाया आयासे कया, एगेण ठितो, लोगेण अक्कंदो कतो-किमेयं हत्थिरयणं दावाइजति? रण्णा मिठो भणिओ-तरसि णियत्तेउं? भणइ-जइ दुयग्गाणवि अभयं देसि, दिण्णं, ततो तेण अंकुसेण नियत्तिओ हत्थि त्ति।" इह चायमभिप्रायःयथा-अयमीदृगवस्थो द्विपोऽड्कुशवशतः पथि संस्थित एवमयमप्युत्प-- नविश्रोतसिकस्तद्वचेनन अहितप्रवृत्तिनिवर्तकतयाऽङ्कुशप्रायेण धर्म इति, ततश्च श्रामण्यं निश्चलं-स्थिरं 'अस्पाक्षीद्-आसेवित-वान, शेष स्पष्टमिति सूत्रद्वयार्शः। उभयोरप्युत्तरवक्तव्यतामाहउग्गं तवं चरित्ताणं, जाया दुन्नि वि केवली। सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं / / 48|| उग्रं कर्म रिपुदाणतया तपः-अनशनादि चरित्ताणं ति' चरित्वाजातीभूतौ द्वावपीति-रथनेमिराजीमत्यौ, 'केवली ति' केवलिनी सर्व निरवशेषकर्मभवोपग्राहि 'खवित्ताणं ति' क्षपयित्वा सिद्धि प्राप्तावनुत्तरामिति सूत्रार्थः। सम्प्रति नियुक्तिरनुश्रियतेसोरियपुरम्मि नयरे, आसी राया समुद्दविअओ त्ति।