SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ मोहणिञ्जट्ठाण 465 - अभिधानराजेन्द्रः - भाग 6 मोहणिजट्ठाण जो य माणुस्सए भोगे, अदुवा पारलोइए। तेऽतिप्पंतो आसायइ, महामोहं पकुव्वइ // 32 // यश्च मानुष्यकान् भोगान्, अथवा-पारलौकिकान 'ते' इति विभक्तिविपरिणामत्वात् तेषु वा अतृप्यन् तृप्तिमगच्छन् आस्वादते-अभिलषति आश्रयति वा स महामोहं प्रकारोतीति अष्टाविंशति-तमम्।।२।। इड्डी जुइ जसो वन्नो, देवाणं बलवीरियं / तेसिं अबण्णयं बाले, महामोहं पकुव्वइ // 33 // ऋद्धिः-विमानादिसम्पत्, द्युतिः-शरीराभरणदीप्तिः, यशः कीर्तिः, वर्णः-शुक्लादिः शरीरसम्बन्धी देवानां सम्यग्दृशाम् वैमानिकादीनां बलम्-शारीरं वीर्यम्-जीवप्रभवमस्तीत्यध्याहारः तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्-अश्लाघाकारी अथवा-अवर्णवान् केनोल्लेखेन देवानामृद्धिर्देवानां धुतिरित्यादि काक्का व्याख्येयं न किञ्चिदेवा नामृद्ध्यादिकमस्ति इत्यवर्णवादभावार्थः / यद्वा--किममी कामग्रस्ता धर्मानुष्ठानं कर्तुमसममर्थाःअविरता इति कथनमपि महान् दोषः। तथा चोक्तम्-"पंचहिं ठाणेहिं जीवा दुल्लमबोहियत्ताए कम्मं पकरेंति, तंजहा-अरहंताणमवन्नं वदमाणे 2, अरहंतपन्नत्तस्सधम्मस्स अवनं वदमाणे 2, आयरियउवज्झायाणमवन्नं वदमाणे ३,चाउवन्नस्स संघस्सअवन्नवदमाणे 4, विवक्तवबंभचेराणंदेवाणमवन्नं वदमाणे ५,"तत्र पञ्चमपदव्याख्या-"विपक्कं सुपरिनिष्ठितंप्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां, विपक्वं वा उदयागतं तपो ब्रह्मचर्य तद्धेतुकं देवायुष्कादि कर्म येषां ते तेषामवर्णवादं वदन् दुर्लभबोधितया कर्म करोति। तदेवम्-'नसन्त्येव देवाः कदाचनानुपलभ्यमानत्वात, किं वा तैः विटैरिव कामासक्तमतोभिरविरतैः, तथा नि थैरचेष्टश्च क्रियमाणैरिव प्रवचनकार्यानुपयोगिकैश्चेत्यादिकम् "य एवंभूतः स महामोहं प्रकरोतीत्येकोनत्रिंशत्तमम् / / 2 / / अपस्समाणो पस्सामि, देवा जक्खा य गुज्झगा। अण्णाणी जिणपूयट्ठी, महामोहं पकुय्वइ // 3 // अपश्यन्नपि यो ब्रूते-पश्यामि देवानित्यादि / तत्र देवा वैमानिकज्योतिष्काः यक्षाश्व-व्यन्तरा--गुह्यकाश्च भवनवासिनः तान् तान् स्वरूपेणाज्ञानी, जिनस्यैव पूजामर्थयते यः स जिनपूजार्थी गोशालकवत् स महामोहं प्रकरोतीति त्रिंशत्तमम् // 30 // साम्प्रतमुक्तरूपाणि मोहनीयस्थानानि उपसंहरन्नुपदेशसर्वस्वमाहएते मोहगुणा वुत्ता, कम्मंता चित्तवडणा। जे तु भिक्खू विवजेजा, चरिज ऽत्तगवेसए॥३५|| एते-अनन्तरोक्ताः मोहगुणाः, अथवा-मोहानां गुणाः गुणकारका मोहसम्बन्धं प्रतीति मोहगुणाः नमोक्ष प्रतियद्वा-मोहाश्च ते मोहगुणाश्चमोहगुणाः प्राकृतत्वात्पूर्वपदलोपः, यथा गुणेहि-साहुगुणेहिं' इत्यादौ, कथं भूताः? इत्याह-कर्मता-कर्मकारणानि, अथवा--कर्माण्येव अन्तः-- अवसानं फलं येषांते कर्मान्ताः, चित्तवर्धनाः-मोहरूपस्य चित्तस्य वर्धना वृद्धिकारणानि 'चित्तबद्धणा वा' पाठः तत्रापि चित्तम्- संक्लेशरूपम् | अशुभम्बन्धरूपं तद्वर्धनाः, तान् इत्यध्याहार्यम्, 'जे उ' त्ति यान् मोहप्रकारान् भिक्षुः- महात्मा वर्जयित्वा चरेत्, संयमाध्वनि चरेत् वा--- आचरेत् क्षान्त्यादिकं दशप्रकारं धर्मम्, कथंभूतः सन्-'अत्तगवेसए' आप्ताः-तीर्थकराः तेषां गवेषको नाम-तद्वचनानुसरणपरः आप्तगवेषकः,यदा-आत्मानं गवेषयति, न परम् इत्यात्मगवेषकः; संवेगपर आत्मचिन्तकः। पुनः कुर्याद्? इत्याहजं पि जाणे इतो पुव्वं, किया चिचं बहुं जढं। तं चत्ताताणि सेवेला,जेहिं आयारवं सिया॥३६॥ यतःजानीयात् वक्ष्यमाणम् इतः-अस्मात्प्रव्रज्याकालात् पूर्वं कृत्यम्कुटुम्बपोषणसुतोत्पादनादिकम् अकृत्यम्-चौरहननकूटतुलाव्यापारपरवञ्चनादिकं बहु-अनेकप्रकारम् 'जढ' त्यक्तम्, तथा बहुजदं नाममातापित्रादिस्वजनबन्धंतं त्यक्त्वा वान्त्वा वा, तानि यथोचितानि सेवेत यैराचारवान् चारित्रवान् स्यात्-भवेत्। आयुगुत्तो उ सुद्धप्पा, धम्मे ठिया अणुत्तरे। बमे कम्मे सए दोसे, विसमासीविसो जहा॥३७॥ आचारवानिति अध्याहार्यम्, एवंविधश्च सन्यो गुप्तो गुप्तियुक्तः, अथवा--- आचारेण ज्ञानाचारादियुक्तः शुद्धः- पापकृत्यपरित्यागने आत्मा यस्यासौ शुद्धात्मा, धर्मे दशविधे क्षान्त्यादिके स्थित्वा अनुत्तरे अनल्पे ततो जीवः निर्मलत्वादेव वमेत्-त्यजेत्, स्वीयान्-आत्मीयान् दोषान् विषयकषायरूपान्, कः? किमिव-आशीविषो-विषमिव, यथासो विषं त्यजेत् त्यक्त्वा वानपुनरावर्तेत एवमसावपीति उपनयोव्यक्तः! ___ सच यथाभूतो यचाप्नोति तदाहसुवंतदोसे सुद्धप्या, धम्मऽट्ठी विदितापरे। इहेव लभते कित्तिं, पेचाय सुगतिं चरिं // 38 // सुष्ठवतिशयेन वान्तदोषः शुद्धात्मा धर्मः श्रुतचारित्रलक्षणस्तस्याओं विद्यतेऽस्मिन्नितिधर्मार्थी विदितं-ज्ञातम् अपरंमोक्षो येन स विदितापरः, अपरग्रहणात्पूर्वग्रहणमपि; दत्त इत्युक्ते, देवदत्त-ग्रहणवत्। स चैवंभूत इहैव लभते-प्राप्नोति कीर्ति प्रशंसारूपाम्। अथवा-कीर्तिमित्युपलक्षणमामाँषध्यादिकमप्याप्नोति पेचाय' ति प्रेत्यपरलोके सुगतिसुष्ठु गतिं मुक्तिरूपां लभते। उक्तोपसंहारमाहएवं अभिसमागम्म, सूरा दठपरकमा। सय्यमोहविणिम्मुका,जातीमरणमिच्छिया / / 3 / / एवम्-पूर्वोक्तप्रकारेण अवधारणेवा, अभिः-आभिमुख्येसम्-एकीभावे आङ्-मर्यादाऽभिविध्योः गम्लसृपृगतौ। सर्वे गत्यर्थाः धातवःज्ञानार्था ज्ञेयाः। ज्ञात्वा गुणदोषानित्यर्थः; शूराः-तपसि परीषहसहेन च दृढपराक्रमाः समाधृततपउपधानाद्यनुष्ठाननिर्वाह-काः न तु तद्भञ्जकाः, अथवा-ज्ञाननयकथनात्करणनयोऽपि गृहीतोऽत्र, ते चैवं ज्ञात्वा कुर्वन्ति ततः किमस्य फलमित्युच्यते, 'सव्वमोहे' तिसर्वमोहः-अष्टकर्मप्रकृतिरूपः तस्माद्विशेषेण नितरामतिशयेन मुक्ताः यदा निरवशेषो मोहोगतो भवति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy