________________ मोक्ख 445 - अमिधानराजेन्द्रः - भाग 6 मोक्ख सुखसंदोहनिवासयोग्यं भवतीत्यर्थः / इति // 1170 / 1171|| 9172 / 1173 // आह-ननु पूर्वं ज्ञानक्रियालक्षणाद् द्वया मोक्षः, इदानीं तु ज्ञानतपःसंयमरूपात् वितयादसावुच्यते, इति कथं न पूर्वापरविरोधः? इत्याशयाऽऽहसंजमतवोमई जं, संदरनिज्जरफलामया किरिया। तो तिगसंजोगो विहु, ताउ चिय नाणकिरियाओ ||1174 // संयमतपोमयी संवरनिर्जरफला च यद्-यस्माद् तीर्थकरगणधराणां मतासंमता क्रिया, ततस्तस्माज्ज्ञानतपःसंयमरूपस्त्रिकसंयोगोऽप्यसौ; ते एव पूर्वोक्त ज्ञानक्रिये, नाधिकं किञ्चिदिति। इदमुक्तं भवतिएकैव चारित्रक्रिया संयमतपोभेदाद् द्विधा भिद्यते, तपःसंयमरूपत्वाचारित्रस्य। अतएव संवरो निर्जराचतस्याः फलम्, संयमस्याऽऽश्रवद्वारसंवरहेतुत्वात्, तपसस्तु कर्मनिर्जराकारणत्वात् / अतो यद्यपीह ज्ञानादित्रयाद् मोक्ष उच्यते, तथापि तपःसंयमयोः क्रियायामेवैकस्यामन्तर्भावाज्ज्ञानक्रियालक्षणद्वयादेवायम्, इति न कश्चिद् विरोधः / अपरस्त्वाह-ननु "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति प्रसिद्धम्, अत्रतु ज्ञानचारित्राभ्यां स प्रतिपाद्यते, इति कथं न विरोधः? एतदप्ययुक्तम्, अभिप्रायापरिज्ञानात्, यतो-ज्ञानग्रहणेनैवेह सम्यक्त्वमाक्षिप्यते, सम्यक्त्वमन्तरेण ज्ञानस्याप्यभावात, मिथ्यादृष्टिज्ञानस्याज्ञानत्वेनासकृत्प्रतिपादनात्, तथा-ज्ञानविशेष एव सम्यक्त्वम्, इति प्रागत्राप्युक्तमेव, तद्यथा-'नाणमवायधिईओ, देसणमिटुंजहोग्गहेहाओ। तह तत्तरुई सम्मं, रोइज्जइ जेण तं नाणं 1' तस्माज्ज्ञानान्तर्गतमेव सम्यक्त्वम्, अतो ज्ञानग्रहणात् तद् गृहीतमेव इत्यलं प्रसङ्गेन / तदेवं व्याख्याता नाणं पयासयं' इत्यादि गाथा // 1174|| अथ भावे खओवसमिए' इत्याधुत्तरगाथासंबन्धनार्थमाह-- न लहइ सिवं सुयम्मि वि, वटुंतो अचरणो त्तिजं तस्स। हेऊ खओवसमओ, जह वहृतोऽवहिण्णाणे ||1175|| इह 'जं ति' 'सुयनाणम्मि वि जीवो वट्टतो सो न पाउणइ मोक्खं' इत्यादि गाथायां यत् पूर्वं प्रतिज्ञातमित्यर्थः। किं प्रतिज्ञातम्? इत्याह'न लभते शियं-मोक्षं श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति / तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः। कः? इत्याह 'खओवसमओ त्ति क्षायोपशमिकत्वात्- श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात्, मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः / यथाऽवधिज्ञाने वर्तमान इति दृष्टान्तः // 117 // अत्र परः प्राह-ननु यद्येवम्,तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः असुष्मादेव च दृष्टान्तादिति। कः किमाह?क्षायोपशमिके चरणसहितेऽपि ज्ञानेन भवत्येव मोक्ष इति सिद्धसाध्यतैव,किन्तु-क्षायिकज्ञानचारित्राभ्यामेव मोक्ष इति। एतदेवाहसक्किरियम्मि विनाणे, मोक्खो खइयम्मिन उखओवसमे। सुत्तं च खओवसमे,न तम्मि तो चरणजुत्ते वि।।११७६|| गतार्थव / / 1176 / / __ आह-यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षोनिषिद्ध इत्यतश्वरणसहितात् ततः प्राग् यद् मोक्षाभिधाने तच्छून्य चित्तभाषितमेव। नैवम्, यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव, यस्मात् श्रुतज्ञानचारित्राभ्यां क्षायिकज्ञानचारित्रे लभ्येते, ताभ्यां च मोक्षः संप्राप्यते। ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति। एतदेवाहजं सुयचरणेहिंतो, खाइयनाणचरणाणि लब्मंति। तत्तो सिवं सुयं तो, सचरणमिह मोक्खहेउ ति॥११७७।। व्याख्याताथैव / / 1177 // ननु कुतः पुनरिदमवसीयते यत्क्षायोपशमिकेभावे श्रुतं वर्तते? उच्यतेआगमे तथैवाभिधानात्। कः पुनरेवमागमः? इत्याह- 'भावे खओवसमिए' इत्यादि इत्येवमेकया पातनयेयं गाथा संबध्यते। अथ पातनान्तरं चिकीर्षुराह-- अहवा निजिण्णे चिय, कम्मे नाणं ति किं य चरणेणं / न सुयं खयओ केवल-नाणचरित्ताई खइयाइं॥११७८।। तेसु य ठियस्स मोक्खो, तो सुयमिह सचरणं तदवाए। तं कह मीसंखइयं, च केवलं जं सुएऽभिहियं // 1176 / / 'अहव त्ति' अथवा, पर आह-ननु च स्वावारके कर्मणि तावत् सर्वथा निर्जीर्णे-परिक्षीणे सर्वमपि ज्ञानमुत्पद्यते, न तूदयप्राप्ते / ततश्च यथा चारित्रमन्तरेणापि कथमपि तज्ज्ञानावरणं कर्मक्षीणम्, तथा मोक्षलाभावारकमपि कथमप्येवमेव क्षयमुपयास्यति, ततोज्ञानादेव केवलाद्मोक्षो भविष्यति, किं चारित्रेणेति? अत्रोत्तरमाह-'नसुयं खयउत्ति' सर्वमपि ज्ञानं स्वावरणे सर्वथा क्षीणे समुत्पद्यते, इत्येतदसिद्धम्, यस्मात् श्रुतज्ञानम्, उपलक्षणत्वाद् मत्यवधिमनः पर्यायज्ञानानि च न स्वावरणक्षयात्, किन्तु-तत्क्षयोपशमादेवैतानि जायन्ते / क्षायिकं त्वेकमेव केवलज्ञानम्, तथा क्षीणमोहसबन्धि चारित्रं च क्षायिकम्, तयोश्च स्थितस्याऽऽनन्तर्येण मोक्षो जायते / ततः सचरणं श्रुतमिह तदर्थाय क्षायिकज्ञानचारित्रलाभाय भवति, इत्येवं परम्परया चारित्रसहि-तात् श्रुताद् मोक्षप्राप्तेः पूर्वोक्तं न विरुध्यते / परः प्राह-कथं पुनरि-दं विज्ञायतेतत् श्रुतज्ञानं मिश्र क्षायोपशमिकं, केवलज्ञानं तु क्षायिकमिति?आचार्यः प्राह-यद्-यस्मात्, श्रुते-आगमेऽभिहि-तमेतत्। इति गाथादशकार्थः // 1176 // किं तदभिहितम्? इत्याहभावे खओवसमिए, दुवालसंग पि होइ सुयनाणं। केवलियनाणलंभो,ऽनण्णत्थ खए कसायाणं / / 1180|| भवनम्-भावः, भवतीति-वा-भावः, तत्र भावे श्रुतज्ञानं भवति। कस्मिन् ? इत्याह-क्षयोपशमाभ्यां निवृत्तः, क्षयोपशमावेव वा क्षायोपशमिक स्तत्रैव भवति, न त्वौदयिकादिके / कियत् ? इत्याह-द्वादशाङ्गानि यत्र तद् द्वादशाङ्गम्, अपिशडदाद्--बाह्यमपि सर्वम्, तथा-प्रत्यवधिमनःपर्यायज्ञानत्रयमपि, तथा-क्षायिकौप