SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ मोक्ख 436- अभिधानराजेन्द्रः - भाग 6 मोक्ख एतदेवाऽऽहतात्त्विको नात्मनो योगो, होकान्तापरिणामिनः। कल्पनामात्रमेवं च, क्लेशास्तद्धानमप्यहो // 25 // (तात्त्विक इति) तात्त्विक:-पारमार्थिको नात्मनो हि योगः-- संबन्धः एकान्तापरिणामिनः सतो युज्यते। एवं च अहो इति आश्चर्ये, क्लेशास्तद्धानमपि कल्पनामात्रम्; उपचरितस्य भवप्रपञ्चस्य प्रकृतिगतत्वं विनाऽपि अविद्यामाननिर्मितत्वेन बौद्धनयेन वेदान्तिनयेनाऽपि च वक्तुं शक्यत्वात्, मुख्यार्थस्य च भवन्मतनीत्याऽद्याप्यसिद्धत्वादित्यर्थः / / 25|| काल्पनिकत्वेनैवैतन्मतम्, अन्यदपीत्थं दूषयन्नाहनृपस्येवाभिधानाद्यः,सातबन्धः प्रकीर्तितः। अहिशङ्काविषज्ञाना-बेतरोऽसौ निरर्थकः॥२६|| (नृपस्येति) नृपस्येव लथाविधनरपतेरिवाभिधनाद् राजाऽय मिति भणनरूपायः सातबन्धः-सुखसंबन्धरूपःप्रकीर्तितः,नित्येऽप्यात्मनि परैः। अहिनाऽदष्टस्यापि तथाविधप्रघट्टकव शादहिशङ्काविषज्ञाचेतरोऽसातबन्धः असौ निरर्थकः कल्पनामात्रस्यार्थासाधकत्वादेव? अथ प्रकृतौ कर्तृत्वभोक्तृत्वाभिमानोपवर्णनमात्रमेतत्, तन्निरासार्थमेव च सकलशास्त्रार्थोपयोग इति को दोषः? तत्त्वार्थसिद्ध्यर्थमुपचाराश्रणस्यापि अदुष्टत्वादिति चेन्न, तत्त्वार्थस्यैवात्मनाश्चद्रूपत्वे मुक्त्यवस्थायां विषयंपरिच्छेदकत्वस्याप्यापत्तेः ज्ञानस्य ज्ञानत्ववत्सविषयकत्वस्यापि स्वभावत्वात्, अन्तःकरणाभावेऽर्थपरिच्छेदाभावस्य च निरावरणज्ञाने तस्याहे-तुत्वेन वक्तुमशक्यत्वात् / दिदृक्षाभावेऽपि दर्शनानिवृत्तेः / प्राकृता-प्राकृतज्ञानयोः सविषयकत्वाविषयकत्वस्वभावभेदकल्पनस्य चान्याय्यत्वात् / आत्मचैतन्येऽविषयकत्वस्वाभाव्यवत्सविषयकत्वस्वाभाव्यकल्पने बाधकाभावात्। किंच-विवेकाख्यातिरूपसंयोगाभावोऽपि विवेकाख्यातिरूप एवेति, विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः; मुक्तावपि निर्विषयचिन्मात्रतत्त्वार्थासिद्धिः। तदुक्तं हरिभद्राचार्य :-"आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः / तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः॥१॥" इति। ननु विवेकाख्यातिरपि अन्तःकरणधर्म एव, तस्मिश्च प्रकृतौ प्रविलीने नतद्धर्मस्थित्यवकाशः, नचैवं संयोगोन्मजनप्रसङ्गः; परेषां घटविलयदशायां घटप्रागभावानुन्मजनवदुपपत्तेः इत्थं च प्रकृतेरेव तत्त्वतः संयोगहानम्, आत्मनस्तूपचारादिति नास्माकमयमुपालम्भः शोभत इति चेन्न, उपचारस्यापि संबन्धाविनाभावस्याश्रयणे चिन्मात्रधर्मकत्वत्यागात्सर्वज्ञत्वस्वभावपरित्यागस्य स्ववासनामात्रविजृम्भितत्वादित्याचाणामाशयात्॥२६॥ पुरुषार्थाय दुःखेऽपि, प्रवृत्तेज्ञानदीपतः। हानं चरमदुःखस्य, क्लेशस्येति तु तार्किकाः // 27|| (पुरुषाथायेति) ज्ञानदीपतः-तत्त्वज्ञानप्रदीपाद् अज्ञानध्वान्तनाशात्, पुरुषार्था-पुरुषार्थनिमित्तं, दुःखेऽपि प्रवृत्तेः राजसेवादौ तथा दर्शनात् / चरमदुःखस्य क्लेशस्य स्वयमुत्पादितस्य हानमिति तु तार्किकाः नैयायिकाः; अतीतस्य स्वत एवोपरतत्वात्, अनागतस्य / हातुमशक्यत्वात्, वर्तमानस्यापि विरोधिगुणप्रादुभविनैव नाशात् / वरमदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थकत्वादिति भावः।।२७॥ एतदपि मतं दूषयतिब्रूते इन्त विना कश्चि-ददोऽपि न मदोद्धतम् / सुखं विना न दुःखार्थ , कृतकृत्यस्य हि श्रमः // 28 // (बूत इति) अदोऽपि वचनं मदोद्धतं विना कश्चिदित्यनन्तरमपेर्गभ्यमानत्वात्, कश्चिदपि न ब्रूते / हि-यतः, कृतकृत्यस्य सुखं विनास्वसुखातिशयितसुखं विना दुखार्थ श्रमो नास्ति। राजसेवादावपि हि सुखार्थ प्रवृत्तिर्दृश्यते / कटुकौषधपानादावपि आगामिसुखाशयैव; अन्यथा विवेकिनोदुःखजिहासोमरणादावपि प्रवृत्त्यापत्तेः; न च मोक्षे सुखमिष्यते भवद्भिरिति व्यर्थः सर्वः प्रयासः॥२८॥ किं च-घरमदुःखत्वंतत्त्वज्ञानजन्यतावच्छेदकमपि न संभवतीत्याहचरमत्वं च दुःखत्व-व्याप्या जातिर्न जातितः। तच्छरीरप्रयोज्याऽतः,सार्यानान्यदर्थवत्॥२६ (चरमत्वं चेति) चरमत्वं चदुःखत्वव्याप्या जातिःनतच्छरीरप्रयोज्या, अतोजातितः सार्यात् मैत्रीयचरमदुःखचैत्राचरमदुः खवर्तिन्योस्तयोश्चैत्रचरमदुःख एव समावेशात् / चैत्रशरीरप्रयोज्यजातिव्याप्यायाश्चैत्रचरमसुखदुःखादिनिष्ठाया भिन्नाया एव चरमत्वजातेरुपगमे तु सुखत्वादिनैव साङ्कात् / अन्यत्समानाधिकरणदुःखप्रागभावासमानकालीनत्वलक्षणं चरमत्वं नार्थवत्, न तत्त्वाज्ञानजन्यतावच्छेदकम् अर्थादेव समाजात्तदुपपत्तेः / कार्यवृत्तियावद्धर्माणां कार्यतावच्छेदकत्वे चैत्रावलोकितमैत्रनिर्मितघटत्वादेरपि तथात्वप्रसङ्गात्। तथा नियतितत्त्वाश्रयणापत्तेरिति दिक् // 26 // अन्यमतदूषणेन नियूढं स्वमतमुपन्यस्यन्नाहसुखमुद्विश्य तदुःखा-निवृत्त्या नान्तरीयकम्। प्रक्षयः कर्मणामुक्तो, युक्तो ज्ञानक्रियाध्वना॥३०॥ (सुखमिति) तत्-तस्मात् दुःखानिवृत्त्या नान्तरीयकंव्याप्तं सुख-मुद्दिश्य कर्मणाम्-ज्ञानावरणादीनां प्रक्षयो ज्ञानक्रियाध्वना युक्त उक्तः // 30|| क्लेशाः पापानि कर्माणि, बहुभेदानि नो मते / योगादेव क्षयस्तेषां, न भोगादनवस्थितेः॥३१|| ततो निरुपमं स्थान-मनन्तमुपतिष्ठते। भवप्रपञ्चरहितं,परमानन्दमेदुरम्॥३२॥ द्वा० 25 द्वा०। (अनयोयाख्या 'जोग' शब्दे चतुर्थभागे 1633 पृष्ठे गता) एवं पञ्चविंशतितत्त्वपरिज्ञानान्मोक्ष इति भागवताः। आचा०१ श्रु०४ अ०२उ०। “षडिन्द्रियाणि षड् विषयाः षड् बुद्धयः सुखं दुःखं शरीरश्चेत्येकविंशतिभेदभिन्नस्य दुःखस्यात्यन्तोच्छेदान्मोक्ष" इति नैयायिकमतम्। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मा-धर्मसंस्कार रूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदो मोक्षः। जै०गा०। (अत्र विस्तरः सम्मतितर्कग्रन्थादवसेयः) मोक्षस्वरूपमाहमोक्षः कर्मक्षयो नाम, भोगसंक्लेशवर्जितः। तत्र देषो दृढाज्ञाना-दनिष्टप्रतिपत्तितः।।२२।। (मोक्ष इति) दृदाज्ञानाद्- अवाध्यमिथ्याज्ञानात् / भवा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy