SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ मोक्ख 434 - अभिधानराजेन्द्रः - भाग 6 मोक्ख (नहीति) न-नैव हिः--यस्मात् अपशन् अनिरीक्षमाणः अहमि- | त्युल्लेखेन, स्निह्यति-स्नेहवान् भवति; आत्मनि विषयभूते कश्चन | बुद्धिमान् / नचात्मनि प्रेम्णा विना सुखहेतुषु धावति-प्रवर्तते कश्चन / तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्यान्नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् // 5 // एतद्दूषयतिनैरात्म्यायोगतो नैतदभावक्षणिकत्वयोः। आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना // 6 // (नैरात्म्येति) एतदन्येषां मतं न युक्तम, अभावक्षणिकत्वयोः-अर्थाद आत्मना विकल्पमानयोः सतोः; नैरात्म्यायोगतः। आद्यपक्षे-आत्मनोऽभावपक्षे धर्मिणम्--आत्मानं विनाः धर्माणाम्-सदनुष्ठानमोक्षादीनाम् अविचार्यत्वाद्-विचारायोग्यत्वात्, नहि वन्ध्यासुताभावे तद्गतान् सुरूपकुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति // 6 // वक्त्राद्यभावतश्चैव, कुमारीसुतबुद्धिवत्। विकल्पस्याप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् // 7 // (वक्त्रादीति) वक्त्रादीनां-नैरात्म्यप्रतिपादकतद्रष्ट्रादीनाम् अभावतश्चैव / आद्यपक्षे नैरात्म्यायोगतो नैतदिति संबन्धः / ज्ञानवादिमते त्वाह-कुमारीसुतबुद्धिवत्-अकृतविवाहस्त्रीपुत्रज्ञानवत्। विकल्पस्यापि प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्तुम् अशक्यत्वात्। कुमारीसुतबुद्धि रपि हि प्रसिद्धयोः कुमारीसुतपदार्थयोः संबन्धमेवारोपितमवगाहते, प्रकृते त्यात्मन एवाभावात्तत्प्रतिपादकादिव्यपदेशौ निर्मूल एव / क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात् / इत्थं च- "यथा कुमारी शयनान्तरेऽस्मिन्, जातं च पुत्रं विगतं च पश्येत् / जाते च हृष्टाऽपगते विषण्णा, तथोपमान जानत सर्वधर्मान्॥१॥" इत्यादि परेषां शास्त्रमपि संसारासारतार्थवाद-मात्रपरतयैवोपयुज्यते इति द्रष्टव्यम्।।७।। द्वितीयेऽपि क्षणादूर्व , नाशादन्याप्रसिद्धितः। अन्यथोत्तरकाङ्गिभावाविच्छेदतोऽन्वयात्|||| (द्वितीयेऽपीति) द्वितीयेऽपि पक्षे, नैरात्म्यायोगतो नैतदिति संबन्धः। क्षणादूर्ध्वम् क्षणिकस्यात्मनो नाशात् अन्यस्य-अनन्त-रक्षयस्य अप्रसिद्धितः-आत्माश्रयानुष्ठानफलाद्यनुपपत्तेः। अन्यथा--भावादेव भावाभ्युपगमे उत्तरकार्य प्रति अङ्गभावेनपरिणामिभावेन अविच्छेदतोऽन्वयात्, पूर्वक्षणस्येव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयानुवृत्तिध्रौव्यात् / सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यभावात्, सदृशक्षणान्तरसामग्रीसंपत्तेरतियोग्यताविच्छिन्नशक्त्यैवोपपतेरिति / किं च-क्षणिको ह्यात्माऽभ्युपगम्यमानः स्वनिवृत्तिस्वभाकः स्यात्, उतान्यजननस्वभावः, उताहो उभयस्वभावः? इतित्रयो गतिः। तत्राद्यपक्षे आहस्वनिवृत्तिस्वभावत्वे, न क्षणस्यापरोदयः। अन्यजन्मस्वभावत्वे, स्वनिवृत्तिरसंगता॥९॥ (स्वनिवृत्तीति) स्वनिवृत्तिस्वभावत्वे क्षणस्य आत्मक्षणस्य अभ्युपगम्यमाने नापरोदयः-सदृशोत्तरक्षणोत्पादः स्यात्, पूर्वक्षणस्योत्तरक्षणजननास्वभावत्वात् / द्वितीये त्वाह- अन्यजन्मस्वभावत्वे- सदृशापरक्षणोत्पादकस्वभावत्वे स्वनिवृत्तिरसंगता तद-जननस्वभावत्वादेव // 3 // तृतीये त्वाहउभयकस्वभावत्वे, न विरुद्धोऽन्वयोऽपि हि। न च तद्धेतुकः स्नेहः, किं तु कर्मोदयोद्भवः / / 10 / / (उभयेति) उभयैकस्वभावत्वे स्वनिवृत्तिसदृशापरक्षणोभयजननैकस्वभावत्वे, अन्वयोऽपि हि न विरुद्धः। यदेव किञ्चिन्निवर्तते तदेवापरक्षणजननस्वभावमिति शब्दार्थान्यथानुपपत्त्यैवान्वयसिद्धेः, उक्तोभयैकस्वभावत्ववत् पूर्वापरकालसंबन्धकस्वभावत्वस्याप्यविरोधात्। इत्थमेव प्रत्यभिज्ञाक्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्तेरिति निर्लोठितमन्यत्र / न च तद्धेतुकः-आत्मदर्शनहेतुकः स्नेहः किं तु कर्मोदयोद्भवो-मोहनीयकर्मोदयनिमित्तकः / अतो नायमात्मदर्शनापराध इति भावः / / 10|| ननु यद्यप्यात्मदर्शनमात्रनिमित्तको न स्नेहः, क्षणिकस्याप्यात्मनः स्वसंवेदनप्रत्यक्षेण समवलोकनात्तदुद्भवप्रसङ्गात्, किंतु-ध्रुवात्मदर्शनतो नियत एव स्नेहोद्भवस्तद्गतागामिकालसुखदुःखा-वाप्तिपरिहारचिन्तावश्यकत्वादित्यत्राऽऽहधुवे क्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् / ग्राह्यकार इव ज्ञाने-ऽन्यथा तत्रापि तद्भवेत्॥१॥ (ध्रुवे क्षणेऽपीति) ध्रुवे क्षणेऽपि-ध्रुवात्मदर्शनेऽपि, न प्रेम समुत्पत्तुमुत्सहते। निवृत्तम्-उपरतम् उपप्लवात्-संक्लेशक्षयात * विसभागपरिक्षयाभिधानात्, ज्ञाने ग्राह्याकार इवभवन्मते उपप्लववशाद्धि तत्र तदवभासस्तदवभासे तुतन्निवृत्तिरिति / तथा च सिद्धान्तो वः-"ग्राह्य न तस्य ग्रहणं न तेन, ज्ञानान्तरग्राहतयाऽपि शून्यम् / तथाऽपि च ज्ञानमयः प्रकाशः, प्रत्यक्षरूपस्य तथाऽऽविरासीत् / / 1 / / " इति / अन्यथोपप्लवं विनाऽपि ध्रुवात्मदर्शनन प्रेमोत्पत्त्यभ्युपगमे तत्रापि त्वन्मतप्रसिद्धात्मन्यपि तत्प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् / ध्रुवत्वभावनमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् // 11 // विवेकख्यातिरुच्छेत्री, क्लेशानागनुपप्लवा। सप्तधा प्रान्तभूप्रज्ञा, कार्यचित्तविमुक्तिभिः॥१२॥ (विवकेति) विवेकख्यातिः प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखायाश्चिच्छायासंक्रान्तिः अनुपप्लवा अन्तरान्तराव्युत्थानरहिता क्लेशानामुच्छेत्री। यदाह-'विवेकख्याति रविप्लवा हानोपायः' (2-26) सा च सप्तधा सप्तप्रकारैः प्रान्तभूप्रज्ञासकलसालम्बनसमाधिपर्यन्तभूमिधीभवति / कार्यचित्त-विभुक्तिभिः-चतुस्त्रिप्रकाराभिः / तत्र न मे ज्ञातव्यं किंचिदस्ति, क्षीणा मे क्लेशाः, न मे क्षेतव्यं किंचिदस्ति, अधिगतं (ता) मया हानप्राप्तविवेकख्यातिरिति कार्यविषयनिर्मलज्ञानरूपाश्चतस्रः कार्यविमुक्तयः / चरितार्था मे बुद्धिगुणाः कृताधिकारा मोहबीजाभावात् कुतोऽमीषां प्ररोहः, सात्मीभूतश्च मे समाधिरिति, स्वरूपप्रतिष्ठोऽहमिति गुणविषयज्ञानरूपास्तिस्रः कार्यविमुक्तय इति / तदिदमुक्तम्-"तस्य सप्तधा प्रान्तभूप्रज्ञेति' (2-27) / / 12|| * 'विस' इति बौद्धानां पारिभाषिकः शब्दः। विष इति वा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy