SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ मित्ता 284 - अभिधानराजेन्द्रः - भाग 6 मित्ता भावलक्षणमाहारादिदानेन विधिना-सूत्रोक्तन्यायेन, तेषुभावयोगिष्वाचार्येषु, आशयाविशेषतश्चित्तोत्साहातिशयात् योगबीजम् // 14 // भवादुद्रिप्रता शुद्धो-षधदानाद्यमिग्रहः / तथा सिद्धान्तमाश्रित्य, विधिनालेखनादि च / / 15 / / (भवादिति) भवात-संसारात्, उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा / शुद्धः-निर्दोष औषधदानादेरभिग्रहो भावाभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य स्वाश्रयशुद्धस्यान्यस्यापि संभवात्। तथा सिद्धान्तम्-आर्ष वचनमाश्रित्य, न तु कामादिशास्त्राणि / विधिना-न्यायात्तधनसत्प्रयोगादिलक्षणेन लेखनादिक च योगबीजम् / / 15 / / लेखनादिकमेवाहलेखना पूजना दान, श्रवणं वाचनोद्ग्रहः। प्रकाशनाऽथ स्वाध्याय-श्चिन्तना भावनेति च / / 16 / / (लेखनेति) लेखना-सत्पुस्तकेषु। पूजना-पुष्पवस्त्रादिभिः / दानम्पुस्तकादेः / श्रवणम्-व्याख्यानस्य / वाचना-स्वयमेवास्य, उदग्रहोविधिग्रहणमस्यैव / प्रकाशना गृहीतसय भव्येषु / अथ स्वाध्यायों वाचनादिरस्यैव। चिन्तना ग्रन्थार्थताऽस्यैव भावनेति चैतगोचरैव। योगबीजम् // 16 // बीजश्रुतौ पर श्रद्धाऽन्तर्विश्रोतसिकाव्ययात्। तदुपादेयभावश्च, फलौत्सुक्यं विनाऽधिकः / / 17 / / बीजश्रुतौ योगवीजश्रवणे / परा-उत्कृष्टा, श्रद्धा-इदमित्थमेव इति प्रतिपत्तिरूपा / अन्तर्विश्रोतसिकायाश्चित्ताशङ्काया व्यायात्। तस्याः वीजश्रुतेरुपादेयभावश्चादरपरिणामश्च / फलौत्सुक्यम्-अभ्युदयाशंसात्वरालक्षणम्, विनाऽधिकोऽतिशयितो योगबीजम् / / 17 / / निमित्तं सत्यप्रणामादेर्भद्रमूर्तेरमुष्य च / शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः॥१८|| (निमित्तमिति) अमुष्य चानन्तरोदितलक्षणयोगिनो जीवस्य / भद्रमूत्तें:-प्रियदर्शनस्य, सत्प्रणामादेयोगबीजस्य-निमित्तम् / शुभःप्रशस्तः। निमित्तसंयोगः-सद्योगादिसम्बन्धः सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाजायते / अवञ्चकोदयाद्वक्ष्यमाणसमाधिविशेषोदयात् // 18 // योगक्रियाफलाख्यं च, साधुभ्योऽवञ्चकत्रयम्। श्रुतः समाधिरव्यक्त, इषुलक्ष्यक्रियोपमः॥१६॥ (योगेति) साधुभ्यः-साधूनाश्रित्य। योगक्रियाफलाख्यम्, अवञ्चकत्यम्-योगावञ्चकक्रियावञ्चकफलावञ्चकलक्षणम् / अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् / इषुलक्ष्यक्रियोपमः-शरशरव्यक्रियासदृशः। यथा शरस्य शरव्यक्रिया तदविसंवादिन्येत, अन्यथा तत्क्रियात्वायोगात्. तथा सद्योगावञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः / / 16 / / हेतुरत्रान्तरङ्गश्च, तथा भावमलाऽल्पता। ज्योत्स्नादाविव रत्नादि-मलापगम उच्यते // 20 // (हेतुरिति) अत्र सत्प्रणामादौ / अन्तरङ्गश्च हेतुः / तथा-भावमलस्य कर्मसम्बन्धयोग्यतालक्षणस्याल्पता / ज्योत्स्नादाविव रत्नकान्त्यादाविव रत्नादिमलापगम उच्यते। तत्रमृत्पुटपाकादीनामिवात्र सद्योगादीनां निमित्तत्वेनैवोपयोगादिति भावः // 20 // सत्सु सत्त्वधियं हन्त, मले तीव्र लभेत कः। अगुल्या न स्पृशेत् पडः, शाखां सुमहतस्तरोः // 21 // (सत्स्विति) साधुषु, सत्त्वधियम्-साधुत्वबुद्धि, हन्त तीव्र-प्रबले, मले-कर्मबन्धयोग्यतालक्षणे-सति को लभेत ? ततो लाभशक्तेरयोगान्न कोऽपीत्यर्थः, अडल्या पड्डः सुमहतस्तरोः शाखा न स्पृशेत्, तत्प्राप्तिनिमित्तस्योचत्वस्यारोहशक्तेर्वा अभावात्। तद्वत्प्रकृतेऽपि भावनीयम्।।२१।। वीक्ष्यते स्वल्परोगस्य, चेष्टा चेष्टार्थसिद्धये। स्वल्पकर्ममलस्यापि, तथा प्रकृतकर्मणि / / 22 / / (वीक्ष्यत इति) स्वल्परोगस्य मन्दव्याधेश्चेष्टा राजसेवादिप्रवृत्तिलक्षणा, चेष्टार्थस्य-कुटुम्बपालनादिलक्षणस्य, सिद्धये -निष्पत्तये, वीक्ष्यते न तु तीव्ररोगस्येव प्रत्यपायाय / स्वल्पकर्ममलस्यापि पुंसः, तथा प्रकृतकर्मणि-योगबीजो पादानलक्षणे / ईदृशस्यैव ज्वप्रतिपन्ननिर्वाहक्षमत्वात् / / 22 / / यथाप्रवृत्तकरणे, चरमे चेदृशी स्थितिः। तत्त्वतोऽपूर्वमेवेद-मपूर्वासत्तितो विदुः // 23 // (यथेति) यथाप्रवृत्तकरणे चरमे पर्यन्तवर्तिनि च। ईदृशी-योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका / स्थितिः- स्वभावव्यवस्था, अपूर्वस्य-अपूर्वकरणस्यासत्तितः-सन्निधानात् फलव्यभिचारायोगात्। इदं चरम यथाप्रवृत्तिकरणम्। तत्त्वतः-परमार्थतः अपूर्वमेव, विदु-र्जानते. योगविदः / यत उक्तम्-"अपूर्वासन्नभावेन, ध्यभिचारवियोगतः। तत्त्वतोऽपूर्वमवेद-मिति योगविदो विदुः / / 1 / / " // 23 // प्रवर्तते गुणस्थान-पदं मिथ्याशीह यत्। अन्वर्थयोजना नून-मस्यां तस्योपपद्यते // 24 // (प्रवर्तत इति) यदिह-जिनप्रवचने, गुणस्थानपदं मिथ्यादृशिमिथ्यादृष्टौ पुंसि प्रवर्तते अस्खलवृत्तियोगविषयीभवति / तस्यगुणस्थानपदस्य, नूनम्-निश्चितम्। अस्याम् मित्रायां दृष्टौ / अन्तर्थयोजना-योगार्थघटना / उपपद्यते / सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्यास्यामेवोपपत्तेः / तदुक्त हरिभद्रसूरिभिः-प्रथम यट गुणस्थानं, सामान्येनोपवर्णितम् / अस्यां तु तदवस्थायां मुख्यामन वर्थयोगतः / / 1 // इति // 24 // व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते। घने मले विशेषस्तु, व्यक्ताव्यक्तधियोर्नु कः।।२५।। (व्यक्तेति) अन्यत्र-ग्रन्थान्तरे, व्यक्तमिथ्यात्वधीप्राप्तिः-मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन / इयं मित्रा दृष्टिरेवोच्येते। व्यक्तत्वेन तत्रास्या एवग्रहणात्। घने-तीव्र, मले तुसति। नु इति वितर्का व्यक्ताव्यक्तयोधियोः को विशेषः ? दुष्टाया धियो व्यक्ताया अव्यक्तापेक्षया प्रत्युतातिदुष्टत्वान्न कथंचिद् गुणस्थानत्वनिबन्धत्वमिति भावः। विचित्रतया नि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy