SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ मित्तसेण 282 - अभिधानराजेन्द्रः - भाग 6 मित्ता एकदा तत्पुरोद्याने, दुर्व्याने धनपावकः। आगादागाम्यतीतादि-वेदिसूरियुगन्धरः / / 4 / / तं नन्तुं दन्तुरानन्दोदिन्नरोमाञ्चकञ्चकः। जगाम जगतीनाथः, सुमित्रसुतसंयुतः।।५।। राजा निष्प्रतिमं रूप, दृष्ट्वा तस्य मुनीशितुः। पप्रच्छ स्वच्छधीरेवं, विस्मयस्मेरलोचनः।।६।। सत्यप्यसदृशे रूपे, साम्राज्यविभवोचिते। कुतो वैराग्यतः पूज्य-र्जगृहे दुष्करं व्रतम्॥७॥ गुरुराह मया दृष्टः, सोऽरघट्टो नराधिप!। सदा युक्तो वहन्नित्यं, संपूर्णो भवनामकः ||8|| चत्वारो रागविद्वेष-मिथ्यात्वस्मरसंज्ञिताः। दृढा सारथयस्तत्र, मोहः सीरपतिः पुनः।।६।। विनाऽपि चारिवारिभ्यां, सबला वेगशालिनः। महाकायाः कषायाख्या, वृषभारतत्र षोडश।।१०।। हास्यशोकभयाद्यास्तु,कर्कशा कर्मकारकाः। जुगुप्सारत्यरत्यरत्याद्या-स्तेषां च परिचारिकाः।।११।। दुष्टयोगप्रमादाख्य, तत्र तुम्बद्वयं महत्। विलासोल्लासविव्वोके-हावभावादिकाः स्वराः / / 12 / / तत्रासंयतजीवाख्यः, कूपोऽदृष्टतलः सदा। पापाविरतिपानीय-संभारपरिपूरितः / / 13 / / पापाविरतिनीरौघ-मग्रपूरितरेचितम्। सुदीर्घ जीवलोकाख्यं, घटीयन्त्रमभङ्गरम्॥१४॥ षट्कार उच्चकैर्मृत्यु-रज्ञानं तु प्रतीच्छकः। दृढं मिथ्याभिमानाख्यं, तस्य दार्वटिकं सदा।।१५।। अतिसंक्लिष्टचित्ताख्या, तत्र निर्वहणी पृथुः / अतिद्राधीयसी कुल्या, भोगलोलुपताऽभिधा // 16 // क्षेत्र विवक्षितं जन्म, माला दुःखस्य संहतिः। अपरापरजन्माख्याः , केदारा गणनातिगाः।।१७।। पानान्तिकस्त्वसदबोधो, बीजं कर्मकदम्बकम्। दुष्टो जीवपरीणामो, वापकस्तत्र सोद्यमः॥१८॥ ततश्च - उत तेनारघट्टेन, सिक्तं निष्पत्तिमागतम। प्रभूतसुखदुःखादि, सस्यं नानाविध नृप! ||19|| एवं भवारघट्टाति-भ्रमणोदीतचेतसा। दीक्षा तद्भयधाताय, मयाऽऽदायि नरेश्वर ! // 20 // श्रुत्वेति नृपतिर्भीम-भवाद्रीतमना भृशम्। न्यस्य चन्द्रसुते राज्यं शमसामाज्यमाददे // 21 // समित्रश्चन्द्रराजोऽपि, राजन् ! राज्यश्रिया तया। सम्यग्दर्शनसशुद्ध, गृहिधर्ममशिश्रियत्।।२२।। नत्वा गुरुपदद्वन्द्वं, निजं धाम जगाम राट्। अन्यत्र मुनिराजोऽपि-विजहे सपरिच्छदः // 23 // अन्यदा मित्रसेनेन, राजाऽभाणि रहस्यदः। किमप्यपूर्व विज्ञानं, दर्शयामि सखे ! तव // 24 // स माह दर्शय क्षिप्रं, ततोऽसौ जम्बुकस्वरम्। तथाऽरसद् यथा रेसुः. पूर्व हि जम्बुका अपि / / 25 / / चुकू : पुकुटा उच्चैः कृते कुकुटकूजिते। निशीथेऽपि निशानान्त-मुन्निद्रा मेनिरे जनाः // 26 // तथा शृङ्गारसाराणि,वाक्यान्हाह यथा जनः। दृढशीलोऽपि जायेत, मन्मथोन्माथितो भूशम् // 27 // ततो राजाऽऽह मित्रैव, माऽतिचारीनिज व्रतम्। सविकारवचो वक्तुं, नयुक्तं शीलशालिनाम्।।२८।। शृङ्गारसारभाषित्व-मेव मुक्तोऽपिनोज्झति। यदा केलिप्रियत्वेन, तदा राज्ञाऽप्युपेक्षितः।।२६।। प्रोषितभर्तृस्त्रियोऽग्रे, सविकारगिरोऽन्यदा। स तथाऽऽख्यद्यथा सद्यः, सा भून्मदनविह्वला।।३०।। तां तथा सविकारार्की, दृष्ट्वा तद्देवरः क्रुधा। तं बबन्ध दृढ़र्बन्धै, रे विटोऽसीत्युदीरयन्॥३१।। तदाकण्ये नृपो भङ्गु, मोचयित्वा तमाख्यत। व्रतातीचारवृक्षस्य, पुष्प प्राप्तमिदं त्वया / / 3 / / फलं तु नरके घोरे, लप्स्यसे तीव्रवेदनाः। यत्तदा वारितोऽपि त्वं, नातिचारादुपारमः / / 3 / / जिनं देवं गुरून साधू-स्तदद्यापि सखे ! स्मर। गर्हस्व दुष्कृतं सर्वं, क्षमय प्राणिसंहति // 34 / / सोऽपि प्राह सखे गाढं, बन्धनैः पीडितोऽस्म्यहम्। नरमरामि ततः किंचित, प्रतीकारं कुरुष्व मे / / 35 / / इति जल्पन्नसो मृत्वा, गजोऽभूद्विन्ध्यभूधरे। ततो बहुभवं भ्रान्त्वा, क्रमान्मोक्षमवाप्रयति॥३६।। सविकारवचो वार्द्धि-कुम्भभूश्चनद्रभूपतिः। राज्यं न्यस्य सुते दीक्षा, गृहीत्वा च ययौ शिवम्॥३७।। इत्यवेत्य कृतिनः स्वचेतसा, मित्रसेनचरितं गताहसः / चञ्चदुचरदुःखलक्षित, संत्यजन्तु सविकारजल्पितम्।।३८।। ध०र०२ अधि०२ लक्षत्र। मित्ता स्त्री० (मात्रा) तुल्ये, मात्राशब्दात्तात्पर्यार्थविश्रान्ते-स्तुल्यवाची। यदाह निशीथचूर्णिकृत्-मात्राशब्दस्तुल्यवाचीति / व्य०१ उ०। मित्रा स्त्री० योगदृष्टिभेदे, मित्रादृष्टिस्तुणाग्निकणोपमा न तत्वतोऽभीष्टकार्यक्षमा सम्यकप्रयोगकालं यावदनवस्थानात् अल्पवीर्यतया, ततः पटुबीजसंस्काराधानानुपपत्तेः विकलप्रयोगभावाद् भावतो वन्दनादिकार्यायोगात्। ध०१ अधिक। मित्रां दृष्टिमत्र सप्रपञ्च निरूपयन्नाहमित्रायां दर्शनं मन्दं, योगानं च यमो भवेत् / अखेदो देवकार्यादा-वन्यत्राद्वेष एव च / / 1 / / (मित्रायामिति) मित्रायां दृष्टौ / दर्शनं मन्दम्-स्वल्पो बोधः। तृणाग्निकणोद्योतेन सदृशः / योगाङ्ग च यमो भवेदिच्छादिभेदः / अखेदोऽव्याकुलतालक्षणः / देवकार्यादावादिशब्दाद्-गुरुकार्यादिपरिग्रहः / तथा तथोपनतेऽस्मिस्तथापरितोषान्न खेदः, अपितु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत्। अद्वेषश्चामत्सरश्चापरस्त्र त्वदेवकार्यादौ तथा तत्त्वावेदितया मात्सर्यवीर्यबीजसद्भावेऽपि तद्धावासरानुदयात्, तथाविधानुष्ठानमधिकृत्यात्र स्थितस्य हि करुणाशबीजस्यैवषत्स्फुरणमिति।१। द्वा०२१ द्वा० (यमस्वरूपं सभेदम् 'जम' शब्दे चतुर्थभागे 1361 पृष्ठे गतम्) मित्रदेवताके नक्षत्रभेदे, स्था०। दो मित्ता। सूत्र / स्था०२ ठा०३ उ०। बाधनेन विताणां, प्रतिपक्षस्य भावनात्। योगसौकर्यतोऽमीषां, योगाङ्गत्वमुदाहृतम्॥३॥ (बाधने ने ति) वितणां योगपरिपन्थिना हिंसादीनां प्रतिपक्षस्य भावनात्, बाधनेनानुत्थानोपहतिलक्षणेन योग
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy