SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मगं 5 - अभिधानराजेन्द्रः - भाग 6 मंगल मंखावंत त्रि० (मधयत) म्रक्षण कारयति, नि० चू०१७ उ०। मंग पुं०(मङ्ग) मन्यते-प्राप्यते स्वर्गोऽपवर्गोवाऽनेनेति मगः। “पुन्नाम्नि घ:" ||53 / 130 // इति (सूत्रेण) करणे घञ / धर्मे, आ०म०१अ०। विशे०। दर्श०। मंगरिया जी० (मङ्गरिका) वाद्यभेदे, अष्टशतं मग रिकाणाम् अष्टशत मग रिक वादकानाम्। रा०। मंगल पु० (मङ्गल) मगि अलच / स्वनामख्याते अङ्गारके ग्रहे, रथा०६ हा०। वाछितावासो, कल्प०१ अधि०१क्षण। कल्याण, पञ्चा०८ विव० / मङ्गलं श्रेयः कल्याणमिति। पा० / सदृशे, दे० ना०६ वर्ग 118 गाथा। प्रशंसाव क्य,सूत्र०१ श्रु०७ अ०। गानविशेषे, पञ्चा०८ विव० भ०1 ना० / विघ्नक्षये, मङ्गलं विघ्नक्षयस्तद्योगान्मङ्गलम् / स्था०३ ठा०१ उ० ! दुरितोपशमहेतौ स्वस्तिकाऽऽदिके, औ०। नि०। पञ्चा०। भ०। दशा० / रा० / प्रश्न० / चं० प्र० / सिद्धार्थदध्यक्षतर्वाडुराऽऽदिके, औला नि / भ० / विपा०। रा०। ज्ञा० / मङ्गलानिच सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थकाऽऽदर्शस्पर्शनाऽऽदीनि। सूत्र०२ श्रु०२ अ० / पक्षा सियकमलकलससुत्थिय-नंदावत्तवरमल्लदामाणं / तेसिं पि मंगलाणं, संथारो मंगलं अहियं // 15 // शितः - शुभ्रः कलशो विवाहाऽऽदावुत्सवे यो मण्ड्यते तस्यैव माङ्गलिक्यत्वाद ग्रहण, शितकलशश्च कमलं च स्वस्तिकश्च नन्दावर्त्तश्च वरमाल्यदाम च सितकलशकमलस्वस्ति-कनन्दावर्त्तवरमाल्यदामानि तेषाम, एतानि च लोके नाङ्गल्यतया रूढानि तथापि तेषामपि मगलाना मध्ये | संस्तारकोऽधिकं मङ्गलमि ति भावः / संथा०। तह मंगलाइ सोत्थिय-सुवण्णसिद्धत्थगाईणि।।२१६।। मगलानि नाम-स्वस्तिकसुवर्णसिद्धार्थकाऽऽदीनि पूर्व देवैर्भगवतो मङ्गलबुद्ध्या प्रयुक्तानि ततो लोकेऽपि तथा प्रवृत्तानि। आ०म०१अ०। दश 0 माभूद गलो विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गलम्। अचा०३ श्रु०१ अ०१ उ० / वृ०॥ दर्श० / ग्रन्थाऽऽरम्भाऽऽदौ विघ्नोपशमाय कर्तव्ये इष्टदेवतानमस्कारे, सूत्र०१ श्रु०१ अ०१ उ०। पञ्चा०। मङ्गलशब्दप्ररूपणामाह - नामं ठवणा दविए, भावम्मि य मंगलं भवे चउहा। एमेव होइनंदी, तेसिं तु परूवणा इणिमा / / 5 / / मगलं चतुर्धा-चतुःप्रकार भवति। तद्यथा-नाममङ्गलम, स्थापनामङ्गलम, द्रव्यमङ्गल, भावमङ्गल च। एवमेव नामाऽऽदिभेदेन चतुः प्रकारो भवति नन्दिः। तेषां च-नाममगलाऽऽदीनामियं वक्ष्यमाणस्वरूपा प्ररूपणा। तामेवाऽऽहएगम्मि अणेगेसु य, जीवद्दव्वे य तद्विवक्खे वा। मंगलसन्ना नियता, तं सन्नामंगलं होइ // 6 / / एकस्मिन् जीवद्रव्ये तद्विपक्षे वा अजीवद्रव्ये, अनेकेषु वा जीवद्रव्येष्वजीवद्रव्येषु वा या मङ्गलमिति संज्ञा नियता-नियमिता तत् “नामनामव तोरभेदोपचारात्।" संज्ञामङ्गलं-नाममङ्गल भवति। उक्त नाममङ्गलम्। स्थापनामङ्गलमाहजा मंगल त्ति ठवणा, विहिता सम्भावतो व असतो वा। तत्थ पुण असम्भावे, मंगल ठवणागतो अक्खो / / 7 / / जे चित्तभित्तिविहिया, उ घडादी ते य हुंति सब्भावे। तत्थ पुण आवकहिया, हवंति जे देवलोगेसु / / 8 / / या गगलगिति स्थापना सद्भावतो वा सद्भूताऽऽकारनिवेशनेन, असतो वा सद्ताऽऽकारस्याऽभावतो विहिता सा स्थापनामङ्गलम् / तत्र पुनरसदावे स्थापनामङ्गलं स्थापनागतोऽक्षः / उपलक्षणमेतत् वराटकाऽऽदिवा। इयमत्र भावना-अक्षवराटकाऽऽदिषु या मङ्गलमिति स्थापना विहिता न तत्र कश्चित् मङ्गलानुगत आकार इत्यसद्भावतः स्थापनामङ्गलम् / ये तु चित्रभित्तौचित्रकुड्ये विहिता घटाऽऽदयः, आदिशब्दात् स्थालाऽऽदिपरिग्रहः, ते सद्भावे सद्भावतः स्थापनामङ्गलानि भवन्ति। तत्र ये देवलोकेषु चित्तभित्तौ विहिता घटाऽऽदयस्ते स्थापनामङ्गलानि यावत्कथिकानि भवन्ति, अर्थादापन्नं यानि मनुष्यलोके तानीत्वराणि यावत्कथिकानि नाम शाश्वतिकानि. इत्वराण्यशाश्वतानि / द्रव्यमङ्गलमाह - उत्तरगुणनिप्फन्ना, सलक्खणा जे उ होति कुंभाई। तं दव्वमंगलं खलु, जह लोए अट्ठ मंगलगा ||6|| इह उत्तरगुणनिष्पन्ना मूलगुणनिष्पन्नापेक्षया, ततः प्रथमतः तद्भाव्यते। मूलो नाम-पृथिवीकायाऽऽदिजीवस्तस्य गुणात्-प्रयोगात पुद्गलाना द्रव्याऽऽदित्वेन व्यापारणात निष्पन्नं मूलगुणनिष्पन्न द्रव्याऽऽदि, तस्मादुत्तरगुणेन परापरप्रयोगेण चक्रदण्डसूत्रोदकाऽऽदिपुरुषप्रयत्नेनेत्यर्थः / ये निष्पन्नाः सलक्षणा-लक्षणसम्पन्ना अच्छिद्रा-अखण्डा वारिपरिपूर्णाः पद्मोत्पलप्रतिच्छन्ना इत्यादिलक्षणोपेताः कुम्भाऽऽदयः, आदिशब्दात्स्थालाऽऽदिपरिग्रहः। तत् द्रव्यमगलं भवति, यथा लोके अष्टौ मङ्गलानि / गंतियं अणिचं, तियं च दव्वे उ मंगलं होइ। तव्विवरीयं भावे, तं पिव नंदी भगवती उ॥१०॥ तत्पुनरनन्तरोक्तं द्रव्यमङ्गलमनेकान्तिकमनात्यन्तिकं च भवति / तथाहि-न पूर्णकलश एकान्तेन सर्वेषां मङ्गलाय, चौरस्य कर्षकस्य च शकुनतया रिक्त घट प्रशंसति शकुनविदो, गृहप्रवेशे पुनः पूर्णम्। उक्तं च - "चोरस्स करिसगस्स य, रित्तं कुडयं जणो पसंसेइ। गेहपवेसे भन्नइ, पुन्ना कुंभो पसत्थो उ / / 1 / / " तत एवमनैकान्तिकम् / नाप्यात्यन्तिकं, यथा कोऽपि शोभनैर्द्रव्यमङ्गलैर्विनिर्गतस्तेन चाने किश्चिदशोभनं दृष्ट, येन तानि सर्वाण्यपि प्राकृतानि प्रतिहतानि, तत एवमनात्यन्तिकमिति। उक्तं द्रव्यमङ्गलम्। अधुना भावमङ्गलमाह-तद्विपरीतमैकान्तिकमात्यन्तिकंच भावे भावविषयं मङ्गलम्। तथा हि-न तत्भावमङ्गलं कस्यचिद्धवति, कस्यचिन्न भवति किं तु-सर्वस्याऽविशेषेण भवतीत्यैकान्तिकम्। न च केनाप्यन्येन प्रतिहन्यते, इत्यात्यन्तिकं, तच्च भावमङ्गलं भगवान्
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy