________________ वुड्डावास 1418 - अभिधानराजेन्द्रः - भाग 6 बुड्डावास त्राप्यलाभे परग्रामादेरर्द्धक्रोशात्तथाऽप्यलाभे क्रोशादपि, एवमर्द्धक्रोशवृद्ध्या तावद्गन्तव्यं यावदुत्कर्षतोऽपि द्वात्रिंशतोयोजनेभ्योऽपि / तथा चाह- स्थिरमृदुकस्याप्रतिहार्यस्य संस्तारकस्य वसत्यादावलाभे अप्रतिहार्यस्यैव संस्तारकरस्यानयनाय परग्रामे व्रजन्ति, तत्र च आरतोऽलभ्यमाने द्वात्रिंशतिज-योजनान्यपि यावत् व्रजन्ति। एतदेव सुव्यक्तमाहवसहिनिवेसणसाही, दूराणयणं पि जो उ पाउग्गो। असतीए पडिहारिय, मंगलकरणम्मि नीणेति // 558 / वसतौ यथासंस्तृतस्थिरमृदुकः संस्तारको मार्गणीयः, तदभावे निवेशने अप्रतिहार्यो गवेषणीयः, तत्राप्यलाभे 'साहि' त्ति वाटके, तत्राप्यलाभे यः प्रायोग्योऽप्रतिहार्यः संस्तारकस्तस्य दूरादपि द्वात्रिंशद्योजनप्रमाणादानयनं कर्त्तव्यम् / एवमपि तथा-रूपस्याप्रतिहार्यस्य संस्तारकस्यासति- अलाभे प्रतिहार्य मङ्गलकरणेमङ्गलकरणनिमित्त ध्रियमाणं 'नीणयन्ति' आनयन्ति। एतदेव स्पष्टतरमाहओगालीफलगं पुण, मंगलबुद्धी, सारविजंत। पुणरवि मंगलदिवसे, अच्चियमहियं पवेसिंति // 556|| ओगालीफलक नाम-आर्यकप्रायकप्रभृतीनामावल्या समागतं चम्पकपट्टादिफलक मङ्गलबुद्ध्या 'सारविजंतं ध्रियमाणम् / तथाहिते मङ्गलबुद्ध्या तं फलकं धरन्ति, उत्सवादिषु च तं फलक श्रीखण्डादिना अर्चयन्ति, पुष्पादिभिर्महयन्ति न चकोऽपि तं फलकं परिभुङ्क्ते. एवं मङ्गलबुद्ध्या साराप्यमाणं साधवो याचन्ते / यथा-अस्माकमाचार्याः स्थविरास्तेषामिदं फलक प्रातिहार्यं समर्पयत अस्माकं विरताना पूज्यास्ते देवानामपि पूज्याः किं पूनर्युष्माकम्। ते एवमुक्ताः सन्तो बुवतेसत्यं दद्मः केवलमुत्सवदिवसे आनेतव्यो येन वयं पूजयामः / ततः पुनरपि दास्यामः, एवमुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयन्ति। येनावष्वष्कणोत्ष्वष्कणा दोषा न भवन्ति / ततः पुनरपि तस्मिन् मङ्गलदिवसे अर्चितमहितं चम्पकादिपट्टकं वसतौ प्रवेशयन्ति। पुण्णम्मि अप्पणती, अण्णस्स व वुड्डवासिणो दें ति। मुत्तूण वुड्डवासिं, आवजइ चउलहुँ सेसे // 560 / / पूर्णे वृद्धवासे कालगतत्वादिना यश्चास्य सत्कश्चम्पकादिपट्टस्तस्य तं समर्पयन्ति, अन्यस्य वा वृद्धवासिनो ददति / वृद्धवासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषेस्य समर्पणे तेषां प्रायश्चित्तमापद्यते-चतुर्लघु / ईदृशस्य फलकस्यालाभे यदन्यत्- अपरिशाटिफलकं तदप्रातिहार्य मृगयन्ते, तदलाभे प्रातिहार्यमपि / एवं क्षेत्रकालवसति-संस्तारकयतना कर्तव्या / एतरयतनाविभागासंभवे त्रिविभागा यतना कर्तव्या तस्या अप्यसंभवे एकविभागाऽपीति / गत जगाबलक्षीणमिति द्वारम्। इदानी ग्लानद्वारमाहपडियरति गिलाणं वा, सयं गिलाणो वि तत्थ वि तहेव / प्रतिचरितग्लानम्, यदि वा-स्वयं ग्लानो जातस्ततस्तस्य वृद्धावासो | भवति, तत्रापि तथैव क्षेत्रकालवसतिसंस्थारकयतना द्रष्टव्या / गतं ग्लानद्वारम्। असहायताद्वारमाहभावियकुलेसु अच्छति, असहाए रीयतो दोसा / / 561 / / भावितकुलेषु-संविग्नभावितेषु कुलेष्वसहायः-सहायहीनस्तिष्ठति। यतस्तस्य रीयमाणस्य विहरतो बहवो दोषास्त्र्यादिभ्यः / गतमसहायताद्वारम्। संप्रति दौर्बल्यद्वारमाहओमादी तवसा वा, अचईतो दुब्बलोऽपि एमेव। संतासंतसतीए, बलकरदव्वे य जयणाओ॥५६२|| अवमम्-दुर्भिक्षम, आदिशब्दात-नगररोधादिपरिग्रहः, तत्रावमौदर्येण दुर्बलीभूतो न शक्नोति विहर्तुं तपसा वा क्षामीभूतः / कथमित्याह-- 'संतासंतसतीए' सद्भावेनाऽसद्भावेन वा। तत्र सद्भावो न लभ्यते, प्रायः यथातृप्ति भक्ष्य केवलमन्तं प्रान्तं तेन क्षामीभूतः, असद्भावो-यथातृपित भक्ष्यस्यैवाभावः / स तथा क्षामीभूतो येन विहर्तुमशक्नुवन् एवमेव क्षीणजवाबलगतेन प्रकारेण तिष्ठति, केवलं तेन बलकरद्रव्यैर्यतना कर्त्तव्या। प्रथमत उद्ग्रमादिशुद्धं तदुत्पादनीय, तदभाव पशकपरिहाण्यापिततो बलिकीभूतो विहरति / गत दौर्बल्यद्वारम् / सांप्रतमुत्तमार्थद्वारमाहपडिवन्न उत्तमहे, पडियरगा वा वसंति तन्निस्सा। प्रतिपन्न उत्तमार्थोऽनशनं येन स प्रतिपन्नोत्तमार्थः / स वा तस्य प्रतिचारकस्तन्निश्रा उत्तमार्थप्रतिपन्ननिश्राः, मासातीतं वर्षाकालातीतं वा तिष्ठन्ति। गतमुत्तमार्थद्वारम्। अधुना तरुणनिष्पत्तिद्वारमाहआयपरे निप्फत्ती, कुणमाणो वा वि अत्थेजा / / 563|| आत्मनः परस्य च सूत्रार्थतदुभयेन निष्पत्तिं कुर्वन्वा वृद्धावासेन तिष्ठत्। कियन्तं कालमत आहसंवच्छरं च स(झ)रए, बारस वासाइ कालियसुयम्मि, सोलस य दिट्ठिवाए, एसो उकोसतो कालो॥५६४।। संवत्सरं यावत्कालिकश्रुतं श(झ)रति- परावर्तयति ग्रहणे पुनः कालिकश्रुते / कालिकश्रुतस्य लगन्ति द्वादश वर्षाणि. दृष्टिवादेदृष्टिवादग्रहणमधिकृत्य षोडश वर्षाणि, एष एतावान् आत्मपरनिष्पत्तिमधिकृत्यैकत्रावस्थानस्योत्कृष्टतः कालः / एतदेव सुव्यक्तमाहबारस वासे गहिए, उक्कालिय स(झ)रति वरसमेगं तु। सोलस उ दिहिवाए, गहणं स(झ)रणं दस दुवे य॥५६५।। द्वादश वर्षाणि यावत् यत्परिपूर्ण गृहीतम् उत्कालिक श्रुतं तत् वर्षमेकं श(झ)रति-एकेन वर्षेन परावर्त्यते / ग्रहणमधिकृत्य दृष्टिवादे षोडश वर्षाणि लगन्ति। श(झ)रणमधिकृत्य, पुनर्दशद्रेचद्वादश वर्षाणीत्यर्थः। ततो ग्रहणं श(झ)रणं वाऽधिकृत्य तावन्तं कालमेकत्रावतिष्ठते।