________________ वुड्डावास 1516 - अमिधानराजेन्द्रः - भाग 6 वुड्ढावास अथवा आहारे उपधौ शय्यायां च या अनुकम्पा एषा त्रिविधाऽनुकम्पा भवति। तत्राहारे-प्रथमालिकादान, शय्यायां गतस्य विश्रामणादि, मार्गे चोपधिर्वोढव्यः। सांप्रतमपराक्रमभाहखेत्तेण अद्धगाउय, कालेण य जाव भिक्खवेला उ। खेत्तेण य कालेण य, जाणसु अपरक्कम थेरं // 541 / / यः कालतः- सूरादनादारभ्य यावद्भिक्षावेला तावत्यः क्षेत्रतोऽद्धंगव्युत याति तं क्षेत्रतः कालतच जानीत अपराक्रम स्थविरम्। अण्णो जस्स न जायइ, दोसा देहस्स जाव मज्झण्हो। सो विहरइ सेसो पुण, अच्छतिमा दोण्ह वि किलेसो / / 542 / / प्रातरारभ्य यावन्मध्याह्नस्तावत्तस्य गच्छतो देहस्यान्यो दोषो भ्रम्यादिलक्षणो 'नोपजायते स विहरति, शेषः पुनस्तिष्ठति। करमादित्याहमा द्वयानामपि तस्य सहायानां च क्लेशो भूयादिति हेतोरन्यो दोषो न ज्ञायते इत्युक्तम्। तत्रान्यं दोषमाहभमो वा पित्तमुच्छा दा, उड्डमासो व खुब्भति। गतिविरए वि संतम्मि, इचादिसुन रीयति / / 543 / / यस्मिन् गतिविरतेऽपि सति भ्रम-आकस्मिकी भ्रमिः, पित्तनिमित्ता मूर्छा पित्तमूळ ऊर्वश्वासो वा क्षुभ्यति-चलति आदिशब्दात्शिरोव्यथादिपरिग्रहः, ततोनरीयते-न गच्छति, न विहारक्रमं करोतीति भावः। तस्य धापराक्रमस्य वृद्धावासेन तिष्ठतः सहाया दातव्या-- स्तेषां परिमाणमाहचउभागतिभागऽद्धो, सव्वेसिं गच्छतो परीमाणं / संतासंतसतीए, वुड्डावासं वियाणाहि / / 544 / / गच्छता-गच्छमधिकृत्य साधूनां परिमाणं कृत्वा सर्वेषां चतुर्भागस्त्रिभागोऽर्द्ध वा सहायास्तस्य वृद्धावासप्रतिपन्नस्य दीयन्ते / तत्र त्रिभागोऽर्द्ध वा दीयन्ते। 'संतासंतसतीए' सद्भावेन असद्भावेन चत्यर्थः / तत्र सद्भावे सन्ति साधवो भूयासः केवलमगीतार्थास्ये सन्तोऽप्यसन्तः। असद्भावो न सन्ति बहवः साधवः। एवं वृद्धावासं ससहाय जानीहि / ततो गच्छता साधूनां परिमाणं ज्ञात्वा सर्वेषां चतुर्भागसहाया दातव्या इत्युक्तं ततो गच्छपरिमाणं जघन्यादिभेदेन आह-- अट्ठावीसं जहण्णेणं, उक्कोसेण सयग्गसो। सहाया तस्स जेसिंतु, उवट्ठाणा न जायति / / 545 / / गच्छा परिभाणं जघन्यतोऽष्टाविंशतिरुत्कर्षतः शताग्रशः शतादारभ्य यावत द्वात्रिंशत्सहस्राणि / तत्राष्टाविंशतिकस्य गच्छस्य चतुर्भागः सप्त एतावन्तः सहायास्तस्य दातव्याः / यैरुपस्थापना-उपसामीप्येन सर्वदाऽवस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थापनाशय्या अजादि पाठादाप् प्रत्ययः, नित्यवसतिर्न जायते / इयमत्र भावनाप्रतिमासमन्यान्या वसतिर्न लभ्यते, स चालाभो द्विधासल्लाभः, असल्लाभश्च / तत्र सल्लाभो नाम-लभ्यन्ते व सतयः, किं त्वकल्पिकाः, असल्लाभो मूलत एव न लभ्यन्ते वसतयः / एवं सल्लाभेनासल्लाभेन वा प्रतिसमयमन्यान्यवरात्यलाभे एकस्यामेव वसतौ जनाबलपरिक्षीणो वसति, तस्य च सहाया अष्टाविंशतिः / कस्यचिद् गच्छस्य च चतुर्भागमात्राः सप्त प्रदत्तारये ऋतुबद्धे काले एक मासं स्थित्वा गच्छं व्रजन्ति; अन्ये सप्त सहायाः स्थविर-स्यागच्छन्ति, तेऽपि द्वितीये मासे परिपूर्ण गतास्ततोऽन्ये सप्त समागच्छन्ति, तेऽपितृतीये मासे पूर्णे गतास्ततोऽन्ये सप्त सहायाः आयान्ति, तेऽपि चतुर्थ मासं स्थित्वा गर्छ व्रजन्ति ये प्रथमे मासे सप्तागच्छन् ते भूयः समागच्छन्ति / एवं त्रिमासान्तरितः सर्वेषां पुनारको भवति / एवं वारेण वारेण गमने तैर्नित्यवसतिदोषः परिहृतो भवति / अथ सद्भावेनाष्टाविंशलेरूनो गच्छो वर्तते. यावदेकविंशतिकस्तस्य त्रिभागे सप्त, तेषां द्विमासान्तरितो वारको भवति / तथैव सद्भावेनासद्भावेन / यदि चतुर्दशको गच्छो भवति, तदा तेषामधून राप्त, तेषामेकमासान्तरितः पुनरिकः / एवं प्रतिमासमन्यान्यवसत्यभाधे वृद्धस्यैवैकस्य वृद्धावासो भवति, नतु सहायानाम् / अथ सद्भावेन वा चतुर्दश गच्छे न सन्ति, तदा त एव सप्त जनाः चिरकालमपि तिष्ठन्तो यतनया तं वृद्धं परिपालयन्ति। अमुमेवार्थमभिधित्सुराहचत्तारि सत्तगा ति-णि दोण्णि एको व होज असतीए। संतासई अगीआ, ऊणा उ असंतओ असती।।५४६।। चत्वारः सप्तका वारेण वारेण वृद्धपरिपालनाय प्रेषणीयाः असति सद्धभावेन वाऽष्टाविंशतेरभावे त्रयः सप्तका वारेण प्रेष्याः। तावतामप्यभावे द्वौ सप्तको वारेण प्रेष्यौ / तयोरप्यभावे एकः सप्तकः सदाऽवस्थायी तत्परिपालको भवत् / सद्भावेनाऽसद्भावेन वा असतीत्युक्तम् / तत्र सद्भावं व्याख्यानयति। 'संतासती' ति सद्भावो नाम यद् अगीतार्थाः, ते हि सन्ति भूयांसः परं ते सन्तोऽप्यसन्तो वृद्धस्य सहायकार्येष्वरामर्थत्वात्। असन्लेउ असती' असद्भावः स्वभावतस्तूनाः। अथ कस्मात्सप्त सहायाः क्रियन्ते नन्यूना इत्याहदो संघाडा मिक्खं, एक्कोवहि दो य गेण्हए थेरं। आलित्तादिसु जयणा, इहरा परिताव दाहादी // 547 / / द्वौ संघाटौ भिक्षां हिण्डेते, एको बहिर्वसतेस्तिष्ठति रक्षकः द्वौ च स्थविर गृह्णीतः, एवं सप्तसु सत्सु आदीप्तादिषु-प्रदीपनादिषु यतना भवति / इतरथा परितापदाहादिकं वृद्धादेरुपजायेत! अथ सद्भातन असद्भावेन वा सप्तको गच्छो न विद्यते; किं तु षष्ट्यादिकस्तदापि सर्वेऽपिवृद्धावासिका भवन्ति, यतनया च तं परिपालयन्ति। तामेव यतनामाहआहारे जयणा वुत्ता, तस्स जोगो य पाणए। निवायमउए चेव, छवित्ताऽणेसणादिसु / / 548 / /