________________ वीरिय 1396 - अभिधानराजेन्द्रः - भाग 6 वीरिय त चाविभागा एकै कस्मिन् जीवप्रदेशे यावन्तो भवन्ति तावत आहपण्णाछेयण छिन्ना, लोगासंखेज्जगप्पएससमा। अविभागा एक्के के, होति पएसे जहन्नेणं / / 6 / / प्रज्ञाछेदन केन छिन्नाः सन्तो ये वीर्यस्याविभागा जातास्ते एककस्मिन जीवप्रदेशे चिन्यमाना जघन्येनाप्यसंख्येय-लोकाकाशप्रदेशप्रमाणा भवन्ति। उत्कर्षताऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव। किंतु - ते जघन्यपदभाविवीर्याविभागापेक्षयाऽसंख्येयगुणा द्रष्टव्याः इति / / 6 / / उक्ताऽविभागप्ररूपणा। संप्रति वर्गणाप्ररूपणामाहजेसिँ पएसाण समा, अविभागा सव्वतो य थोवतमा। ते वग्गणा जहन्ना, अविभागहिया परंपरओ / / 7 / / येषां जीवप्रदेशनां समास्तुल्यसंख्या वीर्याविभागा भवन्ति, सर्वतश्च सर्वेभ्योऽपि चान्सभ्योऽपि जीवप्रदेशगतवीर्याऽविभागेभ्यः स्तोकतमाः, ते जीवप्रदशा घनीकृतलोकासख्येभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रभाणाः समुदित एका वर्गणा। सा च जघन्या स्तोकाऽविभागयुक्तत्वात्, अविभागाधिका परपरत इति। ततः परावर्गणा एकैके नाविभागेनाधिका वक्तव्या। तद्यथा-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येयभागवय॑संख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते, तेषां समुदायो द्वितीया वर्गणा। ततः परं द्वाभ्यां वीर्याविभागाभ्यामधि कानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृनया वगणा। ततोऽपि त्रिभिीर्याविभागैरधिकाना तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा / एवमेकैकवीर्याविभागवृद्ध्या वर्धमानानां तावतांतावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति // 7 // ता था कियत्य इति तन्निरूपणार्थ स्पर्धकप्ररूपणामाहसेढिअसंखिअमित्ता, फड्डगमेत्तो अणंतरा नऽत्थि। जाव असंखा लोगा, तो बीयाई य पुव्वसमा / / 8 इह घनीकृतरय लोकस्य या एकैकप्रदेशपक्तिरूपा श्रेणिस्तस्याः श्रेणेरसंख्येयतम भागे यावन्त आकाशप्रदेशा-स्तावन्मात्रास्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिताः, एक स्पर्धक, स्पर्धन्त इवोत्तरोत्तरवृझ्या वर्गणा अत्रेति स्पर्धकम् / वृद्हुलमिति (श्रीम० कृ० 1-11) वचनादधिकरण कुम्। उक्ता स्पर्धकप्ररूपणा। सांप्रतमन्तरप्ररूपणामाह - 'एतो अणंतरा नत्थि इतः पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति / किमुक्तं भवति ?- इत ऊर्ध्वमेकैकवीर्याविभागवृद्ध्या निरन्तर वर्धमाना जीवप्रदेशा न लभ्यन्ते, किंतु सन्तरा एव / तथाहि-पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्या, नापि त्रिभिः, नापि चतुर्भिः, यावन्नापि संख्येयैः, किं त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते / ततस्तेषां समुदायो द्वितीयस्थ स्पर्धकस्य प्रथमा वर्गणा।'तो बीयाईय पुष्वसम' ति ततो द्वितीयस्पर्धकप्रथमवर्गगातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येत वक्तव्या इत्यर्थः / तथाहि-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा। द्वाभ्यां वीर्याविभागाभ्यामधिक नां समुदायस्तृतीया वर्गणा। एवं तावद्वाच्यं यावत् श्रेणयसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां च समुदायो द्वितीय स्पर्धकम्। ततः परं पुनरप्येकेन वीर्याविभागेनाधिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्या, नापि त्रिभिः, यावन्नापि संख्येयैः, किं त्वसंख्य यैरेवासंख्ययलोकाकाशप्रदेशप्रमाणैब्यधिकाः प्राप्यन्ते, ततस्तेषा समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा। तत एकैकवीर्याविभागवृद्ध्या द्वितीयादयो वर्गणास्तावबाच्या याच्छ्रेणयसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासां च समुदायस्तृतीयं स्पर्धकम् / एवमसंख्येयानि स्पर्धकानि वाच्यानीति॥८॥ तदेवं कृताऽन्तरप्ररूपणा। संप्रति स्थानप्ररूपणां करोति-- सेढिअसंखियमेत्ता-इँ फडुगाईजहन्नयं ठाणं / फडगपरिवुड्डिअओ, अंगुलभगो असंखतमो।।६।। इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभागगतप्रदेशराशि-प्रमाणानि जघन्य योगस्थान भवन्ति / एतच सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते / ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा ! तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा / द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदास्तृतीया वर्गणा / त्रिभिर्वीयर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा, एवं तावद्वाच्यं यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति। तासां समुदायः प्रथम स्पर्धकम्। ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि। तानि च तावद्वाच्यानि यावच्छणयसंख्येयभागतप्रदेशराशिप्रमाणानि भवन्ति, ततस्तेषां समुदायो द्वितीय योगस्थानम्। ततोऽन्यस्य जीवस्याधिकतमवीयस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम्। एवमन्यान्यजीवापेक्षया तावद्द्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्ट योगस्थानं भवति / इह द्वितीये योगस्थाने प्रथमे स्पर्धक प्रथमवर्गणायां जीव-प्रदेशः प्रथमयोगरथानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षया असंख्येयैर्वीर्याविभागैरधिकाः प्राप्यन्ते।तृतीयेऽपि योगस्थाने प्रथमस्पर्धक प्रथमवर्गणायां जीवप्रदेशा द्वितीययोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येय:विभागैरधिकाः प्राप्तन्ता एवं सर्वेष्वपि द्रष्टव्यम्। तानि च योगस्थानानिसाण्यपि कियन्ति भवन्तीति चेदुच्यतेश्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि। ननु जीवानामनन्तत्वात्प्रतिजीवं च योगस्थानस्य प्राष्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते श्रेण्यसंख्येयभागगतप्रदेशप्रमाणानीति ? नैष दोषः, यतः एकै