SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ वीर 1358 - अभिधानराजेन्द्रः - भाग 6 वीर शान्तिकपौष्टिकमन्त्रो-पयाचितादीनि कृत्यानि ||32|| पृच्छन्ति च दैवज्ञान, निषेधयन्त्यपि च नाटकादीनि। अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च // 33 / / राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः / किं कर्त्तव्यविमूढाः, संजाता मन्त्रिणः सर्वे / / 34 // " अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं, तत् सूत्रकृत् स्वयमाह- 'तं पि य सिद्धत्थरायवरभवणं' तदपि सिद्धार्थराजवरभवनम् 'उवयरमुइंगतंतीतलतालनाडइजजण-मणुन्नं' मृदङ्गोमईलस्तन्त्री-वीणा, तलतालाहस्ततालाः, यद्वा-तला-हस्ताः, ताला:कंसिकाः नाटकीया नाटकहिता जनाः पात्राणीति भावः, एतेषां यत् मनोज्ञत्वंतत् उपरतं-निवृत्तं यस्मिन्, एवंविधम्, अत एव 'दीणविमणं विहरइ' दीनं सत् विमनस्कं–व्यग्रचतेस्कं विहरतिआस्ते॥१२॥ 'तएणं से समणे भगवं महावीरे' तंतथाविधं पूर्वोदितं व्यतिकरमवधिना अवधार्य भगवान् चिन्तयति"किं कुर्मः कस्य वा बूमो, मोहस्य गतिरीदृशी। दुषेधातोरिवास्माकं, दोषनिष्पत्तये गुणः / / 1 / / मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत्। भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः / / 2 / / पञ्चमारे गुणो यस्माद्, भावी दोषकरो नृणाम्। नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा // 3 // इत्येवं प्रकारेण स श्रमणो भगवान महावीरो 'माऊअ अयमेयारूवे' मातुरिममेतद्रूपम् 'अन्भत्थिय पत्थिय मणोगय आत्मविषयं प्रार्थित मनोगतं. संकप्प समुप्पन्नं विजाणित्ता' संकल्पं समुत्पन्न अवधिना विज्ञाय 'एगदेसेणं एयइ' एकदेशेन अड्गुल्यादिना एजते-कम्पते, 'तए णं सा तिसला खत्तिआणी ततः सा त्रिशला क्षत्रियाणी 'हट्ट-तुट्ठ० जावहियया' हृष्टतुष्टादिविशेषणविशिष्टा यावत्, हर्षपूर्णहृदया एवं वयासी' एवमवादीत् / / 63 / / अथ किमवादीदित्याह- 'नो खलु मे गडभे हडे' नैव-निश्चयेन मे गर्भो हृतोऽस्ति 'जाव नो गलिए' यावत् नैव गलितः 'एस मे गडभे पुट्विं नो एयई एष मे गर्भः पूर्वं न कम्पमानोऽभूत्, 'इयाणिं एयइ त्ति कटु' इदानीं कम्पते इति कृत्वा 'हट्टतुट्ठ० जाव हियया एवं विहरई' हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति। अथ हर्षिता त्रिशला देवी यथाऽचेष्टत तथा लिख्यते "प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला। विज्ञातगर्भकुशला, रोमाञ्चितकञ्चुका त्रिशला / / 1 / / प्रोवाच मधुरवाचा, गर्भ मे विद्यतेऽथ कल्याणम्। हा धिक् मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया // 2 // सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम्। श्लाघ्यं च जीवित मे, कृतार्थतामाप मे जन्म॥३॥ श्रीजिनपदाः प्रसेदुः, कृताः प्रसादाश्च गोत्रदेवीभिः / जिनधर्मकल्पवृक्ष-रत्वाजन्माराधितः फलितः॥४॥ एवं सहर्षचित्ता, देवीमालोक्य वृद्धनारीणाम्। जय जय नन्देत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः / / 5 / / हर्षात् प्रवर्तितान्यथ, कुलनारीभिश्च ललितधवलानि। उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः // 6|| आनन्दाऽद्वैतमयं, राजकुल तद्वभूव सकलमपि। आतोद्यगीतनृत्यैः सुरलोकसमं महाशोभम् / / 7 / / वर्धापनागताधन-कोटी गृह्णन् ददच धनकोटीः। सुरतरुरिव सिद्धार्थः, संजातः परमहर्षभरः / / 8 // " कल्प०१ अधि० 4 क्षण। (भगवान् वीरः गर्भस्य मासषट्के व्यतिक्रान्ते एतद्रूपमभिग्रहं गृह्णाति स्म--न मम कल्पते मातापितृषु जीवत्सु दीक्षा गृहीतुमिति 'अभिग्गह' शब्दे प्रथमभागे 713 पृष्ठे उक्तम् / ) (सुखेन त्रिशला गर्भ परिवहति रक्षति च इति 'गब्भ' शब्दे तृतीयभागे 838 पृष्ठे उक्तम्।) (14) भगवतो वीरस्य जन्मकालः कुण्डली चतेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे, दुचे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं, नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्वंताणं उच्चट्ठाणगएसुगहेसु, पढमे चंदजोगे, सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु, पयाहिणाऽणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि, निप्फनमेइणीयंसि कालंसि, पमुइयपक्कीलिएसु जणपएसु पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ||6|| 'तण कालण' तस्मिन् काले 'तेणं समएणं' तस्मिन समये 'समणे भगवं महावीरे' श्रमणो भगवान महावीरः 'जे से गिम्हाणं पढमे मासे' योऽसौ उष्णकालस्य प्रथमो मासः 'दुचे पक्खे' द्वितीयः पक्षः 'चित्तसुद्धे चैत्रमासस्य शुक्लपक्षः 'तस्स णं चित्तसुद्धस्स' तस्य चैत्रशुद्धस्य 'तेरसीदिवसेणं' त्रयोदशीदिवसे 'नवण्हं मासाणं बहुपडिपुन्नाणं' नवसु मासेषु बहुप्रतिपूर्णेषु 'अट्ठमाणं राइंदिआणं विइकताणं' अर्धाष्टमरात्रिन्दिवाधिकेषु सार्द्धसप्तदिवाधिकेषु नवसुमासेषु व्यतिक्रान्तेषु, इति भावः तदुक्तम्"दुण्हं वरमहिलाणं, गब्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुण्णे, सत्त य दिवसे समइरेगे' ||1|| इदं च गर्भस्थितिमान न सर्वेषां तुल्यं, तथा चोक्तम्"दु 1 चउत्थ 2 नवम 3 बारस 4, तेरस 5 पन्नरस 6 सेस 18 गब्भठिई। मासा अडनवतदुवरि, उसहाओ कमेणिमे दिवसा // 1 // बउ 1 पणवीस २छविण 3. अडवीसं 4 छच्च 5 छचि 6 गुणवीस 7 / / सग 8 छव्वीसं 6 छ 10 च्छ य 11, वीसी 12 गवीसं 13 छ 14 छव्वीसं 15 / / 2 / / छ 16 प्पण 17 अड 18 सत्त 16 ट्ठय 20, अड 21 हय 22 छ 23 सत्त 24 होन्ति गम्भदिणा''।३। इति। सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते-"उचट्टाण गएसुगहेसु" तदानीं गृहेषु उच्चस्थानस्थितेषु, गहाणामुचत्वं चैवम्"अाधुच्चान्यज १वृष 2, मृग 3 कन्या 4 कर्क 5 मीन 6 वणिजों 7 शैः।। दिग् 10 दहना 3 ष्टाविंशति २८-तिथी १७षु५ नक्षत्र 27 विंशतिभिः / / 1 / / अयं भावः- मेषादिराशिस्थ सूर्यादयः उचाः, तत्रापि दशा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy