SearchBrowseAboutContactDonate
Page Preview
Page 1204
Loading...
Download File
Download File
Page Text
________________ विणय 1180- अमिधानराजेन्द्रः - भाग 6 विणय श्विदाचार्यादिभिः प्रतिभानवान् अर्थविशारदस्तदेवंभूतः कुतश्चिनिमित्तात् श्रोतुः कुपितोऽपि सूत्रार्थ न छादयेत्-नान्वथा व्याख्यानयेत् स्वाचार्य वा नापलयेत् धर्मकथां वा कुर्वन्नार्थ छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान्न छादयेत् / तथा परगुणान्न लूषयेत्-न विडम्बयेत्, शास्त्रार्थं वा नापसिद्धान्तेन व्याख्यानयेत्। तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम-अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात् / चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत् / तथा न चापि प्रज्ञावान्-सश्रुतिकः परिहासंकेलिप्रायं ब्रूयाद्, यदिवा-कथंचिदबुध्यमाने श्रोतरितदुपहासप्रायं परिहासं न विदध्यात् / तथा नापि चाशीवदि बहुपुत्रो बहुधनो (बहुधर्मो) दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्। भाषासमितियुक्तेन भाव्यमिति / / 16 / / किं निमित्तमाशीर्वादो न विधेय इत्याह-भूतेषुजन्तुषु उपमर्दशङ्गाभूताभिशङ्का तयाऽऽशीवदि सावधं-सपापं जुगुप्समानो न ब्रूयात्, तथा गास्त्रायत इति गोत्रं-मौनं वाक्संयमस्तं मन्त्रपदेनविद्याप्रमार्जनविधिना न निर्वाहयते-न निःसारं कुर्यात् / यदिवा--- गोत्रंजन्तूनां जीवितं मन्त्रपदेन राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतोन निर्वाहयेत्-नापनयेत्। एतदुक्तं भवति-नराजादिना सार्ध जन्तुजीवितोपमर्दकं कुर्यात्, तथा प्रजायन्त इति प्रजाः-जन्तवस्तासु प्रजासु मनुजो-मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न किमपि लाभपूजासत्कारादिकम् इच्छेद्-अभिलषेत्। तथा कुत्सितानाम्-असाधूनां धर्मान्-वस्तुदानतर्पणादिकान्नसंव-देत्-नब्रूयाद्, यदिवा-नासाधुधर्मान् ब्रुवन् संवादयेद्, अथवा-धर्मकथा व्याख्यानंवा कुर्वन् प्रजास्वात्मश्लाघारूपां कीर्ति नेच्छेदिति // 20|| किञ्चान्यत्हासं पिणो संधति पावधम्मे, ओएतहीयं फरुसं वियाणे। जो तुच्छए णो य वि कंथइज्जा, अणाइले वा अकसाइ भिक्खू // 21 // संकेज याऽसंकितभावमिक्खू, विभजवायं च वियागरेजा। भासादुयं धम्म समुट्टितेहिं। वियागरेज्जा समया सुपन्ने // 22 // अणुगच्छमाणे वितह विजाणे, तहा तहा साहु अककसेणं / ण कत्थई भास विहिंसइज्जा, निरुद्धगं वाविनदीहइजा // 23 // समालवेज्जा पडिपुन्नमासी, निसामिया समिया अट्ठदंसी। आणाइसुद्धं वयणं भिउंजे, अभिसंधए पावविवेग मिक्खू // 24 // यथा परात्मनोहस्यिमुत्पद्यते तथा शब्दादिकं शरीरावयव-मन्यान् वा पापधर्मान् सावधान् मनोवाक्कायव्यापारान् न संधयेत्-न विदध्यात्, तद्यथा-इदं छिन्धि भिन्धिा तथा कुप्राव-चनिकान् हास्यप्रायं नोत्प्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-"मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तंपानकंचापराह्न।दाक्षाखण्डं शर्कराचार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः / / 1 / / " इत्यादिकं, परदोषोद्भावनप्रायं पापबन्धकमिति कृत्वा हास्येनापि न वक्तव्यम् / तथा-'ओजो' रागद्वेषरहितः स बाह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् तथ्यमिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि ज्ञपरिज्ञया विजानीयात् प्रत्याख्यानपरिज्ञया च परिहरेत् / यदि वा- रागद्वेषविरहादोजाः तथ्यंपरमार्थभूतमकृत्रिममप्रतारकं परुषकर्मसंश्लेषाभावान्निर्ममत्वादल्पसत्वैर्दुरनुष्ठेयत्वादा कर्कशमन्तप्रान्ताहारोपभोगाद्वापरुष-संयम विजानीयात्-तदनुष्ठानतः सम्यगवगच्छेत्। तथास्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छो भवेत्-नोन्मादं गच्छेत्। तथा न विकत्थयेत्-नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानः नो विकथयेत्- नात्यन्तं चमढयेत्। तथा अनाकुलोव्याख्यानावसरेधर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत्, तथा सर्वदा अकषायःकषायरहितो भवेद् भिक्षुः-साधुरिति।२१। साम्प्रतं व्याख्यानविधिमधिकृत्याह-भिक्षुः-साधुर्व्याख्यानं कुर्वन्नग्दिर्शित्वादर्थनिर्णय प्रति अशङ्कितभावोऽपि शङ्केतऔद्धत्यं परिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्वं न कुर्वीत, किन्तु-विषममर्थं प्ररूपयन् साशङ्कमेव कथयेद्, यदि वा-परिस्फुटमप्य-शङ्कित्तभावमप्यर्थ न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवाद-पृथगर्थनिर्णयवादं व्यागृणीयात्, यदिवा-विभज्यवादः-स्याद्वादस्तं सर्वत्रास्खलितं लोकव्यवहारविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद, अथवा-सम्यगन् विभज्य-पृथक् कृत्वा तद्वादं वदेत्, तद्यथा-नित्यवादं द्रव्यार्थतया; पर्यायार्थतया त्वनित्यवादं वदेत्। तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तुन सन्ति, तथा चोक्तम्-"सदैव सर्व को नेच्छे-स्वरूपादिचतुष्टयात्। असदेव विपर्यासान्नचेन्नव्यवतिष्ठते // 1 // " इत्यादिकं विभज्यवादंवदेदिति। विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह-भाषयोः-आद्यचरमयोः सत्या-सत्यामृषयोकिं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा व्यागृणीयात्-भाषेत। किंभूतः सन्? सम्यक् सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः सह विहरन चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणीयादिति // 22 // किञ्चान्यत्-तस्यैवंभाषायेन कथयतः कश्चिन्मेधावितयातथैव तमर्थ-मायार्यादिना कथितमनुगच्छन् सम्यगवबुध्यते, अपरस्तुमन्दमेधावितया वितथम-अन्यथैवाभिजानीयात्, तंच सम्यगनवबुध्यमानंतथा तथा-तेनतेन
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy