________________ वसहि 1045 - अभिधानराजेन्द्रः - भाग 6 वसहि प्राघूर्णकाः साधव आत्मद्वितीया आत्मतृतीया वा तत्रागताः। तैश्च तत्र श्रुतंयथाऽत्र संयत्यस्तिष्ठन्तिाततस्ते तासां वसतिसोपचाराः प्रविशन्ति। सोपचारा नाम-त्रिषु स्थानेषु प्रयुक्तनैषेधिकीशब्दाः, यदा-संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते, तेषु समागतेषु प्रवर्तिनी यदि स्थविरा तत आत्मद्वितीया निर्गच्छति / अथ तरुणी तत आत्मतृतीया, या चतत्र स्थविरा पुरतस्तिष्ठतिततः साधवः शय्यातरकुलं मामककुलं प्रतिक्रुष्टकूलानि वा रजकादिसंबन्धीनि, औद्देशिकंच येषु कुलेषु क्रियते तानि प्रष्टुं प्रवर्त्तिन्याः समीपे गच्छन्ति। अथोपचारं व्याख्यातिआसंदग कट्ठमओ, मिसिया वा पीढगं व कट्ठमयं। तक्खणलंभे असई, पडिहारिगपेहभोगण्णे // 67|| यदि साधुषु समागतेषु तत्क्षणादेव काष्ठमय आसन्दकोऽशुषिरादिगुणोपेतः प्राप्यते, वृषिका वा काष्ठमयं वा पीढकं लभ्यते, ततस्तदानीमेव तद्ग्रहीतव्यम्।अथ तत्क्षणादेवासन्दकादिन लभ्यते ततो गतं प्रातिहारिकं गृहीत्वा स्थापयन्ति 'पेह' त्ति तद्योभयसंध्यं प्रत्यपेक्षते 'भोगण्णे' त्ति अकारप्रश्लेषादन्यान्यानामसंयतीजनस्य प्रातिहारिकस्य भोगं न करोति / ततस्ते तत्रोपविष्टाः संयतीनां निरावाधादिवार्ता पृष्ठा शय्यातरकुलादीनि पृच्छन्ति। अथ केन विधिना ते पृच्छन्ति, केन वा विधिना तास्तेषां दर्शयन्तीत्युच्यतेवाहॉए अंगुलीऍ व, लट्ठीऍ व उज्जु ठिओ संतो। न पुच्छेज न दाएज, पचावाया भवे तत्थ // 68|| शय्यातरादिकुलं पृच्छन् दर्शयन् वा बाहया बाहुप्रसार्य एवम् अगुल्या वायष्ट्या वा गृहस्य ऋजुकं संमुखं स्थितः सन्न पृच्छेत्, न वा दर्शयेत्। कुत इत्याह-- यतस्तत्रैव पृच्छ्यमाने दर्श्यमाने वा प्रत्यपाया बहवो भवन्तीति। तानेवाहतेणेहि अगणिणा वा, जीवियववरोवणं व पडिणीए। खरए खरिया सुण्हा, नट्टे वट्टक्खरे संका ||6|| बाहादिकं प्रसार्य साधुना यद् गृहं पृष्टं संयत्या वादर्शितम्: ततः स्तेनैः किञ्चिदपहृतं भवेत्, अग्रिना वा तद् गृहं दग्धम्, प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवव्यपरोपणं कृतम्, ढ्यक्षरको वाट्यक्षरिका वा केनचिदपहृता स्नुषा वा केनचिद्भूर्तेन सह पलायिता, वृत्तखुरोवा प्रधानस्तुरङ्गमो नष्टो भवेत्, ततः साधुसाध्वीविषया शङ्का भवेत् / नूनमेतैरेवापहृतम्, दग्धमित्यादि / ततो नाऽविधिना पृच्छेत् / तत्र वासिनस्ते साधवो न हसन्ति, नवा कन्दर्प कुर्वन्ति। किंतुसेजायराण धम्म, कहिंति अजाण देंति अणुसद्धि। धम्मम्मि य कहियम्मि य, सव्वे संवेगमावन्ना // 7 // शय्यातराणां धर्म कथयन्ति / आर्याणां वा उद्यतानां स्थिरीकरणार्थ सीदन्तीनां पुनरुद्यमनार्थमनुशिष्टिं प्रयच्छन्ति। धर्मे च कथिते सर्वे श्राद्धाः संयत्यश्च संवेगमापन्ना भवन्ति, आत्मनश्च निर्जरा भवति। प्राघुणकद्वारमेव प्रकारान्तरेण व्याचष्टअन्नो वि अ आएसो, पाहुणगअभासिया उ तेणमए। चिलिमिलिअंतरिया खलु, चाउस्साले वसेऽजाणं // 71|| अयमन्योऽपर आदेशः प्राघुणकद्वारे समस्ति, ते प्राघुणका आभाषिका द्रविडादिदेशोद्भवाः ततस्तत्र तेषामुपाश्रयो दुर्लभः / अतस्तदर्थे संयत्यो वसतिंमार्गयन्तिायदिताभिरपि गवेषयन्तीभिर्न लब्धा ततो वृक्षमूलादि बहिर्वसन्ति। अथ बहिः स्तेनभयं ततो यत्रार्याः स्थिताः सन्ति तच तुः शालं भवेत् 'तत्रान्यस्यां शालायां साधवश्विलिमिलिकया अन्तरिता वसेयुः। चतुःशालस्याऽभावे विधिमाहकुडुतरस्स असती, कडओ पोत्तं च अंतरे थेरा। तेसंऽतरिया खुड्डी, समणीण वि मग्गणा एवं // 72 // अन्यस्या वसतेरभावे संयताः संयत्यश्चैकस्मिन् गृहे वसन्ति, कुड्यान्तरस्याभावे कटकोऽपान्तराले दीयते / कटकस्याभावे पोतंवस्त्रं तन्मयी चिलिमिलिका तस्याः स्तेनभयम्, ततो यस्मिन्पार्श्वे संयत्यस्तस्याः प्रथमं स्वविरास्तेरैन्तरिताः क्षुल्लकास्ततो मध्यमास्ततस्तरुणा इति, एवं श्रमणीनामपि मार्गणा कर्त्तव्या। तद्यथास्थविरसाधूनामासन्ने क्षुलिकास्ततः स्थविरास्ततो मध्यमास्ततो दृढाऽऽसन्ने तरुण्यः स्थाप्यन्ते। तत्र स्थितानां विधिमाहअन्नाए आभोग, नाऍ ससई करेंति सज्झायं। अव्वुग्धायाव सुवे, अच्छंति व अन्नहिं दिवसं 173|| यदितत्र जनेनाज्ञाताः स्थितास्ततोरात्रावभोगमुपयोगं कुर्वते; तूष्णीका आसते इत्यर्थः। अथ ज्ञातास्ततः सशब्दं महताशब्देन युक्तंस्वाध्यायं कुर्वन्ति / अथ ते चोद्वाताः-परिश्रान्तास्ततः स्वपन्ति / कारणमचैकद्वित्रीन् वा दिवसान्तत्रैव यदि स्थास्नवस्ततो दिवसमन्यत्रोद्यानादिषु स्थित्वा रात्रौ तत्र वसन्ति। कारणाभावे तु तत्रैकरात्रादुषित्वा प्रभाते व्रजन्तिसमणी समणपविटे, निसंतउल्लावकारणे गुरुगा। पयलानिद्दतुवट्टे, अच्छीमलणे गिही मूलं // 7 // श्रमणीजने श्रमणजने च कायिकी कृत्वा प्रविष्ट सति यद्येकोऽनेको वा एक एवानेकाभिर्वा संयतीभिः समं निशान्ते निः संचरवेलाया मुल्लापकं कारणे-आगाढकारणाभावे कुर्वन्ति ततश्चतुर्गुरुकम् / तथाऽन्यत्रोद्यानादिषु श्वापदस्तेनादिभयाद्वाऽपि तत्रैव तिष्ठन्ति, यदि प्रचलायन्ते, निद्रायन्ते, त्वग्वर्तयन्ति वा अक्षिणी मलयन्ति, तत्र चतुर्गुरुकम्। अथ गृही प्रचलादि विदधानंतं दृष्ट्वा शङ्कां करोति-किमेष स्वाध्यायजागरणेन खिन्नः प्रचलायते उत सागारिकजागरेणेत्यादि, ततश्चतुर्गुरुः, निःशङ्किते मूलम्। उचारं पासवणं वा, अन्नहिं मत्तएसु वज्जयंति। अहिपविठ्ठावा, अदिट्ट णिते ततो भयिता / / 7 / / उच्चारं प्रश्रवणं वा यदि बाहीक भूमिं विमुच्यान्यत्र प्रकुर्वन्ति, मात्रकेषु वा कृत्वा बहिः परिष्ठापनायागतास्तत्र यदि